home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

द्वितीयः सर्गः ॥४-२॥

॥सुग्रीवमन्त्रः॥

[ सुग्रीवस्य वानराणां चाशङ्का हनुमता तस्या निवारणं सुग्रीवेण श्रीरामलक्ष्मणयोर्भावं समीक्षितुं हनुमतस्तत्सविधे प्रेषणम् ]

तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ। वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत्॥ १॥ उद्विग्नहृदयः सर्वा दिशः समवलोकयन्। न व्यतिष्ठत कस्मिंश्चिद् देशे वानरपुंगवः॥ २॥ नैव चक्रे मनः स्थाने वीक्षमाणौ महाबलौ। कपेः परमभीतस्य चित्तं व्यवससाद ह॥ ३॥ चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम्। सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह॥ ४॥ ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः। शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ॥ ५॥ एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम्। छद्मना चीरवसनौ प्रचरन्ताविहागतौ॥ ६॥ ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ। जग्मुर्गिरितटात् तस्मादन्यच्छिखरमुत्तमम्॥ ७॥ ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम्। हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे॥ ८॥ एकमेकायनगताः प्लवमाना गिरेर्गिरिम्। प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च॥ ९॥ ततः शाखामृगाः सर्वे प्लवमाना महाबलाः। बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गसंश्रितान्॥ १०॥ आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम्। मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा॥ ११॥ ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः। संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः॥ १२॥ ततस्तं भयसंविग्नं वालिकिल्बिषशङ्कितम्। उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः॥ १३॥ सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान्। मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः॥ १४॥ यस्मादुद्विग्नचेतास्त्वं विद्रुतो हरिपुङ्गव। तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्॥ १५॥ यस्मादुद्विग्‍नचेतास्त्वं प्रद्रुतो हरिपुंगव। तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्॥ यस्मात्तव भयं सौम्य पूर्वजात् पापकर्मणः। स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम्॥ १६॥ अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम। लघुचित्ततयात्मानं न स्थापयसि यो मतौ॥ १७॥ बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर। न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि॥ १८॥ सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः। ततः शुभतरं वाक्यं हनूमन्तमुवाच ह॥ १९॥ दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ। कस्य न स्याद् भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ॥ २०॥ वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ। राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः॥ २१॥ अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः। विश्वस्तानामविश्वस्ता रन्ध्नेषु प्रहरन्ति हि॥ २२॥ कृत्येषु वाली मेधावी राजानो बहुदर्शिनाः। भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः॥ २३॥ तौ त्वया प्राकृतेनेव गत्वा ज्ञेयौ प्लवंगम। इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च॥ २४॥ लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि। विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनः पुनः॥ २५॥ ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव। प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ॥ २६॥ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम। व्याभाषितैर्वा विज्ञेया स्याद् दुष्टा दुष्टता तयोः॥ २७॥ इत्येव कपिराजेन सन्दिष्टो मारुतात्मजः। चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ॥ २८॥ तथेति सम्पूज्य वचस्तु तस्य तत् कपेः सुभीतस्य दुरासदस्य च। महानुभावो हनुमान् ययौ तदा स यत्र रामोऽतिबलश्च लक्ष्मणः॥ २९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे सुग्रीवमन्त्रो नाम द्वितीयः सर्गः ॥४-२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध