home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

॥ सर्गे विषय सार सारिणी॥


सर्गे विषय सारम् पठसि
सीतालक्ष्मणसहितस्य श्रीरामस्य तापसा श्रममण्डले सत्कार: पाठम्
वने श्रीरामादीन् प्रति विराधस्याक्रमणम् पाठम्
विराधश्रीरामसंवादः श्रीरामेण सलक्ष्मणेन विराधस्योपरि प्रहरणं विराधस्य तौ द्वावपि भ्रातरौ गृहीत्वा वनान्तरे गमनम् पाठम्
श्रीरामलक्ष्मणकर्तृको विराधस्य वधः पाठम्
लक्ष्मणसीतासहितस्य श्रीरामस्य शरभङ्गमुनेराश्रमे गमनं तत्र देवान् दृष्ट्वा तस्य मुनिना सम्मानं शरभङ्गस्य ब्रह्मलोके गमनं च पाठम्
वानप्रस्थमुनीनां राक्षसात्याचारतः स्वरक्षणार्थं श्रीरामं प्रति प्रार्थना, श्रीरामकर्तृकं तेषामाश्वासनम् पाठम्
सीतालक्ष्मणसहितस्य श्रीरामस्य सुतीक्ष्णस्याश्रमं गत्वा तेन सह वार्तालापस्तेन च सत्कृतस्य तस्य तत्रैव रात्रौ निवासःपाठम्
प्रातः सुतीक्ष्णेनानुज्ञातस्य लक्ष्मणसीतासहितस्य श्रीरामस्य ततः प्रस्थानम् पाठम्
अनागसां देहिनामहिंसनायाहिंसाधर्मस्य पालनाय च सीतायाः श्रीरामं प्रति प्रार्थनम् पाठम्
१०श्रीरामेण मुनीनां संरक्षणाय रक्षसां वधाय कृतायाः प्रतिज्ञायाः पालने दृढमवस्थानाय स्वविचारस्य प्रकटनम्पाठम्
११पञ्चाप्सरस्तीर्थस्य माण्डकर्णिमुनेश्च कथा नाना- श्रमेषु विहृत्य श्रीरामप्रभृतीनां सुतीक्ष्णस्याश्रमे समागमनं तत्र किञ्चित् कालं स्थित्वा मुनेराज्ञया- गस्त्य भ्रातुरगस्त्यस्य चाश्रमयोर्गमनमगस्त्य- प्रभावस्य च वर्णनम् पाठम्
१२श्रीरामप्रभृतीनामगस्त्यस्याश्रमे प्रवेशस्तत्र तेषा - मातिथ्यं मुनेः सकाशाच्च तेभ्यो दिव्यास्त्रशस्त्राणां प्राप्तिः पाठम्
१३महर्षिणागस्त्येन श्रीरामं प्रति परितोषं प्रकट्य सीतायाः प्रशंसनं श्रीरामेण पृष्टेन तेन पञ्चवट्या- माश्रमं निर्माय तत्रावस्थातुमाज्ञाप्रदानं श्रीराम- प्रभृतीनां ततः प्रस्थानं च पाठम्
१४पञ्चवटीमार्गे जटायुषो दर्शनं तस्य श्रीरामं प्रति स्वस्य विस्तरेण परिचयदानम् पाठम्
१५पञ्चवट्यां रम्ये प्रदेशे श्रीरामस्याज्ञया लक्ष्मणेन सुन्दरपर्णशालाया निर्माणं तत्र सीतालक्ष्मण- सहितस्य श्रीरामस्य निवासश्च पाठम्
१६लक्ष्मणेन हेमन्तर्तोर्वर्णनं भरतस्य प्रशंसनं श्रीरामस्य लक्ष्मणेन सीतया च सह गोदावर्यां स्नानम् पाठम्
१७श्रीरामस्याश्रमे शूर्पणखाया आगमनं तस्य परिचयं ज्ञात्वा स्वात्मनः परिचयं दत्त्वाऽऽत्मानं भार्यारूपतया ग्रहीतुं तं प्रति तस्या अनुरोध : पाठम्
१८श्रीरामेण तदनुरोधस्यानङ्गीकारे कृते शूर्पणखाया लक्ष्मणं प्रति प्रणययाचना तेनापि प्रत्याख्याताया- स्तस्याः सीतां प्रत्याक्रमणं लक्ष्मणेन तस्या नासिकाकर्णयोश्छेदश्च पाठम्
१९शूर्पणखातस्तदीयदुर्दशावृत्तान्तमाकर्ण्य कुपितेन खरेण रामादीनां वधाय चतुर्दशसहस्रराक्षसानां प्रेषणम् पाठम्
२०श्रीरामकर्तृकः खरप्रहितानां राक्षसानां वधः पाठम्
२१शूर्पणखया खरपार्श्वमुपगम्य राक्षसवधवृत्तान्तं निवेद्य श्रीरामतो भयं प्रदर्श्य खरस्य युद्धार्थं प्रोत्साहनम् पाठम्
२२चतुर्दशसहस्रसैनिकैः सह खरदूषणयोर्जनस्थानात्- पञ्चवटीं प्रति प्रस्थानम् पाठम्
२३भयंकरानुत्पातान् दृष्ट्वापि तानचिन्तयित्वा खरस्य राक्षससेनायाश्च श्रीरामस्याश्रमसमीपे गमनम् पाठम्
२४श्रीरामेण तात्कालिकैः शकुनै राक्षसानां विनाशं स्वविजयं च सम्भाव्य सीतासहितस्य लक्ष्मणस्य पर्वतगुफायां प्रेषणम् पाठम्
२५राक्षसानामाक्रमणं श्रीरामेण तेषां संहारश्च पाठम्
२६श्रीरामेण दूषणसहितानां चतुर्दशसहस्रराक्षसानां वधः पाठम्
२७त्रिशिरसो वधःपाठम्
२८खरेण सह श्रीरामस्य घोरं युद्धम् पाठम्
२९श्रीरामेण खरस्य भर्त्सनं खरेणापि तं प्रति परुषमुक्त्वा तदुपरि गदाया: प्रहारः श्रीरामेण तस्याः खण्डनं च पाठम्
३०श्रीरामेण परुषमुक्तस्य खरस्य तं प्रति परुषोक्ति- स्तदुपरि खरेण शालेन प्रहारश्च तं शालं छित्त्वा श्रीरामेण खरस्य वधो देवैर्मुनिभिश्च श्रीरामस्य स्तवनम् पाठम्
३१अकम्पनसम्मत्या रावणस्य सीतापहरणाय गमनं मारीचस्य वचसा तस्य पुनर्लङ्कायामेव परावर्तनम् पाठम्
३२शूर्पणखाया लङ्कायां रावणस्य पार्श्वे गमनम् पाठम्
३३शूर्पणखाकर्तृकं रावणस्य भर्त्सनम् पाठम्
३४रावणेन पृष्टया शूर्पणखया तस्मै सीतालक्ष्मण- सहितस्य श्रीरामस्य परिचयं दत्त्वा सीतां भार्यात्वेन ग्रहीतुं तस्य प्रेरणम् पाठम्
३५सागरानुपशोभामवलोकयतो रावणस्य पुनर्मारीचस्य पार्श्वे गमनम् पाठम्
३६श्रीरामस्यागांसि वर्णयित्वा तत्पत्न्याः सीताया अपहरणे साहाय्यं कर्तुं मारीचं प्रति रावणस्यानुरोधः पाठम्
३७श्रीरामस्य गुणप्रभावानुपवर्ण्य मारीचेन सीता- हरणोद्यमाद् रावणस्य निवारणम् पाठम्
३८श्रीरामशक्तिविषयकमनुभवं प्रतिपाद्य मारीचेन रावणस्य श्रीरामापराधकरणान्निवारणम् पाठम्
३९मारीचेन रावणस्य प्रबोधनम् पाठम्
४०रावणेन मारीचस्य भर्त्सनं सीतापहृतौ साहाय्यं कर्तुमादेशदानं च पाठम्
४१मारीचेन रावणस्य विनाशभयं प्रदर्श्य पुनः प्रतिबोधनम् पाठम्
४२ सौवर्णमृगरूपं धारयित्वा मारीचस्य श्रीरामाश्रमे गमनं सीताकर्तृकं तस्य दर्शनं च पाठम्
४३ कपटमृगं दृष्ट्वा लक्ष्मणस्य संदेहः सीतया जीवन्तं मृतं वा मृगमानेतुं श्रीरामस्य प्रेरणं श्रीरामेण लक्ष्मणं सम्बोध्य तदुपरि सीतारक्षाभारं निक्षिप्य तं मृगं हन्तुं गमनम् पाठम्
४४ श्रीरामेण मारीचस्य वधस्तत्कर्तृकं सीतालक्ष्मणा- ह्वानशब्दं श्रुत्वा श्रीरामस्य चिन्ता पाठम्
४५ सीताया मार्मिकवचसा प्रेरितस्य लक्ष्मणस्य श्रीराम-पार्श्वे गमनम् पाठम्
४६ परिव्राजकरूपेण रावणस्य सीतायाः पार्श्वे गमनं तस्याः परिचयं ज्ञातुं तां प्रति प्रश्नः सीतया आतिथ्याय तस्य निमन्त्रणं च पाठम्
४७ सीतया रावणाय पत्युरात्मनश्च परिचयं दत्त्वा वनागमने कारणस्य प्रतिपादनं रावणेन तां स्वपट्टमहिषीपदे प्रतिष्ठापयितुं स्वविचारस्य प्रकटनं सीतया तस्य भर्त्सनं च पाठम्
४८ रावणेन स्वपराक्रमस्य वर्णनं सीतया तस्य भर्त्सनं च पाठम्
४९ रावणेन सीताया अपहरणं तस्या विलापो जटायुषो दर्शनं च पाठम्
५० जटायुषा सीताहरणरूपाद् दुष्कर्मणो रावणं निवर्तयितुं तस्य प्रबोधनं तदन्ते युद्धार्थमाह्वानं च पाठम्
५१ जटायूरावणयोर्घोरं युद्धं रावणेन जटायुषो वधश्च पाठम्
५२ रावणेन सीताया अपहरणम् पाठम्
५३ सीतया रावणस्य धिक्कारणम् पाठम्
५४ सीतया पञ्चवानराणां मध्ये स्वाभूषणवस्त्राणां पातनं लङ्कां गत्वा रावणेन सीतायाः स्वान्तःपुरे रक्षणं जनस्थाने गुप्तचरतया निवासं कर्तुमष्टानां राक्षसानां प्रेषणं च पाठम्
५५ रावणः सीतां स्वान्तः पुरं दर्शयित्वा त्वं मे भार्या भवेति प्रैरयत् पाठम्
५६ सीता श्रीरामे स्वानुरागं संदर्श्य रावणं भर्त्सयामास रावणस्याज्ञया राक्षस्यस्तामशोकवाटिकां नीत्वा भीषयामासुः पाठम्
५७ श्रीरामस्य मृगं हत्वा निवर्तनं मार्गेऽपशकुनं दृष्ट्वा तस्य चिन्ता तत्र मिलितं लक्ष्मणमुपालभ्य सीताविषयकसंकटस्य तेनाशङ्कनम् पाठम्
५८ पथि विविधामाशङ्कां कुर्वतो लक्ष्मणसहितस्य श्रीरामस्य स्वाश्रमे आगमनं तत्र सीतामदृष्ट्वा व्यथायां निमज्जनम् पाठम्
५९ श्रीरामलक्ष्मणयोर्वार्तालापः पाठम्
६० विलपता श्रीरामेण वृक्षान् पशूंश्च प्रति सीता- विषयक वार्ताया जिज्ञासनं भ्रान्तस्य तस्य रोदनं भूयो भूयस्तेन सीताया अन्वेषणं च पाठम्
६१ श्रीरामलक्ष्मणाभ्यां सीताया अन्वेषणं तस्या अनधि- गमे श्रीरामस्य विलापश्च पाठम्
६२ श्रीरामस्य विलापः पाठम्
६३ श्रीरामस्य विलापः पाठम्
६४ श्रीरामलक्ष्मणाभ्यां भूयः सीताया अन्वेषणं श्रीरामस्य शोकोद्वारो मृगेभ्यः संकेतं प्राप्य द्वयोर्भ्रात्रोर्दक्षिणदिशां प्रति गमनम्, पर्वताय क्रोधः, सीताया विकीर्णानि पुष्पाणि भूषणानां कणान् युद्धस्य चिह्नानि चावलोक्य श्रीरामेण देवादिसहितां त्रिलोकीं प्रति स्वस्य रोषस्य प्रकटनम् पाठम्
६५ लक्ष्मणेन श्रीरामस्य प्रबोधनं तदीयशोकस्य प्रशमनं च पाठम्
६६ लक्ष्मणेन श्रीरामस्य प्रबोधनम् पाठम्
६७ श्रीरामलक्ष्मणकर्तृकं जटायुषो दर्शनं श्र तमाश्लिष्य रोदनम् पाठम्
६८ जटायुषा प्राणानां परित्यागः श्रीरामकर्तृकस्तस्य दाहसंस्कारश्च पाठम्
६९ लक्ष्मणेनायोमुख्यै दण्डदानं कबन्धस्य बाहुबन्धे प्रविष्टयोः श्रीरामलक्ष्मणयोश्चिन्ता पाठम्
७० मिथो विचार्य श्रीरामलक्ष्मणाभ्यां कबन्धभुजयो- श्छेदनं कबन्धेन तयोः सत्कारश्च पाठम्
७१ कबन्धस्यात्मकथा स्वशरीरस्य दाहानन्तरं तेन सीतान्वेषणे श्रीरामाय साहाय्यं दातुमाश्वासनम् पाठम्
७२ श्रीरामलक्ष्मणाभ्यां चिताग्निना कबन्धस्य दाहो दिव्यरूपं धृत्वा तेन श्रीरामाय सुग्रीवेण सह मैत्रीं कर्तुं संमतिदानम् पाठम्
७३ श्रीरामलक्ष्मणौ प्रति ऋष्यमूकपम्पासरोवरयोर्मार्गं वर्णयित्वा मतङ्गमुनेर्वनस्याश्रमस्य परिचयं दत्त्वा दिव्यरूपस्य कबन्धस्य ततः प्रस्थानम् पाठम्
७४ श्रीरामलक्ष्मणाभ्यां पम्पातटे मतङ्गवने शबर्या आश्रमं गत्वा तस्याः सत्कारस्य ग्रहणं तया सह मतङ्गवनस्य निरीक्षणं शबर्या स्वशरीरस्याहुतिं दत्त्वा ततो दिव्यधाम्नि गमनम् पाठम्
७५ श्रीरामलक्ष्मणोर्वार्तालापस्तयोः पम्पातटे गमनम् पाठम्

अरण्यकाण्डं सम्पूर्णम्


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध