home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

चतुःषष्ठितमः सर्गः ॥४-६४॥

॥समुद्रलङ्घनमन्त्रणम्॥

[ समुद्रस्य विशालतामालोक्य विषीदतो वानरान् सान्त्वयित्वाङ्गदस्य तान् प्रति पृथक् पृथक् समुद्रलङ्घनशक्तिविषयकः प्रश्नः ]

आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः। संगम्य प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः॥ १॥ सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम्। हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः॥ २॥ अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः। कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम्॥ ३॥ दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम्। संनिवेशं ततश्चक्रुः सहिता वानरोत्तमाः॥ ४॥ सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विधैर्जले। व्यात्तास्यैः सुमहाकायैरुर्मिभिश्च समाकुलम्॥ ५॥ प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः। क्वचित् पर्वतमात्रैश्च जलराशिभिरावृतम्॥ ६॥ संकुलं दानवेन्द्रैश्च पातालतलवासिभिः। रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः॥ ७॥ आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः। विषेदुः सहिताः सर्वे कथं कार्यमिति ब्रुवन्॥ ८॥ विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात्। आश्वासयामास हरीन् भयार्तान् हरिसत्तमः॥ ९॥ तान् विषादेन महता विषण्णान् वानर्षभान्। उवाच मतिमान् काले वालिसूनुर्महाबलः॥ १०॥ न विषादे मनः कार्यं विषादो दोषवत्तमः। विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः॥ ११॥ यो विषादं प्रसहते विक्रमे पर्युस्थिते। तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति॥ १२॥ इति ब्रवति तास्मिंस्तु वालिपुत्रे माहामतौ। आदित्योऽस्तं गतस्तत्र रजनी चाभ्यवर्तत॥ १३॥ तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह। हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत्॥ १४॥ सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ। वासवं परिवार्येव मरुतां वाहिनी स्थिता॥ १५॥ कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् । अन्यत्र वालितनयादन्यत्र च हनूमतः॥ १६॥ ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिन्दमः। अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत्॥ १७॥ क इदानीं महातेजा लङ्घयिष्यति सागरम्। कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम्॥ १८॥ को वीरो योजनशतं लङ्घयेत प्लवङ्गमः। इमांश्च यूथपान् सर्वान् मोक्षयेत् को महाभयात्॥ १९॥ कस्य प्रसादाद् दारांश्च पुत्रांश्चैव गृहाणि च। इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम्॥ २०॥ कस्य प्रसादाद् रामं च लक्ष्मणं च महाबलम्। अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम्॥ २१॥ यदि कश्चित् समर्थो वः सागरप्लवने हरिः। स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम्॥ २२॥ अङ्गदस्य वचः श्रुत्वा न कश्चित् किञ्चिदब्रवीत्। स्तिमितेवाभवत् सर्वा तत्र सा हरिवाहिनी॥ २३॥ पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः। सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः॥ २४॥ व्यपदेशकुले जाताः पूजिताश्चाप्यभीक्ष्णशः। न हि वो गमने सङ्गः कदाचित् कस्यचिद्क्वचित्। ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः॥ २५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे समुद्रलङ्घनमन्त्रणं नाम चतुःषष्ठितमः सर्गः ॥४-६४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध