एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना। हनूमन्तं स्थितं पार्श्वे वचनं चेदमब्रवीत्॥ १॥ महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च। मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः॥ २॥ तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः। पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि॥ ३॥ आदित्यभवने चैव गिरौ सन्ध्याभ्रसंनिभे। पद्माचलवनं भीमाः संश्रिता हरिपुंगवाः॥ ४॥ अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसः। अञ्जने पर्वते चैव ये वसन्ति प्लवंगमाः॥ ५॥ महाशैलगुहावासा वानराः कनकप्रभाः। मेरुपार्श्वगताश्चैव ये धूम्रगिरिसंश्रिताः॥ ६॥ तरुणादित्यवर्णाश्च पर्वते ये महारुणे। पिबन्तो मधु मैरेयं भीमवेगाः प्लवंगमाः॥ ७॥ वनेषु च सुरम्येषु सुगन्धिषु महत्सु च। तापसानां च रम्येषु वनान्तेषु समन्ततः॥ ८॥ तांस्तान् समानय क्षिप्रं पृथिव्यां सर्ववानरान्। सामदानादिभिः सर्वैराशु प्रेषय वानरान्॥ ९॥ प्रेषिताः प्रथमं ये च मया द्य़्ता महाजवाः। त्वरणार्थं तु भूयस्त्वं हरीन् सम्प्रेषयापरन्॥ १०॥ ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः। इहानयस्व तान् शीघ्रं सर्वाञ्शीघ्रं तु मम शाशनात्॥ ११॥ अहोभिर्दशभिर्ये हि नागच्छन्ति ममाज्ञया। हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः॥ १२॥ शतान्यथ सहस्राणां कोट्यश्च मम शासनात्। प्रयान्तु कपिसिंहानां देशो मम मते स्थिताः॥ १३॥ मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम्। घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः॥ १४॥ ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः। आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम॥ १५॥ तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः। दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान्॥ १६॥ ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः। प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै॥ १७॥ ते समुद्रेषु गिरिषु वनेषु च सरःसु च। वानरा वानरान् सर्वान् रामहेतोरचोदयन्॥ १८॥ मृत्युकालोपमस्याज्ञां कपिराजस्य वानराः। सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः॥ १९॥ ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाः। तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः॥ २०॥ अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे स्थिताः। तप्तहेममहाभासस्तस्मात् कोट्यो दश च्युताः॥ २१॥ कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम्। ततः कोटिसहस्राणि वानराणामुपागमन्॥ २२॥ फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः। तेषां कोटिसहस्राणां सहस्रं समवर्तत॥ २३॥ अङ्गारकसमानानां भीमानां भीमकर्मणाम्। विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम्॥ २४॥ क्षीरोदवेलानिलयास्तमालवनवासिनः। नारिकेलाशनाश्चैव तेषां संख्या न विद्यते॥ २५॥ वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महौजसः। आगच्छद् वानरी सेना पिबन्तीव दिवाकरम्॥ २६॥ ये तु त्वरयितुं याता वानराः सर्ववानरान्। ते वीरा हिमवच्छैले ददृशुस्तं महाद्रुमम्॥ २७॥ तस्मिन् गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा। सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः॥ २८॥ अन्ननिष्यन्दजातानि मूलानि च फलानि च। अमृतास्वादकल्पानि ददृशुस्तत्र वानराः॥ २९॥ तदन्नसम्भवं दिव्यं फलं मूलं मनोहरम्। यः कश्चित् सकृदश्नाति मासं भवति तर्पितः॥ ३०॥ तानि मूलानि दिव्यानि फलानि च फलाशनाः। औषधानि च दिव्यानि जगृहुर्हरियूथपाः॥ ३१॥ तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च। आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात्॥ ३२॥ ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान्। संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः॥ ३३॥ ते तु तेन मुहूर्तेन यूथपाः शीघ्रगामिनः। किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः॥ ३४॥ ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः। तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन्॥ ३५॥ सर्वे परिसृताः शैलाः समुद्राश्च वनानि च। पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते॥ ३६॥ एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः। प्रतिजग्राह तत् प्रीतस्तेषां सर्वमुपायनम्॥ ३७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे कपिसेनासमानयनं नाम सप्तत्रिंशः सर्गः ॥४-३७॥