home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

॥ सर्गे विषय सार सारिणी॥


सर्गे विषय सारम् पठसि
हनुमता समुद्रस्य लङ्घनं मैनाकेन तस्य सत्कारस्ततः सुरसायाः पराजयः सिंहिकाया वधं कृत्वा तस्य दक्षिणतटे गमनं तत्र तेन लङ्काशोभाया निरीक्षणम् पाठम्
लङ्कापुर्या वर्णनं तत्र प्रवेशविषये हनुमतो विचारो लघुरूपधरस्य तस्य पुर्यां प्रवेशस्तदानीं चन्द्रोदय- शोभाया वर्णनम् पाठम्
लङ्कामवलोक्य हनुमतो विस्मयस्तत्र प्रविशत- स्तस्य लङ्कयावरोधस्तत्प्रहारेण पीडितया तया तस्मै पुर्य्यां प्रवेष्टुमनुमतिदानम् पाठम्
हनुमतो लङ्कायां रावणस्यान्तःपुरे च प्रवेशः पाठम्
रावणान्तःपुरे प्रतिगृहं सीताया अन्वेषणं कुर्वतो हनुमतस्तामदृष्ट्वा दुःखम् पाठम्
हनुमता रावणस्यान्येषां च रक्षसां गृहेषु सीताया अनुसंधानम् पाठम्
रावणभवनस्य पुष्पकविमानस्य च वर्णनम् पाठम्
हनुमता पुनः पुष्पकस्य दर्शनम् पाठम्
रावणस्य भवनं पुष्पकविमानं सुन्दरनिवेशनं चावलोक्य हनुमता तत्र सुप्तानां सहस्रशः सुन्दरीणां समवलोकनम् पाठम्
१० अन्तःपुरे सुप्तं रावणं प्रगाढनिद्रानिमग्नास्तस्य स्त्रियश्च दृष्ट्वा मन्दोदरीं सीतां मत्वा हनुमतो हर्षः पाठम्
११ नासौ सीतेति निश्चित्य हनुमता पुनरन्तःपुरे पान - भूमौ च सीताया अनुसंधानं तन्मनसि धर्मलोपा- शङ्का तस्याः स्वतो निवारणं च पाठम्
१२ मरणाशङ्कया हनुमतः शैथिल्यं पुनरुत्साह- मवलम्ब्य स्थानान्तरेषु तेन तस्या अन्वेषणं कुत्रापि तामवाप्य तस्य पुनश्चिन्ता च पाठम्
१३ सीताविनाशाशङ्कया हनुमतश्चिन्ता सीतानुपलब्धि- सूचनादर्थं सम्भाव्य हनुमतोऽपरावर्तनाय निश्चयः पुनरन्वेषणविचारश्च, अशोकवाटिकायामनुसंधान- विषये विविधं पर्यालोचनं च. पाठम्
१४ अशोकवनिकायां प्रविश्य तस्याः शोभाया दर्शन- मेकस्मिन्नशोके प्रच्छन्नीभूतेन हनुमता तत एव तस्या अनुसंधानम् पाठम्
१५ वनसुषमामवलोकयता हनुमता चैत्यप्रासादसंनिधौ दयनीयां सीतामालोक्येयमेव सेति तर्कणं तस्य प्रसन्नता च पाठम्
१६ सीतायाः शीलं सौन्दर्यं च मनसा प्रशस्य तां दुःखमग्नां निरीक्ष्य तदर्थं हनुमतोऽपि शोकः पाठम्
१७ भीषणराक्षसीभिर्वृतायाः सीताया दर्शनेन हनुमतो हर्षः पाठम्
१८ स्वकीयस्त्रीभिः परिवृतस्य रावणस्याशोकवनिकाया- मागमनं हनुमता तस्य दर्शनं च पाठम्
१९ रावणं दृष्ट्वा दुःखभयचिन्तासु मग्नायाः सीताया अवस्था पाठम्
२० रावणकर्तृकं सीतायाः प्रलोभनम् पाठम्
२१ सीताकर्तृकं रावणस्य प्रबोधनं श्रीरामेण सह तुलनायां तस्य तुच्छतायाः प्रतिपादनम् पाठम्
२२ रावणेन तस्याः कृते मासद्वयावधेः प्रदानं सीता- कर्तृकं तस्य भर्त्सनं रावणस्य तां निर्भर्त्स्य राक्षसीनां नियन्त्रणे संस्थाप्य स्त्रीभिः सह स्वभवने गमनम् पाठम्
२३ राक्षसीभिः सीतायाः प्रबोधनम् पाठम्
२४ सीतया राक्षसीनां वचसोऽनङ्गीकरणं राक्षसीकर्तृकं तस्या भर्त्सनं च पाठम्
२५ राक्षसीवचोऽनङ्गीकृत्य शोकसंतप्तायाः सीताया विलाप: पाठम्
२६ सीतायाः करुणो विलापः स्वप्राणपरित्यागनिश्चयश्च पाठम्
२७ त्रिजटायाः स्वप्नस्तत्र रक्षसां विनाशस्य श्रीराघव- विजयस्य च सूचनम् पाठम्
२८ विलपन्त्याः सीतायाः प्राणपरित्यागायोद्यमः पाठम्
२९ सीतायाः शुभशकुनानिपाठम्
३० सीतया सह कर्तव्ये वार्तालापे हनुमतो विचारणा पाठम्
३१ हनुमता सीतां श्रावयितुं श्रीरामकथाया वर्णनम् पाठम्
३२ सीताया वितर्कः पाठम्
३३ आत्मानं परिचाययन्त्या सीतया स्ववनागमनाप- हरणयोर्वृत्तान्तस्य वर्णनम् पाठम्
३४ हनुमति सीतायाः संदेहः स्वत एव तस्य समाधनं च सीताया आदेशेन हनुमता श्रीरामगुणानां वर्णनम् पाठम्
३५ सीतया पृष्टेन हनुमता श्रीरामस्य शारीरिकलक्षणानां गुणानां च वर्णनं नरवानरमैत्रीप्रसङ्गं श्रावयित्वा सीताया मनसि स्वकीयविश्वासस्योत्पादनं च पाठम्
३६ हनुमता सीतायै मुद्रिकाया अर्पणं कदा श्रीराघवो मामुद्धरिष्यतीति सौत्सुक्यं सीतायाः प्रश्नो हनुमता श्रीरामस्य सीताविषयकमनुरागं वर्णयित्वा सीतायाः सान्त्वनं च पाठम्
३७ श्रीरामस्य शीघ्रमानयनाय हनुमन्तं प्रति सीताया आग्रहो हनुमताऽऽत्मना सह चलितुं सीतां प्रत्यनुनयः सीतया तस्यानङ्गीकरणं च पाठम्
३८ सीतया प्रत्यभिज्ञानतया चित्रकूटे घटितस्य काक- प्रसङ्गस्य श्रावणं श्रीरामस्य शीघ्रमानयनायाग्रहकारणं हनुमते चूडामणे: समर्पणं च पाठम्
३९ चूडामणिमादाय यान्तं हनुमन्तं प्रति सीतया श्रीरामप्रभृतीनुत्साहयितुमाग्रहकरणं समुद्रतरणे संशयानायाः सीताया हनुमता वानराणां पराक्रमं वर्णयित्वाऽऽश्वासनम् पाठम्
४० श्रीरामस्य कृते सीतया पुनः संदेशस्य दानं तामाश्वास्य हनुमत उत्तरदिशायां प्रस्थानम् पाठम्
४१ हनुमता प्रमदावनस्य विध्वंसःपाठम्
४२ राक्षसीभ्यो वनविध्वंसवार्तामाकर्ण्य रावणेन किङ्कराणां प्रेषणं हनुमता तेषां संहारश्चपाठम्
४३ हनुमता चैत्यप्रासादस्य विध्वंसस्तद्रक्षकाणां वधश्च पाठम्
४४ प्रहस्तपुत्रस्य जम्बुमालिनो वधः पाठम्
४५ मन्त्रिणः सप्तपुत्राणां वधः पाठम्
४६ रावणस्य पञ्चसेनापतीनां वधः पाठम्
४७ रावणेरक्षस्य पराक्रमो वधश्च पाठम्
४८ इन्द्रजिद्धनुमतोर्युद्धमिन्द्रजिद्दिव्यास्त्रबन्धनबद्धस्य हनुमतो रावणस्य राजसभायां गमनम् पाठम्
४९ रावणस्य प्रभावशालिरूपमवलोक्य हनुमतो मनसि नैकविधानां विचाराणामुद्रेकः पाठम्
५० रावणकर्तृकः प्रहस्तद्वारको हनुमन्तं प्रति लङ्घाया- मागमनप्रयोजनस्य प्रश्नः, हनुमता रामदूतत्वे- नात्मनः परिचयदानम् पाठम्
५१ श्रीरामप्रभावं वर्णयता हनुमता रावणस्य प्रबोधनम् पाठम्
५२ दूतवधानौचित्यं प्रतिपाद्य विभीषणेन तस्य कृते दण्डान्तरविधानाय रावणं प्रति प्रार्थनं रावणेन तदनुरोधस्य स्वीकरणं च पाठम्
५३ हनुमत्पुच्छं प्रदीप्य राक्षसैस्तस्य नगरे परिचारणम् पाठम्
५४ लङ्काया दहनं रक्षसां विलापश्च पाठम्
५५ सीताविनाशाशङ्कया हनुमतश्चिन्ता तस्या निवारणं च पाठम्
५६ पुनः सीतां समालोक्य हनुमतो लङ्कातो निवर्तनं तेन समुद्रस्य लङ्घनं च पाठम्
५७ समुद्रमुल्लङ्घय हनुमतो जाम्बवदङ्गदप्रभृतिभिः सुहृद्भिः सह समागमः पाठम्
५८ जाम्बवता पृष्टेन हनुमता स्वकीयलङ्कायात्रा- सम्बन्धिसम्पूर्णवृत्तस्य श्रावणम् पाठम्
५९ सीतादुरवस्थां वर्णयित्वा हनुमता लङ्कामाक्रमितुं वानराणामुत्तेजनम् पाठम्
६० लङ्कां जित्वा सीताया आनयनार्थमङ्गदस्योत्साह- समन्वितो विचारो जाम्बवता तस्य निवारणं च .पाठम्
६१ मधुवनं गत्वा तत्रत्यानां मधूनां फलानां च वानरै-थेष्टमुपभोगो वनरक्षकस्य भुवि विकर्षणं च पाठम्
६२ वानरैर्मधुवनरक्षकाणां दधिमुखस्य च पराभवः सभृत्यस्य दधिमुखस्य सुग्रीवपार्श्वे गमनं च पाठम्
६३ दधिमुखान्मधुवनविध्वंसवार्तामाकर्ण्य सुग्रीवस्य हनुमदादीनां साफल्यविषयेऽनुमानम् पाठम्
६४ दधिमुखतः सुग्रीवसंदेशमाकर्ण्याङ्गदहनुमदादीनां वानराणां किष्किन्धायां गमनं हनुमता श्रीरामं प्रणम्य सीतादर्शनसमाचारस्य निवेदनं च पाठम्
६५ हनुमता श्रीरामं प्रति सीतावृत्तान्तस्य निवेदनम् पाठम्
६६ चूडामणिं दृष्ट्वा सीतावृत्तमुपलभ्य च श्रीरामस्य सीताकृते विलापः पाठम्
६७ हनुमता श्रीरामं प्रति सीतासंदेशस्य श्रावणम् पाठम्
६८ सीतायाः संदेहस्य स्वकर्तृकतन्निवारणस्य च वृत्तान्तस्य हनुमता वर्णनम् पाठम्

सुन्दरकाण्डं सम्पूर्णम्


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध