home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

॥ सर्गे विषय सार सारिणी॥


सर्गे विषय सारम् पठसि
हनुमन्तं प्रशस्य श्रीरामकर्तृकस्तस्य परिष्वङ्गः समुद्रतरणार्थं तस्य चिन्ताकरणं च पाठम्
सुग्रीवेण श्रीरामस्य प्रोत्साहनम् पाठम्
लङ्काया दुर्गद्वारसैन्यविभागसंक्रमप्रभृतीन् वर्णयित्वा तत्र वानरसेनाप्रस्थापनाय हनुमतः श्रीरामं प्रति प्रार्थना पाठम्
श्रीरामप्रभृतिभिः सह वानरसैन्य सागरतटे निवेशश्च पाठम्
सीतायाः कृते श्रीरामस्य शोको विलापश्च पाठम्
कर्तव्यनिर्णयाय मन्त्रिणः प्रति समुचितसम्मति- दानार्थं रावणस्यानुरोधः पाठम्
रावणेन्द्रजित्पराक्रमं वर्णयित्वा राक्षसैर्भवान् रामं विजेष्यतीति रावणाय विश्वासदापानम् पाठम्
प्रहस्तदुर्मुखवज्रद्रंष्ट्रनिकुम्भवज्रहनुभी रावणस्य समक्षं शत्रुसेनां निपातयितुं स्वोत्साहस्य प्रदर्शनम् पाठम्
श्रीरामस्याजेयतां प्रतिपाद्य दीयतामस्य मैथिलीति विभीषणस्य रावणं प्रत्यनुनयः पाठम्
१० रावणभवनं गत्वापशकुनभयं प्रदर्श्य सीता- निवर्तनाय रावणं प्रति विभीषणस्य प्रार्थना, तामनङ्गीकृत्य रावणेन तस्य ततो विसर्जनम् पाठम्
११ रावणस्य तत्सभासदां च संसदि समवाय पाठम्
१२ पुर्याः परिरक्षणाय सैनिकानां नियुक्तिः सीतायां स्वीयामासक्तिं प्रतिपाद्य रावणेन तस्या हरण- प्रसंगस्य वर्णनं भाविकर्तव्यनिर्णयाय सभा- सत्सम्मतेः प्रार्थनं कुम्भकर्णेन रावणं निर्भय समस्तशत्रुवधभारस्य स्वयमेवोत्थापनम् पाठम्
१३ महापार्श्वेन सीतां प्रति बलात्कारं कर्तुं रावणस्य प्रोत्साहनं रावणेन शापवशात् तथाकरणे स्वकीयासमर्थतायाः प्रतिपादनं निजपराक्रमस्य प्रशंसनं च पाठम्
१४ श्रीरामस्याजेयतां प्रतिपाद्य विभीषणेन रावणं प्रति सीताया रामपार्श्वे प्रेषणायैव सम्मतिदानम् पाठम्
१५ इन्द्रजिता विभीषणस्योपहसनं तं निर्भर्त्य विभीषणेन संसदि स्वकीयसमुचितसम्मतेः प्रकाशनम् पाठम्
१६ रावणेन विभीषणस्य तिरस्करणं विभीषणेनापि रावणं निर्भत्र्त्स्य तत्स्थानान्निर्गमनम् पाठम्
१७ विभीषणस्य श्रीरामस्याश्रये गमनं श्रीरामेण मन्त्रिभिः सह तदर्थमाश्रयदाने विचारणं च पाठम्
१८ शरणागतरक्षणस्य महत्त्वं स्वकीयं व्रतं च प्रति- पाद्य श्रीरामस्य विभीषणेन सह समागमः पाठम्
१९ नभसोऽवतीर्णेन विभीषणेन श्रीरामचरणयोः शरणीकरणं श्रीरामपृष्टेन तेन रावणशक्तेः परिचयदानं रावणवधं प्रतिज्ञाय विभीषणं लङ्काराज्ये चाभिषिच्य तत्सम्मत्यैव तस्य समुद्रतटे उपवेशनम् पाठम्
२० शार्दूलप्रेरणया रावणेन शुकं दूतीकृत्य तद्द्वारा सुग्रीवसविधे संदेशस्य प्रेषणम्, तत्र वानरकृता तदीया दुरवस्था, श्रीरामस्यानुग्रहेण तस्य क्लेशतो मोक्षणं सुग्रीवेण च रावणं प्रत्युत्तरदानम् पाठम्
२१ श्रीरामस्य समुद्रतटे कुशानास्तीर्य दिनत्रयं यावदुपवेशनं ततोऽपि स्वात्मानमदर्शयतः समुद्र- स्योपरि कुपितेन श्रीरामेण बाणप्रहारेण तस्य विक्षोभणम् पाठम्
२२ समुद्रस्य सम्मत्या नलेन सागरोपरि शतयोजन- विस्तृतसेतोर्निर्माणं तेन श्रीरामप्रभृतिभिः सह वानरसेनायाः परे पारे गमनं तत्र निवेशनं च पाठम्
२३ श्रीरामेण लक्ष्मणं प्रति विनाशसूचकानां लक्षणानां वर्णनं लङ्कां प्रत्याक्रमणं च पाठम्
२४ श्रीरामेण लक्ष्मणं प्रति लङ्काशोभां वर्णयित्वा सेनां व्यूह्य स्थापयितुमादेशः, श्रीरामाज्ञया मुक्तेन शुकेन रावणमुपगम्य तदग्रे श्रीरामसैन्य- शक्तेः प्राबल्यस्य वर्णनं रावणेन स्वबलस्य विकत्थनं च पाठम्
२५ रावणेन निगूढतया शुकसारणयोर्वानरसेनायां प्रेषणं, विभीषणेन तयोर्निग्रहणं श्रीरामकृपया मोक्षणं तदीयं संदेशमादाय ताभ्यां लङ्कां गत्वा रावणस्य प्रबोधनं च पाठम्
२६ सारणेन रावणं प्रति पृथक् पृथक् वानरयूथपतीनां परिचयदानम् पाठम्
२७ वानरसैन्यस्य प्रधानयूथपतीनां परिचयः पाठम्
२८ शुकेन सुग्रीवसचिवानां मैन्दद्विविदयोर्हनुमतः श्रीरामस्य लक्ष्मणस्य विभीषणस्य सुग्रीवस्य च परिचयं दत्त्वा वानरसैन्यसंख्याया निरूपणं च पाठम्
२९ शुकसारणौ निर्भर्त्स्य रावणेन तयोः सभातो निष्कासनं तत्प्रहितानां गुप्तचराणां श्रीरामानुग्रहेण वानरतो मोक्षणं लङ्कायां निवर्तनं च पाठम्
३० रावणप्रहितानां गुप्तचराणां शार्दूलस्य च तं प्रति वानरसेनायाः समाचारस्य बोधनं तत्रत्यप्रमुख- वीराणां परिचयदानं च पाठम्
३१ श्रीरामस्य मायामयं छिन्नं मस्तकं संदर्श्य रावणेन सीताया मोहनम् पाठम्
३२ श्रीरामनिधनं मत्वा सीताया विलापः रावणेन सभां गत्वा मन्त्रिभिः सह युद्धविषये मन्त्रणम् पाठम्
३३ सरमया सीतायाः सान्त्वनं रावणमायाया रहस्योद्घाटनं श्रीरामागमनसम्बन्धिप्रियसंवादस्य निवेदनं तदीयविजयस्य समर्थनं च पाठम्
३४ सीताया अनुनयेन सरमया तां प्रति मन्त्रिसहित- रावणसम्बन्धिनिश्चितविचारस्य कथनम् पाठम्
३५ माल्यवता रावणस्य श्रीरामेण सह संधिकरणाय प्रबोधनम् पाठम्
३६ माल्यवन्तं निर्भर्त्स्य नगरगुप्तिं विधाय रावणस्य निजान्तःपुरे गमनम् पाठम्
३७ विभीषणेन श्रीरामं प्रति रावणेन विहिताया लङ्कारक्षाव्यवस्थाया वर्णनं श्रीरामेण लङ्काया द्वारेष्वाक्रमणाय वानरसेनापतीनां नियुक्तिः पाठम्
३८ प्रमुखवानरैः सह सुवेलपर्वतमधिरूढस्य श्रीरामस्य तत्रैव रात्रौ निवासः पाठम्
३९ वानरैः सह श्रीरामेण सुवेलशिखराल्लङ्काया निरीक्षणम् पाठम्
४० सुग्रीवरावणयोर्मल्लयुद्धम् पाठम्
४१ श्रीरामेण सुग्रीवस्य दुःसाहसाद् वारणम्, लङ्कायाश्चतुर्षु द्वारेषु वानरसैनिकानां नियुक्तिः, श्रीरामदूतस्याङ्गदस्य रावणभवने पराक्रमो वानराणामाक्रमणाद् रक्षसां भयम् पाठम्
४२ लङ्कां प्रति वानराणामाक्रमणं राक्षसैः सह संग्रामश्च पाठम्
४३ द्वन्द्वयुद्धे वानरै रक्षसां पराजयः पाठम्
४४ रात्रौ वानराणां रक्षसां च घोरं युद्धं अङ्गदे-नेन्द्रजित्पराजयो मायातोऽदृश्यमानेनेन्द्रजिता श्रीरामलक्ष्मणयोर्नागपाशैर्बन्धनम् पाठम्
४५ इन्द्रजिद्बाणैः श्रीरामलक्ष्मणयोर्विसंज्ञता वानराणां शोकश्च पाठम्
४६ श्रीरामलक्ष्मणौ विसंज्ञौ दृष्ट्वा वानराणां शोक इन्द्रजितो हर्षोदारो विभीषणेन सुग्रीवस्य प्रबोधनं इन्द्रजिता लङ्कां गत्वा पितरं प्रति शत्रु- वधवृत्तान्तस्य श्रावणं प्रसन्नेन रावणेन स्वपुत्रस्या- भिनन्दनम् पाठम्
४७ वानरैः श्रीरामलक्ष्मणयो रक्षणं रावणाज्ञया राक्षसीभिः पुष्पकेण सीताया रणभूमौ नयनं तत्र तया श्रीरामस्य सलक्ष्मणस्य दर्शनं सीताया विलापश्च पाठम्
४८ सीताया विलापस्त्रिजटया तस्या बोधनं श्रीराम- लक्ष्मणयोर्जीवितावस्थां प्रत्याय्य ततो लङ्कायां निवर्तनं च पाठम्
४९ संज्ञामुपेत्य श्रीरामस्य लक्ष्मणार्थं विलाप :- प्राणान् परित्यक्तुं निश्चित्य तेन वानरान् प्रति गृहे निवर्तनायादेशस्य प्रदानम् पाठम्
५० विभीषणमिन्द्रजितं मत्वा वानराणां पलायनम्, सुग्रीवस्याज्ञया जाम्बवता तेभ्यः सान्त्वना- प्रदानं, विभीषणस्य विलापः, सुग्रीवेण तस्य प्रबोधनं गरुडस्यागमनं श्रीरामलक्ष्मणौ नाग- पाशतो मोचयित्वा तस्य पुनर्गमनं च पाठम्
५१ श्रीरामस्य बन्धनतो मोक्षं श्रुत्वा चिन्तितेन रावणेन धूम्राक्षस्य युद्धाय प्रेषणं सेनापतिना सह तस्य नगरान्निर्गमनं च पाठम्
५२ धूम्राक्षस्य युद्धं तस्य हनुमता वधश्च पाठम्
५३ससैन्यस्य वज्रदंष्ट्रस्य युद्धाय प्रस्थानं वानराणां राक्षसैः सह युद्धं वज्रदंष्ट्रेन वानराणामङ्गदेन रक्षसां च संहारः पाठम्
५४वज्रदंष्ट्राङ्गदयोर्युद्धमङ्गदेन तस्य वधश्च पाठम्
५५रावणाज्ञयाकम्पनादीनां युद्ध आगमनं वानरैः सह तेषां घोरं युद्धं च पाठम्
५६ हनुमताकम्पनस्य वधः पाठम्
५७रावणाज्ञया प्रहस्तस्य विपुलसैन्येन सह युद्धाय प्रस्थानम् पाठम्
५८ नीलकर्तृकः प्रहस्तस्य वधः पाठम्
५९ प्रहस्तस्य वधेन दुःखितस्य रावणस्य युद्धाय प्रस्थानं तेन सहागतानां वीराणां परिचयो रावणस्य प्रहारेण सुग्रीवस्य मूर्च्छा, लक्ष्मणस्य रणभूमावागमनं हनुमद्रावणयोर्मिथस्तल प्रहारो रावणकर्तृकं नीलस्य विसंज्ञत्वम्, शक्तिप्रहारेण लक्ष्मणस्य मूर्च्छा ससंज्ञता च, श्रीरामात् पराजितस्य रावणस्य लङ्कायां प्रवेशः पाठम्
६० स्वपराजयेन विषण्णस्य रावणस्यादेशेन सुप्तस्य कुम्भकर्णस्य प्रबोधनं तं दृष्ट्वा वानराणां भयं च पाठम्
६१ विभीषणेन श्रीरामं प्रति कुम्भकर्णस्य परिचय- दानं श्रीरामस्याज्ञया युद्धार्थं वानराणां लङ्का- द्वारेषु समवस्थानम् पाठम्
६२कुम्भकर्णस्य रावणगृहे प्रवेशो रामाद् भयं सूचयित्वा रावणेन तस्य शत्रुसेनासंहरणाय प्रेषणम् पाठम्
६३ कुम्भकर्णस्य रावणं प्रति तत्कुकृत्यनिमित्तक उपालम्भस्तं सान्त्वयित्वा स्वकीययुद्धविषय-कोत्साहस्य तेन प्रकटनं च पाठम्
६४कुम्भकर्णं प्रत्याक्षिप्य महोदरेण युद्धं विनैवाभीष्ट-वस्तुनो लाभोपायस्य कथनम् पाठम्
६५कुम्भकर्णस्य रणयात्रा पाठम्
६६कुम्भकर्णभयात् पलायमानानां वानराणामङ्गदेन प्रोत्साहनमावाहनं च कुम्भकर्णेन कपीनां संहारः पुनर्वानरसैनिकानां पलायनमङ्गदेन प्रबोध्य तेषां पुनः प्रत्यावर्तनं च पाठम्
६७कुम्भकर्णकर्तृकं घोरं युद्धं श्रीरामेण तस्य वधश्च पाठम्
६८कुम्भकर्णवधं श्रुत्वा रावणस्य विलापः पाठम्
६९ रावणस्य पुत्राणां बन्धूनां च युद्धाय प्रस्थान- मङ्गदेन नरान्तकस्य वधश्च पाठम्
७० हनुमता देवान्तकत्रिशिरसोर्वधो नीलेन महोदरस्यर्षभेण महापार्श्वस्य च वधः पाठम्
७१अतिकायस्य घोरं युद्धं लक्ष्मणेन तस्य वधश्च पाठम्
७२ रावणस्य चिन्ता पुरीरक्षणायावधानार्थं राक्षसान् प्रत्यादेशश्च पाठम्
७३ इन्द्रजितो ब्रह्मास्त्रेण वानरसेनासहितयोः श्रीरामलक्ष्मणयोर्मूर्च्छा पाठम्
७४जाम्बवदादेशेन हनुमता हिमालयाद्दिव्यौषधीनां पर्वतस्यानयनं तासां गन्धेन श्रीरामलक्ष्मणयोः समेषां वानराणां च स्वास्थ्यलाभः पाठम्
७५लङ्काया दहनं रक्षसां वानराणां च घोरं युद्धम् पाठम्
७६अङ्गदेन कम्पनप्रजङ्घयोर्द्विविदेन शोणिताक्षस्य मैन्देन यूपाक्षस्य सुग्रीवेण कुम्भस्य वधश्च पाठम्
७७ हनुमता निकुम्भस्य वधः पाठम्
७८ रावणस्याज्ञया मकराक्षस्य युद्धाय प्रस्थानम् पाठम्
७९ श्रीरामेण मकराक्षस्य वधः पाठम्
८०रावणस्यादेशेनेन्द्रजितो घोरं युद्धं तस्य वध- विषये श्रीरामलक्ष्मणयो: संलापश्च पाठम्
८१ इन्द्रजिता मायामयसीताया वधः पाठम्
८२ हनुमन्नायकत्वे वानराणां रक्षसां च युद्धम्, हनुमतः श्रीरामपार्श्वे निवर्तनमिन्द्रजिता निकुम्भिलामुपेत्य यज्ञस्यानुष्ठानं च पाठम्
८३ सीतावधं श्रुत्वा शोकेन श्रीरामस्य मूर्च्छा तमा- श्वासयतो लक्ष्मणस्य पौरुषार्थमुद्यमश्च पाठम्
८४ विभीषणेन श्रीरामं प्रतीन्द्रजितो मायाया रहस्यं वर्णयित्वा सीता जीवतीति विश्वासस्य दृढीकरणं लक्ष्मणं च निकुम्भिलां गमयितुं प्रार्थनम् पाठम्
८५ विभीषणकर्तृकानुरोधेन श्रीरामेणेन्द्रजिद्वधाय लक्ष्मणस्य प्रेषणं लक्ष्मणस्य निकुम्भिलासमीपे गमनम् पाठम्
८६ वानररक्षसां युद्धं हनुमता रक्षः सैन्यस्य संहार इन्द्रजितो युद्धायाह्वानं च लक्ष्मणकर्तृकमिन्द्रजितो दर्शनम् पाठम्
८७इन्द्रजिद्विभीषणयो: सरोषः संवादः पाठम्
८८ लक्ष्मणेन्द्रजितो रुषा संवादो मिथो युद्धं च पाठम्
८९लक्ष्मण-इन्द्रजिथयोः मध्ये घोरं च कोलाहलपूर्णं युद्धं भवति बाण-वॉली-आदान-प्रदानेनपाठम्
९०विभीषणस्य रक्षःसु प्रहारस्तेन वानरयूथपानां प्रोत्साहनं लक्ष्मणेनेन्द्रजितः सारथेर्वधो वानरै- स्तदीयानामश्वानां विनिपातनम् पाठम्
९१इन्द्रजिल्लक्ष्मणयोर्घोरं युद्धमिन्द्रजितो वधश्च पाठम्
९२श्रीरामपार्श्वमागम्य लक्ष्मणविभीषणप्रभृतिभि- रिन्द्रजिद्वधवृत्तान्तस्य श्रावणं संतुष्टेन श्रीरामेण लक्ष्मणं परिष्वज्य तस्य प्रशंसनं सुषेणेन लक्ष्मणादीनां चिकित्सनं च पाठम्
९३ रावणस्य शोकः सुपार्श्वकर्तृकाश्वासनेन च तस्य सीतावधान्निवृत्तिः पाठम्
९४श्रीरामेण राक्षससेनायाः संहारः पाठम्
९५राक्षसीनां विलापः पाठम्
९६स्वामात्यानाहूय रावणेन स्वशत्रुवधविषयकोत्सा- हस्य प्रकटनं सर्वैः सह रणभूमिमागत्य पराक्रमस्य प्रदर्शनं च पाठम्
९७सुग्रीवेण राक्षससेनायाः संहारो विरूपाक्षस्य वधश्च पाठम्
९८सुग्रीवेण महोदरस्य वधः पाठम्
९९अङ्गदेन महापार्श्वस्य वधः पाठम्
१००श्रीरामरावणयोर्युद्धम्पाठम्
१०१श्रीरामरावणयोर्युद्धं रावणस्य शक्त्या लक्ष्मणस्य मूर्च्छा रावणस्य युद्धात् पलायनं च पाठम्
१०२श्रीरामस्य विलापो हनुमदाहृतयौषध्या सुषेण- प्रयुक्तया लक्ष्मणस्य संज्ञालाभ : पाठम्
१०३इन्द्रप्रहितं रथमारूढस्य रामस्य रावणेन सह युद्धम् पाठम्
१०४राम रावणयोः मध्ये रोमाञ्चकं अद्भुतं च युद्धम् अग्रे वदति पाठम्
१०५श्रीरामकर्तृकं रावणस्य भर्त्सनं रामेणाहतस्य रावणस्य तदीयसारथिना रणाद् बहिरपनयनम् पाठम्
१०४रावणेन सारथेर्भर्त्सनं सारथिना प्रतिवचसा रावणं संतोष्य तदीयरथस्य रणभूमौ प्रापणम् पाठम्
१०७अगस्त्येन रणे विजयलाभार्थमादित्यहृदय - स्तोत्रपाठाय श्रीरामं प्रति सम्मतिदानम् पाठम्
१०८रावणस्य रथं दृष्ट्वा श्रीरामेण मातलेः प्रबोधनं रावणपराजयस्य श्रीरामविजयस्य च सूचकानां शकुनानां वर्णनम् पाठम्
१०९श्रीरामरावणयोर्घोरं युद्धम् पाठम्
११०राम रावणयोः मध्ये सप्तदिनानि रात्रौ च कोलाहलपूर्णं युद्धं भवति, उभयत्र शक्तिशालिनः बाणगदाः, मुसलानां च उपयुज्यते पाठम्
१११श्रीरामेण रावणस्य वधः पाठम्
११२विभीषणस्य विलापः श्रीरामेण तस्य प्रबोधन- पूर्वकं रावणान्त्येष्टिसंस्कारार्थं तं प्रत्यादेशदानम् पाठम्
११३रावणस्य स्त्रीणां विलाप: पाठम्
११४मन्दोदर्या विलापो रावणशवस्य दाहश्च पाठम्
११५विभीषणस्य राज्याभिषेकः श्रीरामेण हनुमद्- द्वारा सीतां प्रति संदेशस्य प्रेषणम् पाठम्
११६सीतया सह संलप्य निवृत्तेन हनुमता श्रीरामं प्रति तस्याः संदेशस्य श्रावणम् पाठम्
११७श्रीरामस्याज्ञया विभीषणेन सीतायास्तत्समीप आनयनं सीताकर्तृकं प्रियतममुखचन्द्रस्य दर्शनं च पाठम्
११८सीतायाश्चरित्रं संदिह्य तामनङ्गीकृत्य श्रीरामेण तां प्रत्यन्यत्र कुत्रापि गन्तुमादेशदानम् पाठम्
११९श्रीरामाय सोपालम्भं प्रतिवचनं दत्त्वा स्वसतीत्व- परीक्षार्थं सीताया अग्नौ प्रवेशः पाठम्
१२०श्रीरामस्य पार्श्वे देवानामागमनं ब्रह्मणा तस्य भगवत्तायाः प्रतिपादनं स्तवनं च पाठम्
१२१चितां विधूय सीतामादाय मूर्तिमतोऽग्निदेवस्य प्रकटनं सीतां श्रीरामाय समर्प्य तस्याः पवित्रतायाः प्रमाणीकरणं श्रीरामेण सहर्षं सीतायाः स्वीकरणं च पाठम्
१२२श्रीमहादेवस्याज्ञया श्रीरामलक्ष्मणाभ्यां विमाने- नागतस्य राज्ञो दशरथस्याभिवादनं पुत्राभ्यां सीतायै चावश्यकं संदिश्य तस्येन्द्रलोके गमनं च पाठम्
१२३श्रीरामस्यानुनयेनेन्द्रेण मृतवानराणामुज्जीवनं देवानां प्रस्थानं वानरसेनाया विश्रामश्च पाठम्
१२४श्रीरामस्यायोध्यायां गन्तुमुद्यमनं तदाज्ञया विभीषणेन पुष्पकस्यानयनं च पाठम्
१२५श्रीरामस्याज्ञया विभीषणेन वानराणां भृशं सत्कारो विभीषणं वानरांश्च सहैवादाय श्रीरामस्य पुष्पकेणायोध्यां प्रति प्रस्थानं च पाठम्
१२६अयोध्यां गच्छन् श्रीरामो सीतां मार्गस्थानान्य- दर्शयत् पाठम्
१२७भरद्वाजाश्रमेऽवतीर्य श्रीरामेण महर्षेर्दर्शनं ततो वरग्रहणं च पाठम्
१२८हनुमता निषादराजं गुहं श्रीभरतं चोपगम्य श्रीरामागमनस्य सूचनं ततः प्रसन्नेन भरतेन तस्मा उपहारं दातुमुद्घोषणं च पाठम्
१२९हनुमता भरतं प्रति श्रीरामलक्ष्मणसीताकर्तृकवन- वाससम्बन्धिनां समेषां वृत्तानां श्रावणम् पाठम्
१३०अयोध्यायां श्रीरामस्य सत्कारार्थमायोजनम्, श्रीरामं प्रत्युद्गन्तुमनसां सर्वेषां जनानां भरतेन सह नन्दिग्रामे गमनम्, श्रीरामस्यागमनं भरतादिभिः सह तस्य समागमः पुष्पकविमानस्य तेन कुबेरपार्श्वे प्रेषणं च पाठम्
१३१भरतेन श्रीरामाय राज्यस्य पुन: प्रत्यर्पणं श्रीरामस्य नगरे गमनं राज्येऽभिषेकः वानराणां प्रस्थापनं ग्रन्थस्य माहात्म्यं च पाठम्

युद्धकाण्डं सम्पूर्णम्


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध