अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह। लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान्॥ १॥ सचिवानब्रवीद् वाक्यं निश्चित्य गुरुलाघवम्। मन्त्रज्ञान् मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः॥ २॥ न मे दुर्व्याहृतं किञ्चिन्नापि मे दुरनुष्ठितम्। लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये॥ ३॥ असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः। मम दोषानसम्भूतान् श्रावितो राघवानुजः॥ ४॥ अत्र तावद् यथाबुद्धिः सर्वैरेव यथाविधि। भावस्य निश्चयस्तावद् विज्ञेयो निपुणं शनैः॥ ५॥ न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात्। मित्रं स्वस्थानकुपितं जनयत्येव सम्भ्रमम्॥ ६॥ सर्वथा सुकरं मित्रं दुष्करं प्रतिपालनम्। अनित्यत्वात् तु चित्तानां प्रीतिरल्पेऽपि भिद्यते॥ ७॥ अतो निमित्तं त्रस्तोऽहं रामेण तु महात्मना। यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया॥ ८॥ सुग्रीवेणैवमुक्तु हनूमान् मारुतात्मजः। उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम्॥ ९॥ सर्वथा नैतदाश्चर्यं यत्त्वं हरिगणेश्वर। न विस्मरसि सुस्निग्धमुपकार कृतं शुभम्॥ १०॥ राघवेण तु वीरेण भयमुत्सृज्य दूरतः। त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः॥ ११॥ सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः। भ्रातरं सम्प्रहितवाँल्लक्ष्मणं लक्ष्मिवर्धनम्॥ १२॥ त्वं प्रमत्तो न जानीषे कालं कालविदां वर। फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा॥ १३॥ निर्मलग्रहनक्षत्रा द्यौः प्रनष्टबलाहका। प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च॥ १४॥ प्राप्तमुद्योगकालं तु नावैषि हरिपुंगव। त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः॥ १५॥ आर्तस्य हृतदारस्य परुषं पुरुषान्तरात्। वचनं मर्षणीयं ते राघवस्य महात्मनः॥ १६॥ कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम्। अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्॥ १७॥ नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम्। अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः॥ १८॥ अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः। सदेवासुरगन्धर्वं वशे स्थापयितुं जगत्॥ १९॥ न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत्। पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः॥ २०॥ तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः। राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे॥ २१॥ न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितुम्। मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनूमन्मन्त्रो नाम द्वात्रिंशः सर्गः ॥४-३२॥