home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

॥ सर्गे विषय सार सारिणी॥


सर्गे विषय सारम् पठसि
०१ नारदेन वाल्मीकिं प्रति संक्षेपतः श्रीरामचरित्रस्य श्रावणम् पाठम्
०२ रामायणकाव्यस्योपक्रमः - तमसातटे क्रौञ्चवधात् संतप्तस्य वाल्मीकेः शोकस्य श्लोकरूपतया प्रकटनं, ब्रह्मणस्तं प्रति रामचरितमयकाव्यनिर्माणार्थमादेशः पाठम्
०३ रामायणकाव्यगतानां विषयाणां संक्षेपेणोल्लेख: पाठम्
०४ वाल्मीकिश्चतुर्विंशतिसहस्रश्लोकयुतं रामायणं काव्यं निर्माय कुशीलवौ तदध्यापयत्, तयो रामायणगानं श्रुत्वा मुनिभिः प्रशंसनमयोध्यायां श्रीरामेण सम्मानिताभ्यां ताभ्यां तदीयराजसभायां रामायण- गानश्रावणम् पाठम्
०५ दशरथपालिताया अयोध्याया उत्कर्षस्य वर्णनम् पाठम्
०६ राज्ञो दशरथस्य शासनकालेऽयोध्यायास्तत्रत्यजनानां चोत्कृष्टस्थितेर्वर्णनम् पाठम्
०७ राजामात्यानां गुणानां नीतेश्च वर्णनम् पाठम्
०८ पुत्रकामस्य राज्ञोऽश्वमेधाय प्रस्तावो मन्त्रि- भिर्ब्राह्मणैश्च तस्यानुमोदनम् पाठम्
०९ सुमन्त्रेणर्ण्यशृङ्गवृत्तान्तस्य संक्षेपेण वर्णनम् पाठम्
१० ऋष्यशृङ्गस्याङ्गदेश आगमनं शान्तया सह विवाहश्च पाठम्
११ सुमन्त्रस्य संमत्या राज्ञा दशरथेनाङ्गराजगृहाच्छान्त- यं शृङ्गयोः स्वे गृहे समानयनम् पाठम्
१२ राज्ञ ऋषीन् प्रति यज्ञं कारयितुं प्रस्ताव, ऋषिभी राजानं प्रति राज्ञा चामात्यान् प्रति यज्ञसामग्री-संभरणायादेशदानम् पाठम्
१३ राज्ञो वसिष्ठं प्रति यज्ञसमारम्भायानुरोधस्तेन तदर्थं सेवकानां नियुक्ती राज्ञामामन्त्रणाय तस्य सुमन्त्रं प्रत्यादेशः समागतनरेशानां सत्कार: सपत्नीकेन राज्ञा यज्ञदीक्षाया ग्रहणं च पाठम्
१४ दशरथेनाश्वमेधयज्ञस्य साङ्गोपाङ्गमनुष्ठानम् पाठम्
१५ ऋष्यशृङ्गेण राज्ञो दशरथस्य पुत्रेष्टियज्ञस्यारम्भो देवानां प्रार्थनया ब्रह्मणा रावणवधोपायस्यानुसंधानं भगवता विष्णुना देवानामाश्वासनम् पाठम्
१६ देवानां विष्णुं प्रति रावणवधाय नररूपेणावतरणाय प्रार्थना राज्ञः पुत्रेष्टियज्ञेऽग्निकुण्डात् प्रादुर्भूतेन प्राजापत्यपुरुषेण पायसस्यार्पणं तद् भुक्त्वा राज्ञीनां गर्भधारणम् पाठम्
१७ ब्रह्मणः प्रेरणया देवादिभिर्विभिन्नवानरयूथपतीना-मुत्पादनम् पाठम्
१८ समागतान् भूपालानृष्यशृङ्गं च विसर्प्य सपत्नीकस्य राज्ञः स्वपुर्यामागमनं, श्रीरामभरतलक्ष्मणशत्रुघ्नानां जन्मसंस्कारशीलगुणानां च वर्णनं, राज्ञः सभायां विश्वामित्रस्यागमनं सत्कारश्च पाठम्
१९ यज्ञरक्षणाय रामं मे देहीति विश्वामित्रवचः श्रुत्वा दशरथस्य दुःखं मोहश्च पाठम्
२० राज्ञोऽनङ्गीकरणं श्रुत्वा विश्वामित्रस्य कोप: पाठम्
२१ विश्वामित्रस्य सरोषं वचनमाकर्ण्य वसिष्ठेन प्रबोधनम् पाठम्
२२ राज्ञा स्वस्त्ययनपूर्वकं रामलक्ष्मणयोर्मुनिना सह प्रस्थापनं मार्गे तयोर्विश्वामित्राद् बलातिबलाख्य- विद्ययोः प्राप्तिश्च पाठम्
२३ मुनिना सह श्रीरामलक्ष्मणयोः सरयूगङ्गासङ्गम-समीपे पुण्याश्रमे नक्तं विश्रामः पाठम्
२४ वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिरिति नौकागतस्य रामस्य प्रश्नं श्रुत्वा मुनिना तस्योत्तर- दानं मलदकरूषताटकावनानां परिचयं दत्त्वा ताटकावधार्थं श्रीरामस्य प्रेरणं च पाठम्
२५ श्रीरामेणानुयुक्तेन विश्वामित्रेण ताटकाया जन्म- विवाहशापादिप्रसङ्गं श्रावयित्वा तस्य ताटकावधाय प्रेरणम् पाठम्
२६ श्रीरामकर्तृकस्ताटकावधः पाठम्
२७ विश्वामित्रेण श्रीरामाय दिव्यास्त्राणां दानम् पाठम्
२८ विश्वामित्रेण श्रीरामायास्त्राणां संहारविधेरुपदेशोऽस्त्रान्तराणामुपदेशश्च श्रीरामस्य मुनिं प्रति प्रश्नः पाठम्
२९ विश्वामित्रेण श्रीरामं प्रति सिद्धाश्रमसम्बन्धिपूर्व- वृत्तवर्णनं ताभ्यां राघवाभ्यां सह स्वाश्रममुपेत्य विश्वामित्रस्य तत्रत्यैर्मुनिभिः पूजनम् पाठम्
३० श्रीरामकर्तृकं विश्वामित्रयज्ञस्य संरक्षणं राक्षसानां संहरणं च पाठम्
३१ श्रीरामादिभिः सह विश्वामित्रस्य मिथिलां प्रति प्रस्थानं मार्गे सायंकाले शोणभद्रतटे विश्रामश्च पाठम्
३२ ब्रह्मपुत्रस्य कुशस्य चतुर्णां पुत्राणां वर्णनं शोणभद्र-तटवर्तिभूतलस्योपरि वसोरधिकारस्य प्रतिपादनं कुशनाभस्य कन्याशतस्य वायो: कोपेन कुब्जत्वम् पाठम्
३३ कुशनाभेन कन्यानां धैर्यक्षमयोः प्रशंसनं ब्रह्मदत्त-स्योत्पत्तिस्तेन सह कुशनाभकन्यानां विवाहश्च पाठम्
३४ गाधेरुत्पत्तिः कौशिक्याः प्रशंसा विश्वामित्रेण कथां समाप्य निशीथस्य वर्णनं सर्वेभ्यः शयितुमनुज्ञां प्रदाय स्वयमपि तस्य शयनम् पाठम्
३५ शोणभद्रमुत्तीर्य विश्वामित्रप्रभृतीनां गङ्गातटं गत्वा तत्र रात्रौ वासः, श्रीरामानुयुक्तेन विश्वामित्रेण तस्मै गङ्गोत्पत्तिकथाश्रावणम् पाठम्
३६ देवैः पार्वतीशिवयोः सुरतक्रीडातो निवर्तनमुमा-देव्या देवान् भूदेवीं चोद्दिश्य शापदानम् पाठम्
३७ गङ्गायाः कार्तिकेयस्योत्पत्तेः प्रसङ्गः पाठम्
३८ सगरस्य प्रजानामुत्पत्तिस्तेन यज्ञस्यायोजनं च पाठम्
३९ इन्द्रेण सगरयज्ञसम्बन्धिनोऽश्वस्यापहरणं सगरात्मजै- र्धराया भेदनं देवैर्ब्रह्माणं प्रति वृत्तस्यास्य विनिवेदनं च पाठम्
४० सगरपुत्राणां भाविनं विनाशं सूचयित्वा ब्रह्मणा देवानां शमनं भुवं खनतां सगरात्मजानां कपिल- पार्श्वे गमनं तस्य रोषाग्निना तेषां भस्मीभावश्च पाठम्
४१ सगरस्याज्ञयांशुमता रसातलं गत्वा ततो यज्ञि-याश्वस्यानयनं स्वपितृव्यानां निधनवृत्तस्य वर्णनं च पाठम्
४२ अंशुमतो भगीरथस्य च तपस्या ब्रह्मणा भगीरथस्या-भीष्टं वरं प्रदाय गङ्गां धारयितुं शिवस्य प्रसाद- नार्थं प्रयतितुं तस्मै सम्मतिदानम् पाठम्
४३ भगीरथस्य तपसा तुष्टेन शिवेन गङ्गां शिरसि धारयित्वा तस्या बिन्दुसरोवरे त्यागस्तत्र स्वात्मानं सप्तसु धारासु संविभज्य भागीरथ्या भगीरथ- मनुगम्य तत्पितॄणामुद्धरणं च पाठम्
४४ भगीरथं प्रशस्य ब्रह्मणा तस्मै गङ्गाजलेन पितृतर्पणं कर्तृमनुज्ञादानं तत्सर्वं कृत्वा भगीरथस्य स्वपुरे गमनं गङ्गावतरणोपाख्यानस्य महिमा च पाठम्
४५ देवैर्दैत्यैश्च क्षीरसागरस्य मन्थनं रुद्रेण हालाहल-विषस्य पानं भगवतो विष्णोः साहाय्येन मन्दरा-चलस्य पातालतः समुद्धारस्तेन सागरस्य मन्थनं धन्वन्तरेरप्सरसां वारुण्या उच्चैःश्रवसः कौस्तु- भस्यामृतस्य च ततः प्रादुर्भावः देवासुरसंग्रामे दैत्यानां संहारश्च पाठम्
४६ पुत्रवधाद् दुःखिताया दितेरिन्द्रहन्तृपुत्रप्राप्ति- कामनया तपः कर्तुं कश्यपतोऽनुज्ञामादाय कुशप्लवे तपःकरणमिन्द्रेण तस्याः परिचरणमशौचदशायां तस्या गर्भे प्रविश्येन्द्रेण दितिगर्भस्य सप्तधा भेदनम् पाठम्
४७ स्वपुत्रान् मरुद्गणान् देवलोके रक्षितुमिन्द्रं प्रति दितेरनुरोधः इन्द्रेण तदाज्ञायाः स्वीकरणं दिति- तपोवन एवेक्ष्वाकुपुत्रेण विशालेन राज्ञा विशाला- भिधायाः नगर्या निर्माणं तत्रत्येन तात्कालिकेन राज्ञा सुमतिना विश्वामित्रस्य सत्कारः पाठम्
४८ राज्ञा सत्कृतस्यैकरात्रौ विशालायां कृतवासस्य मुनिसहितस्य श्रीरामस्य मिथिलायामुपस्थानं तत्रत्य- शून्याश्रमविषये श्रीरामस्य जिज्ञासामधिगम्य विश्वा- मित्रेण गौतमपल्या अहल्यायाः शापप्राप्तेर्वृत्तान्तस्य वर्णनम् पाठम्
४९ पितृभिर्मेषवृषणसंयोगेनेन्द्रस्य सवृषणत्वकरणं श्रीरामेणाहल्यायाः समुद्धारोऽहल्यागौतमाभ्यां श्रीरामस्य सत्कारश्च पाठम्
५० श्रीरामप्रभृतीनां मिथिलापुर्यां गमनं जनकेन विश्वा- मित्रस्य सत्कारस्तस्य श्रीरामलक्ष्मणयोः परिचय- जिज्ञासा तस्याः पूर्तिश्च पाठम्
५१ शतानन्दपृष्टेन विश्वामित्रेण श्रीरामकर्तृकस्या- हल्योद्धारस्य वृत्तान्तनिवेदनं शतानन्देन च श्रीराममभिनन्द्य तं प्रति विश्वामित्रपूर्वचरित्रस्य वर्णनम् पाठम्
५२ वसिष्ठेन राज्ञो विश्वामित्रस्य सत्काराय मनो-वाञ्छित वस्तूनि स्रष्टुं कामधेनुं प्रत्यादेशदानम् पाठम्
५३ कामधेनुसाहाय्येनोत्तमान्नपानतस्तृप्तेन ससैन्येन विश्वामित्रेण वसिष्ठं प्रति कामधेनोरेव याचनं वसिष्ठेन तु तद्याच्ञाया अनङ्गीकरणम् पाठम्
५४ विश्वामित्रेण बलाद् वसिष्ठधेनोरपहरणं ततो भृश-दुःखितया शबलया वसिष्ठस्यात्राननुमतिं ज्ञात्वा तदाज्ञया शकयवनादीन् सृष्ट्वा तैर्विश्वामित्रसैन्यस्य संहरणम् पाठम्
५५ स्वीये पुत्रशतेऽखिले सैन्ये च विनष्टे विश्वामित्रेण तपः कृत्वा शिवं संतोष्य ततो दिव्यास्त्राण्युपलभ्य तेषां वसिष्ठाश्रमे प्रयोगकरणं तदस्त्राणि वारयितुं ब्रह्मदण्डमुद्यम्य वसिष्ठस्य विश्वामित्रसमक्षे- ऽवस्थानम् पाठम्
५६ विश्वामित्रेण वसिष्ठस्योपरि विविधदिव्यास्त्राणां प्रयोगो वसिष्ठेन ब्रह्मदण्डादेव तेषां शमनं ततो ब्राह्मणत्वप्राप्तये विश्वामित्रस्य तपः कर्तुं निश्चयः पाठम्
५७ विश्वामित्रस्य तपः करणं त्रिशङ्कोः स्वीयं यज्ञं कारयितुं वसिष्ठं प्रति प्रार्थना, तेन प्रत्याख्यातेन राज्ञा गुरुपुत्राणां संनिधिमुपेत्य स्वाभिप्रायस्य निवेदनम् पाठम्
५८ गुरुपुत्रैर्निर्भत्र्त्स्य तस्मै गृहं गन्तुमाज्ञाप्रदानमन्यं गुरुं वरीतुमुद्यताय राज्ञे शापदानं च तेषां शापेन चाण्डालत्वं गतस्य त्रिशङ्कोर्विश्वामित्रमाश्रयितुं ततो गमनम् पाठम्
५९ विश्वामित्रेण त्रिशङ्कुमाश्वास्य तदीयं यज्ञं कारयितुमृषीणामामन्त्रणं स्ववाक्यमनङ्गीकृतवतां समहोदयानां मुनिपुत्राणां शापद्वारा विनाशनं च पाठम्
६० त्रिशङ्कोर्यज्ञं कारयितुमृषीन् प्रति विश्वामित्रस्यानुरोध ऋषिभिर्यज्ञस्यारम्भः, सशरीरस्य त्रिशङ्को: स्वर्गलोके गमनं स्वर्गादिन्द्रेण पात्यमाने त्रिशङ्कौ विक्षुब्धेन विश्वामित्रेण नूतनदेवसर्गायोद्यमो देवानामनुरोधेन तस्य ततो विरामश्च पाठम्
६१ विश्वामित्रस्य पुष्करतीर्थे तपस्या, राजर्षिणाम्बरीषे- कमध्यमपुत्रं शुनःशेपं यज्ञपशूकर्तुं क्रीत्वा स्वगृहे तस्य समानयनम् पाठम्
६२ शुनःशेपं रक्षितुं विश्वामित्रस्य सफलः प्रयत्न-स्तपस्या चपाठम्
६३ विश्वामित्रस्य महर्षिपदवीलाभः, मेनकया तस्य तपोभङ्गो ब्रह्मर्षिपदप्राप्तये तस्य घोरं तपश्चपाठम्
६४ विश्वामित्रेण रम्भायै शापं दत्त्वा पुनर्घोरं तपश्चर्तुं दीक्षाग्रहणम् पाठम्
६५ विश्वामित्रस्योग्रं तपस्तस्य ब्राह्मणत्वलाभस्तं मुनिवरं प्रशस्य तेन विसृष्टस्य राज्ञो जनकस्य राजभवनं प्रति गमनम् पाठम्
६६ विश्वामित्रं रामलक्ष्मणौ च सत्कृत्य जनकेन तान् प्रति स्वगृहे स्थापितस्य दिव्यधनुषः परिचयदानं श्रीरामश्चेद् धनुरारोपयेत्तदेतस्मै सीतां दद्यामिति स्वनिश्चयस्य प्रकटनं च पाठम्
६७ श्रीरामेण मौर्वीमारोप्य धनुषः पूरणे कृते तस्य भङ्गो विश्वामित्राज्ञया जनकेन राजानं दशरथ-माह्वयितुं मन्त्रिणां प्रेषणम् पाठम्
६८ जनकस्य संदेशमाकर्ण्य मन्त्रिभिः सहितस्य राज्ञो दशरथस्य मिथिलां गन्तुमुद्यमः पाठम्
६९ सबलस्य दशरथस्य मिथिलायां गमनं तत्र जनकेन तस्य सत्कारश्च पाठम्
७० जनकेन सांकाश्यातो स्वानुजस्य कुशध्वजस्य दूतैः समानयनं दशरथस्यानुरोधेन वसिष्ठकर्तृकं सूर्यवंशपरम्परावर्णनं रामलक्ष्मणयोः कृते सीतोर्मिलयोर्वरणं च पाठम्
७१ स्वकुलस्य परिचयं ददता जनकेन श्रीराम- लक्ष्मणयोः कृते सीतोर्मिलयोः प्रदानाय प्रतिज्ञा-करणम् पाठम्
७२ विश्वामित्रेण भरतशत्रुघ्नयोः कृते कुशध्वज- कन्ययोर्वरणं जनकेन तस्य स्वीकरणं दशरथेन पुत्राणां मङ्गलार्थं नान्दीश्राद्धगोदानयोरनुष्ठानम् पाठम्
७३ श्रीरामादीनां चतुर्णां भ्रातॄणां विवाह: पाठम्
७४ विश्वामित्रस्य स्वाश्रमं प्रति प्रस्थानं जनककर्तृकं कन्यानां कृते प्रचुरधनदानं राज्ञो दशरथस्य विदापनं च मार्गे शुभाशुभशकुनोदयः परशुरामस्या- गमनं च पाठम्
७५ दशरथवाक्यमनाकर्ण्य परशुरामेण श्रीरामस्य वैष्णवधनुष बाणं संधातुं प्रेरणम् पाठम्
७६ श्रीरामेण वैष्णवं धनुरारोप्यामोघेन शरेण परशुरामस्य तपःप्राप्तानां पुण्यलोकानां विनाशनं परशुरामस्य महेन्द्रपर्वतं प्रत्यागमनम् पाठम्
७७ पुत्रैः स्नुषाभिश्च सह दशरथस्यायोध्यायां प्रवेशः, शत्रुघ्नसहितस्य भरतस्य मातुलगृहे गमनं श्रीरामस्य सद्वृत्त्या समेषां संतोषः, श्रीसीतारामयोर्मिथः प्रेम्णो वर्णनम् पाठम्

बालकाण्डं सम्पूर्णम्


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध