home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

सप्तषष्ठितमः सर्गः ॥३-६७॥

॥गृध्रराजदर्शनम्॥

[ श्रीरामलक्ष्मणकर्तृकं जटायुषो दर्शनं श्र तमाश्लिष्य रोदनम् ]

पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम्। सारग्राही महासारं प्रतिजग्राह राघवः॥ १॥ संनिगृह्य महाबाहुः प्रवृद्धं रोषमात्मनः। अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत्॥ २॥ किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण। केनोपायेन पश्याव सीतामिति विचिन्तय॥ ३॥ तं तथा परितापार्तं लक्ष्मणो राममब्रवीत्। इदमेव जनस्थानं त्वमन्वेषितुमर्हसि॥ ४॥ राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम्। सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च॥ ५॥ गुहाश्च विविधा घोरा नानामृगगणाकुलाः। आवासाः किन्नराणां च गन्धर्वभवनानि च॥ ६॥ तानि युक्तो मया सार्धं समन्वेषितुमर्हसि। त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभाः॥ ७॥ आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः। इत्युक्तस्तद् वनं सर्वं विचचार सलक्ष्मणः॥ ८॥ क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम्। ततः पर्वतकूटाभं महाभागं द्विजोत्तमम्॥ ९॥ ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम्। तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत्॥ १०॥ अनेन सीता वैदेही भक्षिता नात्र संशयः। गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम्॥ ११॥ मक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम्। एनं वधिष्ये दीप्तास्यैर्घोरैर्बाणैरजिह्मगैः॥ १२॥ इत्युक्त्वाभ्यपतद् गृध्रं संधाय धनुषि क्षुरम्। क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम्॥ १३॥ तं दीनं दीनया वाचा सफेनं रुधिरं वमन्। अभ्यभाषत पक्षी तु रामं दशरथात्मजम्॥ १४॥ यामोषधिमिवायुष्मन्नन्वेषसि महावने। सा देवी मम च प्राणा रावणेनोभयं हृतम्॥ १५॥ त्वया विरहिता देवी लक्ष्मणेन च राघव। ह्रियमाणा मया दृष्टा रावणेन बलीयसा॥ १६॥ सीतामभ्यवपन्नोऽहं रावणश्च रणे मया। विध्वंसितरथच्छत्रः पतितो धरणीतले॥ १७॥ एतदस्य धनुर्भग्नमेते चास्य शरास्तथा। अयमस्य रणे राम भग्नः सांग्रामिको रथः॥ १८॥ अयं तु सारथिस्तस्य मत्पक्षनिहतो भुवि। परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः॥ १९॥ सीतामादाय वैदेहीमुत्पपात विहायसम्। रक्षसा निहतं पूर्वं मां न हन्तुं त्वमर्हसि॥ २०॥ रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा। द्विगुणीकृततापार्तः सीतासक्तां प्रियां कथम्॥ २१॥ श्रुत्वा जटायुषो वाक्यं रामः सौमित्रिणा सह। गृध्रराजं परिष्वज्य परित्यज्य महद् धनुः॥ २२॥ निपपातावशो भूमौ रुरोद सहलक्ष्मणः। एकमेकायने दिर्गे निःश्वसन्तं कथंचन॥ २३॥ समीक्ष्य दुःखिततरो रामः सौमित्रिमिदमब्रवीत्। राज्याद्भ्रंशो वने वासः सीता नष्टा द्विजो हतः॥ २४॥ ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम्। सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम्॥ २५॥ सोऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितां पतिः। नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् सचराचरे॥ २६॥ येनेयं महती प्राप्ता मया व्यसनवागुरा। अयं पितृवयस्यो मे गृध्रराजो जरान्वितः॥ २७॥ शेते विनिहतो भूमौ मम भाग्यविपर्ययात्। इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः। जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन्॥ २८॥ निकृत्तपक्षं रुधिरावसिक्तं स गृध्रराजं परिरभ्य रामः। क्व मैथिली प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ॥ २९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे गृध्रराजर्दर्शनं नाम सप्तषष्ठितमः सर्गः ॥३-६७॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध