home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

॥ सर्गे विषय सार सारिणी॥


सर्गे विषय सारम् पठसि
पम्पाया दर्शनेन श्रीरामस्य व्याकुलत्वं श्रीरामेण लक्ष्मणं प्रति पम्पाशोभायास्तत्रत्योद्दीपनसामग्र्याश्च वर्णनं लक्ष्मणेन श्रीरामस्य प्रबोधनमृष्यमूकं गच्छन्तौ तौ द्वौ भ्रातरौ वीक्ष्य सुग्रीवस्यान्येषां च वानराणां भयम् पाठम्
सुग्रीवस्य वानराणां चाशङ्का हनुमता तस्या निवारणं सुग्रीवेण श्रीरामलक्ष्मणयोर्भावं समीक्षितुं हनुमतस्तत्सविधे प्रेषणम् पाठम्
हनुमता श्रीरामलक्ष्मणयोर्वने आगमनस्य किं कारणमिति जिज्ञासाकरणमात्मनः सुग्रीवस्य च परिचयदानं श्रीरामेण तद्वचनानां प्रशंसनं कृत्वा लक्ष्मणस्य स्वपक्षतो वार्ताकरणे नियोजनं लक्ष्मणेन स्वयेऽभ्यर्थने स्वीकृते हनुमतो हर्षश्च पाठम्
लक्ष्मणेन श्रीरामवनागमनस्य सीताहरणस्य च वृत्तान्तस्य वर्णनं तत्र सीतान्वेषणे सुग्रीवः सहयोगं करोत्वितीच्छायाः प्रकटनं हनुमता तयोराश्वासन-पूर्वकमात्मना सह नयनम् पाठम्
श्रीरामसुग्रीवयोमैत्री श्रीरामेण वालिवधाय प्रतिज्ञाकरणं च पाठम्
सुग्रीवेण श्रीरामसमक्षे सीताभूषणानां समानयनं श्रीरामस्य शोकरोषमयं वचनं च पाठम्
सुग्रीवेण श्रीरामस्य समाश्वासनं श्रीरामेण सुग्रीवस्य कार्यसिद्ध्यै विश्वासदापनम् पाठम्
सुग्रीवेण श्रीरामं प्रति निजदुःखनिवेदनं श्रीरामेण तमाश्वास्य तयोरुभयोर्भ्रात्रोर्वैरस्य किं कारणमिति प्रश्नकरणम् पाठम्
सुग्रीवेण श्रीरामं प्रति वालिना सह स्वकीयवैर- सम्बन्धिकारणस्य कथनम् पाठम्
१० भ्रात्रा सह वैरकारणस्य कथनप्रसंगे सुग्रीवेण स्वकर्तृके वालिनः प्रसादने वालिकर्तृके च स्वस्य निष्कासने घटितस्य वृत्तान्तस्य वर्णनम् पाठम्
११ सुग्रीवेण वालिनः पराक्रमस्य वर्णनं वालिना दुन्दुभिं हत्वा तस्य शवस्य मतङ्गवने क्षेपणं मतङ्गमुनिना वालिने शापदानं श्रीरामेण दुन्दुभेरस्थि- समूहस्य दूरे क्षेपणं सुग्रीवेण तं प्रति सालभेदनार्थ- माग्रहकरणम् पाठम्
१२ श्रीरामेण सप्तसालवृक्षाणां भेदनं श्रीरामस्याज्ञया सुग्रीवेण किष्किन्धायामागत्य वालिनो युद्धायाह्वानं युद्धे ततः पराजितस्य तस्य मतङ्गवने पलायनं तत्र श्रीरामेण तस्य समाश्वासनं तदभिज्ञानार्थं गले गजपुष्पीलतां निक्षिप्य तस्य पुनः प्रेषणं च पाठम्
१३ श्रीरामादीनां मार्गे वृक्षान् विविधजन्तुञ्जलाशयांश्च सप्तजनाश्रमं च दूरतः पश्यतां पुनः किष्किन्धायां प्रवेशः पाठम्
१४ वालिनो वधाय श्रीरामस्याश्वासनं प्राप्य सुग्रीवस्य घोरं गर्जनम् पाठम्
१५ सुग्रीवस्य सिंहनादमाकर्ण्य वालिनो युद्धाय निर्गमनं तारया तमवरुद्ध्य सुग्रीवेण श्रीरामेण च सह मैत्रीं कर्तुं तस्य प्रबोधनं च पाठम्
१६ वालिना तारां निर्भत्र्त्स्य निवर्तनं सुग्रीवेण सह योधनं च श्रीरामेण बाणेन विद्धस्य तस्य पृथ्व्यां पतनं च पाठम्
१७ वालिना श्रीरामस्य भर्त्सनम् पाठम्
१८ वालिनो वचनस्योत्तरं ददता श्रीरामेण तस्मै दत्तस्य दण्डस्य यथौचित्यं सिद्धयेत्तथा प्रतिपादनं स्वापराधक्षमामभ्यर्थयता निरुत्तरेण वालिनाङ्गद- रक्षार्थं प्रार्थनाकरणं श्रीरामेण तस्मै सान्त्वना- प्रदानं च पाठम्
१९ पलायमानैर्वानरैः सह वार्तालापं कृत्वा साङ्गदाया- स्ताराया वालिनः समीप आगमनं तस्य दुरवस्था - मालोक्य तस्या रोदनं च पाठम्
२० ताराया विलापः पाठम्
२१ हनुमता तारायाः प्रबोधनं ताराकर्तृकः पत्यनुगमन- निश्चयश्च पाठम्
२२ वालिना सुग्रीवाङ्गदौ प्रति मनसो वार्ता निवेद्य स्वप्राणानां परित्यागः पाठम्
२३ ताराया विलापः पाठम्
२४ शोकमग्नेन सुग्रीवेण श्रीरामं प्रति स्वप्राणानां परि- त्यागायानुमतेः प्रार्थनं तारया श्रीरामं प्रति स्ववधाय प्रार्थनाकरणं श्रीरामेण तस्याः प्रबोधनं च पाठम्
२५ सलक्ष्मणेन श्रीरामेण सुग्रीवस्य ताराया अङ्गदस्य च प्रबोधनं वालिनो दाहसंस्कारार्थं प्रेरणं च तदनु ताराप्रभृतिभिः सह सर्वैर्वानरैर्वालिनः शवस्य श्मशान भूमौ नयनमङ्गदेन तस्य दाहसंस्कारस्य सम्पादनं तदर्थं जलाञ्जलीनां दानं च पाठम्
२६ हनुमता सुग्रीवस्याभिषेकाय श्रीरामं प्रति किष्किन्धां गन्तुं प्रार्थनं श्रीरामेण तत्र गमनं विनैवानुमति- प्रदानं तदनु सुग्रीवाङ्गदयोरभिषेकः पाठम्
२७ प्रस्रवणगिरौ श्रीरामलक्ष्मणयोर्मिथः संलापः पाठम्
२८ श्रीरामेण वर्षर्तोर्वर्णनम् पाठम्
२९ हनुमता बोधितेन सुग्रीवेण नीलं प्रति वानर- सैनिकानामेकत्रकरणायादेशदानम् पाठम्
३० शरद्वर्णनं श्रीरामेण लक्ष्मणाय सुग्रीवपार्श्वं गन्तु- मादेशदानम् पाठम्
३१ सुग्रीवं प्रति लक्ष्मणस्य कोप:, श्रीरामेण तस्य सान्त्वनं किष्किन्धाद्वारमुपेत्य लक्ष्मणेन सुग्रीव- पार्श्वेऽङ्गदस्य प्रेषणं वानराणां भयं प्लक्षप्रभावाभ्यां सुग्रीवाय कर्तव्यस्योपदेशश्च पाठम्
३२ हनुमता चिन्ताकुलस्य सुग्रीवस्य प्रबोधनम् पाठम्
३३ किष्किन्धासुषमां पश्यतो लक्ष्मणस्य सुग्रीवसदने प्रवेशः प्रविश्य च तेन सरोषं धनुषो विष्फारणं भीतेन सुग्रीवेण तस्य रोषशमनाय तारायाः प्रेषणं तारया प्रबोध्य तस्यान्तःपुर आनयनम् पाठम्
३४ सुग्रीवस्य लक्ष्मणसमीपे गमनं लक्ष्मणेन तस्य भर्त्सनं च पाठम्
३५ तारया युक्तियुक्तया वाचा लक्ष्मणस्य प्रशमनम् पाठम्
३६ स्वीयं लघुत्वं श्रीरामस्य महत्त्वं च प्रतिपादयता सुग्रीवेण लक्ष्मणं प्रति क्षमायाः प्रार्थनं लक्ष्मणेन तस्य प्रशंसापूर्वकं तं प्रत्यात्मना सह चलितुमादेश- करणम् पाठम्
३७ सुग्रीवेण वानरसेनासंग्रहाय पुनर्दूतान् प्रेषयितुं हनुमत आज्ञपनं तेभ्यो राजाज्ञामाकर्ण्य समेषां वानराणां किष्किन्धां प्रति प्रस्थानं निवृत्तैर्दूतैः सुग्रीवायोपायनानि समर्प्य वानरागमनवृत्तान्तस्य निवेदनम् पाठम्
३८ सलक्ष्मणेन सुग्रीवेण श्रीरामपार्श्वमागम्य तत्पादयोः प्रणमनं श्रीरामेण तस्याश्वासनं सुग्रीवेण स्वकृत- सैन्यसंग्रहोद्योगस्य कथनं तदाकर्ण्य श्रीरामस्य संतोषश्च पाठम्
३९ श्रीरामेण सुग्रीवं प्रति कृतज्ञतायाः प्रकाशनं विभिन्नवानरयूथपतीनां सैन्यैः सहागमनम् पाठम्
४० श्रीरामस्याज्ञया सुग्रीवेण सीतान्वेषणाय पूर्वदिशायां वानराणां प्रेषणं तत्रत्यानां स्थानानां वर्णनं च पाठम्
४१ दक्षिणदिग्वर्तिस्थानानि वर्णयता सुग्रीवेण तत्र प्रमुखवानरवीराणां प्रेषणम् पाठम्
४२ पश्चिमदिग्वर्तिस्थानानि वर्णयता सुग्रीवेण सुषेण- प्रभृतिवानराणां तत्र प्रेषणम् पाठम्
४३ उत्तरदिग्वर्तीनि स्थानानि परिचाययता सुग्रीवेण शतबलिप्रभृतीनां तत्र प्रेषणम् पाठम्
४४ श्रीरामेण हनुमते मुद्रिकां प्रदाय तस्य दक्षिणदिशि प्रेषणम् पाठम्
४५ विभिन्ना दिशः प्रति गच्छतां वानराणां सुग्रीव - समक्षे स्वीयसोत्साहवचसां श्रावणम् पाठम्
४६ सुग्रीवेण श्रीरामं प्रति स्वकीयभूमण्डलभ्रमण- वृत्तान्तस्य प्रतिपादनम् पाठम्
४७ पूर्वादिषु तिसृषु दिक्षु प्रविष्टानां वानराणां सनैराश्यं निवर्तनम् पाठम्
४८ दक्षिणदिग्गतैर्वानरैः सीतानुसन्धानस्य प्रारम्भणम् पाठम्
४९ अङ्गदगन्धमादनाभ्यामाश्वासितानां वानराणां पुनः सोत्साहमन्वेषणे प्रवृत्ति: पाठम्
५० क्षुत्तृडभिभूतानां वानराणामेकस्यां गुहायां प्रवेशस्तत्र तैर्दिव्यवृक्षसरोवरभवनानामेकस्या वृद्धाया-स्तपस्विन्याश्चावलोकनं हनुमता तां प्रति तस्याः परिचयस्य जिज्ञासनम् पाठम्
५१ हनुमता पृष्टया तापस्या स्वात्मनस्तस्य दिव्यस्थानस्य च परिचयं दत्त्वा वानराणां भोजनाय निमन्त्रणम् पाठम्
५२ स्वयंप्रभया पृष्टैर्वानरैस्तां प्रति स्ववृत्तान्तस्य वर्णनं तस्याः प्रभावेण च गुहातो बहिर्निष्क्रम्य तेषां सागरतटे गमनम् पाठम्
५३ निवर्तनाय नियतमवधिमतीत्यापि कार्यस्यासाधनात् सुग्रीवस्योग्रदण्डतो विभ्यतामङ्गदप्रभृतीनां कपीना-' मुपोष्य प्राणान् परित्यक्तुं निश्चयः पाठम्
५४ भेदनीत्या वानरान् स्वपक्षे समानीय हनुमताङ्गद-स्यात्मना सह चलितुं प्रबोधनम् पाठम्
५५ अङ्गदसहितानां वानराणां प्रायोपवेशनम् पाठम्
५६ सम्पातेर्वानराणां भयं तेषां मुखाज्जटायुषो वधं निशम्य सम्पातेर्दुःखं स्वमधोऽवरोपयितुं तस्य वानरान् प्रत्यनुनयः पाठम्
५७ सम्पातिं पर्वतशिखरादवतार्याङ्गदेन तं प्रति जटायुर्वधवृत्तान्तस्य निवेदनं रामसुग्रीवयोमैत्रीं वालिनो वधं च निशाम्य स्वप्रायोपवेशनस्य यत्कारणं तस्य वर्णनम् पाठम्
५८ सम्पातिना स्वकीयपक्षदाहवृत्तस्य वर्णनं सीताया रावणस्य च निवासस्थानस्य कथनं वानराणां साहाय्येन समुद्रतटं गत्वा तेन भ्रात्रे जलाञ्जलि- दानम् पाठम्
५९ सम्पातिना स्वपुत्रस्य सुपार्श्वस्य मुखतः श्रुतायाः सीतारावणदर्शनसम्बन्धिघटनाया वर्णनम् पाठम्
६० सम्पातेरात्मकथा पाठम्
६१ सम्पातिना निशाकरमुनिं प्रति स्वपुङ्खदाहकारणस्य वर्णनम् पाठम्
६२ सम्पातिं सान्त्वयता निशाकरेण भावि श्रीरामकार्ये साहाय्यकरणाय जीवनं धारयितुं तं प्रत्यादेशदानम् पाठम्
६३ सम्पातेर्नवपुङ्खोद्गमस्तस्य वानराणां प्रोत्साहन कृत्वा तत उड्डयनं वानराणां ततो दक्षिणस्यां प्रस्थानं च पाठम्
६४ समुद्रस्य विशालतामालोक्य विषीदतो वानरान् सान्त्वयित्वाङ्गदस्य तान् प्रति पृथक् पृथक् समुद्रलङ्घनशक्तिविषयकः प्रश्नः पाठम्
६५ पर्यायेण वानरैः स्वस्वदूरगमनशक्तिपरिमाणस्य प्रतिपादनं जाम्बवदङ्गदयोः संलापो जाम्बवतो हनुमन्तं प्रेरयतुं तत्पार्श्वे गमनम् पाठम्
६६ हनुमदुत्पत्तिकथां श्रावयित्वा जाम्बवता समुद्र- लङ्घनाय तस्य प्रोत्साहनम् पाठम्
६७ हनुमता समुद्रं लङ्घयितुमुत्साहस्य प्रकाशनं जाम्बवता तस्य प्रशंसनं वेगेनोत्प्लवनाय हनुमतो महेन्द्रपर्वत आरोहणम् पाठम्

किष्किन्धाकाण्डं सम्पूर्णम्


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध