home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

द्वितीयः सर्गः ॥५-२॥

॥निशागमप्रतीक्षा॥

[ लङ्कापुर्या वर्णनं तत्र प्रवेशविषये हनुमतो विचारो लघुरूपधरस्य तस्य पुर्यां प्रवेशस्तदानीं चन्द्रोदय- शोभाया वर्णनम् ]

स सागरमनाधृष्यमतिक्रम्य महाबलः। त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह॥ ०१॥ ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्। अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा॥ ०२॥ योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः। अनिःश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति॥ ०३॥ शतान्यहं योजनानां क्रमेयं सुबहुन्यपि। किं पुनः सागरस्यान्तं संख्यातं शतयोजनम्॥ ०४॥ स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः। जगाम वेगवाल्ँलङ्कां लङ्घयित्वा महोदधिम्॥ ०५॥ शाद्वलानि च नीलानि गन्धवन्ति वनानि च। गण्डवन्ति च मध्येन जगाम नगवन्ति च॥ ०६॥ शैलांश्च तरुभिश्छन्नान् वनराजीश्च पुष्पिताः। अभिचक्राम तेजस्वी हनूमान् प्लवगर्षभः॥ ०७॥ स तस्मिन्नचले तिष्ठन् वनान्युपवनानि च। स नगाग्रे स्थितां लङ्कां ददर्श पवनात्मजः॥ ०८॥ सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्। प्रियालान् मुचुलिन्दांश्च कुटजान् केतकानपि॥ ०९॥ प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा। असनान् कोविदारांश्च करवीरांश्च पुष्पितान्॥ १०॥ पुष्पभारनिबद्धांश्च तथा मुकुलितानपि। पादपान् विहगाकीर्णान् पवनाधूतमस्तकान्॥ ११॥ हंसकारण्डवाकीर्णा वापीः पद्मोत्मलायुताः। आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान्॥ १२॥ संततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः। उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः॥ १३॥ समासाद्य च लक्ष्मीवान् लङ्कां रावणपालिताम्। परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम्॥ १४॥ सीतापहरणार्थेन रावणेन सुरक्षिताम्। समन्ताद्विचरद्भिश्च राक्षसैः कामरूपिभिः॥ १५॥ काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्। गृहैश्च ग्रहसंकाशैः शारदाम्बुदसंनिभैः॥ १६॥ पाण्डराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम्। अट्टालकशताकीर्णां पताकाध्वजमालिनीम्॥ १७॥ तोरणैः काञ्चनैर्दीप्तां लतापङ्क्तिविचित्रितैः। ददर्श हनुमाल्ँलङ्कां दिवि देवपुरीमिव॥ १८॥ गिरिमूर्ध्नि स्थितां लङ्कां पाण्डरैर्भवनैः शुभैः। स ददर्श कपिः श्रीमान् पुरमाकाशगं यथा॥ १९॥ पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा। प्लवमानामिवाकाशे ददर्श हनुमान् पुरीम्॥ २०॥ वप्रप्राकारजघनां विपुलाम्बुवनाम्बराम्। शतघ्नीशूलकेशान्तामट्टालकवतंसकाम्॥ २१॥ मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा। द्वारमुत्तरमासाद्य चिन्तयामास वानरः॥ २२॥ कैलासनिलयप्रख्यमालिखन्तमिवाम्बरम्। डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः॥ २३॥ संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव। अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा॥ २४॥ दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः। रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव॥ २५॥ तस्याश्च महतीं गुप्तिं सागरं च समीक्ष्य सः। रावणं च रिपुं घोरं चिन्तयामास वानरः॥ २६॥ आगत्यापीह हरयो भविष्यन्ति निरर्थकाः। न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि॥ २७॥ इमां तु विषमां दुर्गां लङ्कां रावणपालिताम्। प्राप्यापि स महाबाहुः किं करिष्यति राघवः॥ २८॥ अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते। न दानस्य न भेदस्य नैव युद्धस्य दृश्यते॥ २९॥ चतुर्णामेव हि गतिर्वानराणां महात्मनाम्। वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः॥ ३०॥ यावज्जानामि वैदेहीं यदि जीवति वा न वा। तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्॥ ३१॥ ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः॥ ३२॥ अनेन रूपेण मया न शक्या रक्षसां पुरी। प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः॥ ३३॥ उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः। वञ्चनीया मया सर्वे जानकीं परिमार्गता॥ ३४॥ लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया। प्रवेष्टुं प्राप्तकालो मे कृत्यं साधयितुं महत्॥ ३५॥ तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः। हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः॥ ३६॥ केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्। अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना॥ ३७॥ न विनश्येत् कथं कार्यं रामस्य विदितात्मनः। एकामेकश्च पश्येयं रहिते जनकात्मजाम्॥ ३८॥ भूताश्चार्था विपद्यन्ते देशकालविरोधिताः। विक्लबं दूतमासाद्य तमः सूर्योदये यथा॥ ३९॥ अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते। घातयन्ति हि कार्याणि दूताः पण्डितमानिनः॥ ४०॥ न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत्। लङ्घनं च समुद्रस्य कथं नु न भवेद्वृथा॥ ४१॥ मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः। भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः॥ ४२॥ न हि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः। अपि राक्षसरूपेण किमुतान्येन केनचित्॥ ४३॥ वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम। न ह्यस्त्यविदितं किंञ्चिद्राक्षसानां बलीयसाम्॥ ४४॥ इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः। विनाशमुपयास्यामि भर्तुरर्थश्च हीयते॥ ४५॥ तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः। लङ्कामभिगमिष्यामि राघवस्यार्थसिद्धये॥ ४६॥ रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्। विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्॥ ४७॥ इति संचिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः। आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः॥ ४८॥ सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः। पृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः॥ ४९॥ प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान्। प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम्॥ ५०॥ प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः। शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम्॥ ५१॥ सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम्। तलैः स्फाटिकसंकीर्णैः कार्तस्वरविभूषितैः॥ ५२॥ वैदूर्यमणिचित्रैश्च मुक्ताजालविराजितैः। तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम्॥ ५३॥ काञ्चनानि विचित्राणि तोरणानि च रक्षसाम्। लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम्॥ ५४॥ अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः। आसीद्विषण्णे हृष्टश्च वैदेह्या दर्शनोत्सुकः॥ ५५॥ स पाण्डरोद्विद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम्। यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः समावृताम्॥ ५६॥ चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन्। ज्योत्स्नावितानेन वितत्य लोकमुत्तिष्ठते नैकसहस्ररश्मिः॥ ५७॥ शङ्खप्रभं क्षीरमृणालवर्ण- मुद्गच्छमानं व्यवभासमानम्। ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसम्॥ ५८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे निशागमप्रतीक्षा नाम द्वितीयः सर्गः ॥ ५-२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध