home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

त्रिपञ्चाशः सर्गः ॥४-५३॥

॥अङ्गदादिनिर्वेदः॥

[ निवर्तनाय नियतमवधिमतीत्यापि कार्यस्यासाधनात् सुग्रीवस्योग्रदण्डतो विभ्यतामङ्गदप्रभृतीनां कपीना-' मुपोष्य प्राणान् परित्यक्तुं निश्चयः ]

एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्। उवाच हनुमान् वाक्यं तामनिन्दितचेष्टिताम्॥ १॥ शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणीम्। यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना॥ २॥ स तु कालो ह्यतिक्रान्तो बिले च परिवर्तताम्। सा त्वमस्माद् बिलाद्घोरादुत्तारयितुमर्हसि॥ ३॥ तस्मात् सुग्रीववचनादतिक्रान्तान् गतायुषः। त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान्॥ ४॥ महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि। तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः॥ ५॥ एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्। जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्॥ ६॥ तपसस्तु प्रभावेण नियमोपार्जितेन च। सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान्॥ ७॥ निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः। न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः॥ ८॥ ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः। सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्‍क्षणः॥ ९॥ वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा। निमेषान्तरमात्रेण बिलादुत्तारितास्तया॥ १०॥ ततस्तान वानरान् सर्वस्तापसी धर्मचारिणी। निःसृतान् विषमात् तस्मात् समाश्वास्येदमब्रवीत्॥ ११॥ एष विन्ध्यो गिरिः श्रीमान् नानाद्रुमलताकुलः। एष प्रस्रवणः शैलः सागरोऽयं महोदधिः॥ १२॥ स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः। इत्युक्त्वा तद् बिलं श्रीमत् प्रविवेश स्वयंप्रभा॥ १३॥ ततस्ते ददृशुर्घोरं सागरं वरुणालयम्। अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम्॥ १४॥ मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम्। तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः॥ १५॥ विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे। उपविश्य महात्मानश्चिन्तामापेदिरे तदा॥ १६॥ ततः पुष्पातिभाराग्राँल्लताशतसमावृतान्। द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः॥ १७॥ ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम्। नष्टसंदेशकालार्था निपेतुर्धरणीतले॥ १८॥ ततस्तान् कपिवृद्धांस्तु शिष्टांश्चैव वनौकसः। वाचा मधुरयाभाष्य यथावदनुमान्य च॥ १९॥ स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः। युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत्॥ २०॥ शासनात् कपिराजस्य वयं सर्वे विनिर्गताः। मासः पूर्णो बिलस्थानां हरयः किं न बुध्यत॥ २१॥ वयमाश्वयुजे मासि कालसंख्याव्यवस्थिताः। प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम्॥ २२॥ भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः। हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु॥ २३॥ कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः। मां पुरस्कृत्य निर्याताः पिङ्गाक्षेशप्रचोदिताः॥ २४॥ इदानीमकृतार्थानां मर्तव्यं नात्र संशयः। हरिराजस्य संदेशमकृत्वा कः सुखी भवेत्॥ २५॥ अस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्। प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्॥ २६॥ तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः। न क्षमिष्यति नः सर्वानपराधकृतो गतान्॥ २७॥ अप्रवृत्तौ च सीतायाः पापमेव करिष्यति। तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनम्॥ २८॥ त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च। ध्रुवं नो हिंसते राजा सर्वान् प्रतिगतानितः॥ २९॥ वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः। न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः॥ ३०॥ नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा। स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्॥ ३१॥ घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः। किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे॥ ३२॥ इहैव प्रायमासिष्ये पुण्ये सागररोधसि। एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम्॥ ३३॥ सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्। तीक्ष्णः प्रकृत्या सुग्रीवः प्रियारक्तश्च राघवः॥ ३४॥ समीक्ष्याकृतकार्यांस्तु तस्मिंश्च समये गते। अदृष्टायां च वैदेह्यां दृष्ट्वा चैव समागतान्॥ ३५॥ राघवप्रियकामार्थं घातयिष्यत्यसंशयम्। न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः॥ ३६॥ प्रधानभूताश्च वयं सुग्रीवस्य समागताः। इहैव सीतामन्वीष्य प्रवृत्तिमुपलभ्य वा। नो चेद् गच्छाम तं वीरं गमिष्यामो यमक्षयम्॥ ३७॥ प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे। अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः॥ ३८॥ इदं हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयम्। इहास्ति नो नैव भयं पुरंदरान्न राघवाद् वानरराजतोऽपि वा॥ ३९॥ श्रुत्वाङ्गदस्यापि वचोऽनुकूल- मूचुश्च सर्वे हरयः प्रतीताः। यथा न हंस्येम तथा विधान- मसक्तमद्यैव विधीयतां नः॥ ४०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे अङ्गदादिनिर्वेदो नाम त्रिपञ्चाशः सर्गः ॥४-५३॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध