home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

प्रथमः सर्गः ॥४-१॥

॥रामविप्रलंभावेशः॥

[ पम्पाया दर्शनेन श्रीरामस्य व्याकुलत्वं श्रीरामेण लक्ष्मणं प्रति पम्पाशोभायास्तत्रत्योद्दीपनसामग्र्याश्च वर्णनं लक्ष्मणेन श्रीरामस्य प्रबोधनमृष्यमूकं गच्छन्तौ तौ द्वौ भ्रातरौ वीक्ष्य सुग्रीवस्यान्येषां च वानराणां भयम् ]

स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम्। रामः सौमित्रिसहितो विललापाकुलेन्द्रियः॥ १॥ तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे। स कामवशमापन्नः सौमित्रिमिदमब्रवीत्॥ २॥ सौमित्रे शोभते पम्पा वैदूर्यविमलोदका। फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः॥ ३॥ सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम्। यत्र राजन्ति शैलामा द्रुमाः सशिखरा इव॥ ४॥ मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वै। भरतस्य च दुःखेन वैदेह्या हरणेन च॥ ५॥ शोकार्तस्यापि मे पम्पा शोभते चित्रकानना। व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा॥ ६॥ नलिनैरपि संछन्ना ह्यत्यर्थं शुभदर्शना। सर्पव्यालानुचरिता मृगद्विजसमाकुला॥ ७॥ अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम्। द्रुमाणां विविधैः पुष्पैः परिस्तैमैरिवार्पितम्॥ ८॥ पुष्पभारसमृद्धानि शिखराणि समन्ततः। लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः॥ ९॥ सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः। गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः॥ १०॥ पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम्। सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव॥ ११॥ प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः। वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम्॥ १२॥ पतितैः पतमानैश्च पादपस्थैश्च मारुतः। कुसुमैः पश्य सौमित्रे क्रीडन्निव समन्ततः॥ १३॥ विक्षिपन् विविधाः शाखा नगानां कुसुमोत्कचाः। मारुतश्चलितस्थानैः षट्पदैरनुगीयते॥ १४॥ मत्तकोकिलसंनादैर्नर्तयन्निव पादपान्। शैलकन्दरनिष्क्रान्तः प्रगीत इव चानिलः॥ १५॥ तेन विक्षिपतात्यर्थं पवनेन समन्ततः। अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः॥ १६॥ स एष सुखसंस्पर्शो वाति चन्दनशीतलः। गन्धमभ्यवहन् पुण्यं श्रमापनयनोऽनिलः॥ १७॥ अमी पवनविक्षिप्ता विनदन्तीव पादपाः। षड्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु॥ १८॥ गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः। संसक्तशिखराः शैला विराजन्ते महाद्रुमैः॥ १९॥ पुष्पसंछन्नशिखरा मारुतोत्क्षेपचञ्चलाः। अमी मधुकरोत्तंसाः प्रगीता इव पादपाः॥ २०॥ सुपुष्पितांस्तु पश्यैमान् कर्णिकारान् समन्ततः। हाटकप्रतिसंछन्नान् नरान् पीताम्बरानिव॥ २१॥ अयं वसन्तः सौमित्रे नानाविहगनादितः। सीतया विप्रहीणस्य शोकसंदीपनो मम॥ २२॥ मां हि शोकसमाक्रान्तं संतापयति मन्मथः। हृष्टः प्रवदमानश्च समाह्वयति कोकिलः॥ २३॥ एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे। प्रणदन् मन्मथाविष्टं शोचयिष्यति लक्ष्मण॥ २४॥ श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया। मामाहूय प्रमुदिताः परमं प्रत्यनन्दत॥ २५॥ एवं विचित्राः पतगा नानारावविराविणः। वृक्षगुल्मलताः पश्य सम्पतन्ति समन्ततः॥ २६॥ विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः। भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः॥ २७॥ अस्याः कूले प्रमुदिताः शकिनाः सङ्घशस्त्विह। दात्यूहरतिविक्रन्दैः पुंस्कोकिलरुतैरपि॥ २८॥ स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपकाः। अशोकस्तबकाङ्गारः षट्पदस्वननिःस्वनः॥ २९॥ मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति। न ही तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम्॥ ३०॥ अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम्। अयं हि दयितस्तस्याः कालो रुचिरकाननः॥ ३१॥ कोकिलाकुलसीमान्तो दयिताया ममानघ। मन्मथायाससम्भूतो वसन्तगुणवर्धितः॥ ३२॥ अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्नचिरादिव। अपश्यतस्तां दयितां पश्यतो रुचिरान् द्रुमान्॥ ३३॥ ममायमात्मप्रभवो भूयस्त्वमुपयास्यति। अदृश्यमाना वैदेही शोकं वर्धयतीह मे॥ ३४॥ दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः। मां हि सा मृगशाबाक्षी चिन्ताशोकबलात्कृतम्॥ ३५॥ संतापयति सौमित्रे क्रूरश्चैत्रो वनानिलः। अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः॥ ३६॥ स्वैः पक्षैः पवनोद‍्धूतैर्गवाक्षैः स्फाटिकैरिव। शिखिनीभिः परिवृतास्त एते मदमूर्च्छिताः॥ ३७॥ मन्मथाभिपरीतस्य मम मन्मथवर्धनाः। पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति॥ ३८॥ शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु। तामेव मनसा रामां मयूरोऽप्यनुधावति॥ ३९॥ वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव। मयूरस्य वने नूनं रक्षसा न हृता प्रिया॥ ४०॥ तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया। मम त्वयं विना वासः पुष्पमासे सुदुःसहः॥ ४१॥ पश्य लक्ष्मण संरागं तिर्यग्योनिगतेष्वपि। यदेषा शिखिनी कामाद् भर्तारमभिवर्तते॥ ४२॥ ममाप्येवं विशालाक्षी जानकी जातसम्भ्रमा। मदनेनाभिवर्तेत यदि नापहृता भवेत्॥ ४३॥ पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे। पुष्पभारसमृद्धानां वनानां शिशिरात्यये॥ ४४॥ रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया। निष्फलानि महीं यान्ति समं मधुकरोत्करैः॥ ४५॥ नदन्ति कामं शकुना मुदिताः सङ्घशः कलम्। आह्वयन्त इवान्योन्यं कामोन्मादकरा मम॥ ४६॥ वसन्तो यदि तत्रापि यत्र मे वसति प्रिया। नूनं परवशा सीता सापि शोचत्यहं यथा॥ ४७॥ नूनं न तु वसन्तोऽयं देशं स्पृशति यत्र सा। कथं ह्यसितपद्माक्षी वर्तयेत् सा मया विना॥ ४८॥ अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया। किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः॥ ४९॥ श्यामा पद्मपलाशाक्षी मृदुपूर्वाभिभाषिणि। नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम्॥ ५०॥ दृढं हि हृदये बुद्धिर्मम सम्प्रति वर्तते। नालं वर्तयितुं सीता साध्वी मद्विरहं गता॥ ५१॥ मयि भावो हि वैदेह्यास्तत्त्वतो विनिवेशितः। ममापि भावः सीतायां सर्वथा विनिवेशितः॥ ५२॥ एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः। तां विचिन्तयतः कान्तां पावकप्रतिमो मम॥ ५३॥ सदा सुखमहं मन्ये यं पुरा सह सीतया। मारुतः स विना सीतां शोकं वर्धयते मम॥ ५४॥ तां विना स विहङ्गोऽसौ पक्षी प्रणदितस्तदा। वायसः पादपगतः प्रहृष्टमभिनर्दति॥ ५५॥ एष वै तत्र वैदेह्या विहगः प्रतिहारकः। पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति॥ ५६॥ श्रृणु लक्ष्मण संनादं वने मदविवर्धनम्। पुष्पिताग्रेषु वृक्षेषु द्विजानामपकूजताम्॥ ५७॥ विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम्। षट्पदः सहसाभ्येति मदोद‍्धूतामिव प्रियाम्॥ ५८॥ कामिनामयमत्यन्तमशोकः शोकवर्धनः। स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः॥ ५९॥ अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः। विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव॥ ६०॥ सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु। किन्नरा नरशार्दूल विचरन्ति यतस्ततः॥ ६१॥ इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः। नलिनानि प्रकाशन्ते जले तरुणसूर्यवत्॥ ६२॥ एषा प्रसन्नसलिला पद्मनीलोत्पलायुता। हंसकारण्डवाकीर्णा पम्पा सौगन्धिकान्विता॥ ६३॥ जले तरुणसूर्याभैः षट्पदाहतकेसरैः। पङ्कजैः शोभते पम्पा समन्तादभिसंवृता॥ ६४॥ चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा। मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः॥ ६५॥ पवनाहितवेगाभिरूर्मिभिर्विमलेऽम्भसि। पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण॥ ६६॥ पद्मपत्रविशालाक्षीं सततं प्रियपङ्कजाम्। अपश्यतो मे वैदेहीं जीवितं नाभिरोचते॥ ६७॥ अहो कामस्य वामत्वं यो गतामपि दुर्लभाम्। स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम्॥ ६८॥ शक्यो धारयितुं कामो भवेदभ्यागतो मया। यदि भूयो वसन्तो मां न हन्यात् पुष्पितद्रुमः॥ ६९॥ यानि स्म रमणीयानि तया सह भवन्ति मे। तान्येवारमणीयानि जायन्ते मे तया विना॥ ७०॥ पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते। सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण॥ ७१॥ पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः। निःश्वास इव सीताया वाति वायुर्मनोहरः॥ ७२॥ सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुषु। पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम्॥ ७३॥ अधिकं शैलराजोऽयं धातुभिः सुविभूषितः। विचित्रं सृजते रेणुं वायुवेगविघट्टितम्॥ ७४॥ गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः। निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः॥ ७५॥ पम्पातीररुहाश्चेमे संसक्ता मधुगन्धिनः। मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः॥ ७६॥ केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः। माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः॥ ७७॥ चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा। चम्पकास्तिलकाश्चैव नागवृक्षाः सुपुष्पिताः॥ ७८॥ निपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः। पद्मकाश्चैपशोभन्ते नीलाशोकाश्च पुष्पिताः॥ ७९॥ लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः॥ अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः॥ ८०॥ चूताः पाटलयश्चापि कोविदाराश्च पुष्पिताः। मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु॥ ८१॥ केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः। शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा॥ ८२॥ तिनिशा नक्तमालाश्च चन्दनाः स्पन्दनास्तथा। हिन्तालास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः॥ ८३॥ पुष्पितान् पुष्पिताग्राभिर्लताभिः परिवेष्टितान्। द्रुमान् पश्येह सौमित्रे पम्पाया रुचिरान् बहून्॥ ८४॥ वातविक्षिप्तविटपान् यथासन्नान् द्रुमानिमान् लताः समनुवर्तन्ते मत्ता इव वरस्त्रियः॥ ८५॥ पादपात् पादपं गच्छञ्शैलाच्छैलं वनाद् वनम्। वाति नैकरसास्वादसम्मोदित इवानिलः॥ ८६॥ केचित् पर्याप्तकुसुमाः पादपा मधुगन्धिनः। केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः॥ ८७॥ इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि। रागमत्तो मधुकरः कुसुमेष्वव लीयत॥ ८८॥ निलीय पुनरुत्पत्य सहसान्यत्र गच्छति। मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ॥ ८९॥ इयं कुसुमसंघातैरुपस्तीर्णा सुखाकृता। स्वयं निपतितैर्भूमिः शयनप्रस्तरैरिव॥ ९०॥ विविधा विविधैः पुष्पैस्तैरेव नगसानुषु। विस्तीर्णाः पीतरक्ता हि सौमित्रे प्रस्तराः कृताः॥ ९१॥ हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम्। पुष्पमासे हि तरवः सङ्घर्षादिव पुष्पिताः॥ ९२॥ आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः। कुसुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण॥ ९३॥ एष कारण्डवः पक्षी विगाह्य सलिलं शुभम्। रमते कान्तया सार्धं काममुद्दीपयन् मम॥ ९४॥ मन्दाकिन्यास्तु यदिदं रूपमेवं मनोरमम्। स्थाने जगति विख्याता गुणास्तस्या मनोरमाः॥ ९५॥ यदि दृश्येत सा साध्वी यदि चेह वसेमहि। स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम॥ ९६॥ न ह्येवं रमणीयेषु शाद्वलेषु तया सह। रमतो मे भवेच्चिन्ता न स्पृहान्येषु वा भवेत्॥ ९७॥ अमी हि विविधैः पुष्पैस्तरवो रुचिरच्छदाः। काननेऽस्मिन् विना कान्तां चित्तमुन्मादयन्ति मे॥ ९८॥ पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम्। चक्रवाकानुचरितां कारण्डवनिषेविताम्॥ ९९ प्लवैः क्रौञ्चैश्च सम्पूर्णां वराहमृगसेविताम्। अधिकं शोभते पम्पा विकूजद्भिर्विहंगमैः॥ १००॥ दीपयन्तीव मे कामं विविधा मुदिता द्विजाः। श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्॥ १०१॥ पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान्। मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम्॥ १०२॥ व्यथयन्तीव मे चित्तं संचरन्तस्ततस्ततः। अस्मिन् सानुनि रम्ये हि मत्तद्विजगणायिते॥ १०३॥ पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम। जीवेयं खलु सौमित्रे मया सह सुमध्यमा॥ १०४॥ सेवेत यदि वैदेही पम्पायाः पवनं सुखम्। पद्मसौगन्धिकवहं शिवं शोकविनाशनम्॥ १०५॥ धन्या लक्ष्मण सेवन्ते पम्पोपवनमारुतम्। श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया॥ १०६॥ कथं धारयति प्राणान् विवशा जनकात्मजा। किं नु वक्ष्यामि धर्मज्ञं राजानं सत्यवादिनम्॥ १०७॥ सीताया जनकं पृष्टः कुशलं जनसंसदि। या मामनुगता मन्दं पित्रा प्रस्थापितं वनम्॥ १०८॥ सीता सत्पथमास्थाय क्व नु सा वर्तते प्रिया। तया विहीनः कृपणः कथं लक्ष्मण धारये॥ १०९॥ या मामपगता राज्याद् भ्रष्टं विगतचेतसम्। तच्चार्वाञ्चितपद्माक्षं सुगन्धि शुभमव्रणम्॥ ११०॥ अपश्यतो मुखं तस्याः सीदतीव मनो मम। स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम्॥ १११॥ वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण। प्राप्य दुःखं वने श्यामा सा मां मन्मथविकर्शितम्॥ ११२॥ नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत। किं नु वक्ष्यामि कैसल्यामयोध्यायां नृपात्मज॥ ११३॥ क्व सा स्‍नुषेति पृच्छन्तीं कथं चातिमनस्विनीम्। गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम्॥ ११४॥ न ह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम्। इति रामं महात्मानं विलपन्तमनाथवत्॥ ११५॥ उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम्। संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम॥ ११६॥ नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम्। स्मृत्वा वियोगजं दुःखं त्यज स्‍नेहं प्रिये जने॥ ११७॥ अतिस्‍नेहपरिष्वङ्गाद् वर्तिरार्द्रापि दह्यते। यदि गच्छति पातालं ततोह्यधिकमेव वा॥ ११८॥ सर्वथा रावणस्तावन्न भविष्यति राघव। प्रवृत्तिर्लभ्यतां तावत् तस्य पापस्य रक्षसः॥ ११९॥ ततो हास्यति वा सीतां निधनं वा गमिष्यति। यदि याति दितेर्गर्भं रावणः सह सीतया॥ १२०॥ तत्राप्येनं हनिष्यामि न चेद् दास्यति मैथिलीम्। स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः॥ १२१॥ अर्थो हि नष्टकार्यार्थैरयत्नेनाधिगम्यते। उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम्॥ १२२॥ सोत्साहस्यस्ति लोकेषु न किञ्चिदपि दुर्लभम्। उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु॥ १२३॥ उत्साहमात्रमाश्रित्य प्रतिलप्स्याम जानकीम्। त्यज्यतां कामवृत्तत्वं शोकं संन्यस्य पृष्ठतः॥ १२४॥ महात्मानं कृतात्मानमात्मानं नावबुध्यसे। एवं सम्बोधितस्तत्र शोकोपहतचेतनः॥ १२५॥ न्यस्य शोकं च मोहं च ततो धैर्यमुपागमत्। सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः॥ रामः पम्पां सुरुचिरां रम्यां पारिप्लवद्रुमाम्॥ १२६ निरीक्षमाणः सहसा महात्मा सर्वं वनं निर्झरकन्दरं च। उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे॥ १२७॥ तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा। स लक्ष्मणो राघवमिष्टचेष्टो ररक्ष धर्मेण बलेन चैव॥ १२८॥ तावृश्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनीयौ। शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव चिचेष्ट किञ्चित्॥ १२९॥ स तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चरं चरन्तौ। दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारमग्नः॥ १३०॥ तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम्। त्रस्ताश्च दृष्ट्वा हरयोऽभिजग्मु- र्महौजसौ राघवलक्ष्मणौ तौ॥ १३१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे रामविप्रलंभावेशो नाम प्रथमः सर्गः ॥४-१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध