home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

चतुश्चत्वारिंशः सर्गः ॥४-४४॥

॥हनुमत्संदेशः॥

[ श्रीरामेण हनुमते मुद्रिकां प्रदाय तस्य दक्षिणदिशि प्रेषणम् ]

विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान्। स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने॥ १॥ अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम्। सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम्॥ २॥ न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये। नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुंगव॥ ३॥ सासुराः सहगन्धर्वाः सनागनरदेवताः। विदिताः सर्वलोकास्ते ससागरधराधराः॥ ४॥ गतिर्वेगश्च तेजश्च लाघवं च महाकपे। पितुस्ते सदृशं वीर मारुतस्य महात्मनः॥ ५॥ तेजसा वापि ते भूतं न समं भुवि विद्यते। तद् यथा लभ्यते सीता तत्त्वमेवोपपादय॥ ६॥ त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः। देशकालानुवृत्तिश्च नयश्च नयपण्डित॥ ७॥ ततः कार्यसमासङ्गमवगम्य हनूमति। विदित्वा हनुमन्तं च चिन्तयामास राघवः॥ ८॥ सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः। निश्चितार्थतरश्चापि हनूमान् कार्यसाधने॥ ९॥ तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः। भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः॥ १०॥ तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम्। कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः॥ ११॥ ददौ तस्मै ततः प्रीतः स्वनामाङ्कोपशोभितम्। अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः॥ १२॥ अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा। मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति॥ १३॥ व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः। सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे॥ १४॥ स तद् गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः। वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः॥ १५॥ स तत् प्रकर्षन् हरिणां महद् बलं बभूव वीरः पवनात्मजः कपिः। गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः॥ १६॥ अतिबल बलमाश्रितस्तवाहं हरिवर विक्रम विक्रमैरनल्पैः। पवनसुत यथाधिगम्यते सा जनकसुता हनुमंस्तथा कुरुष्व॥ १७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनूमत्संदेशो नाम चतुश्चत्वारिंशः सर्गः ॥४-४४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध