home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

त्रिषष्ठितमः सर्गः ॥४-६३॥

॥संपातिपक्षप्ररोहः॥

[ सम्पातेर्नवपुङ्खोद्गमस्तस्य वानराणां प्रोत्साहन कृत्वा तत उड्डयनं वानराणां ततो दक्षिणस्यां प्रस्थानं च ]

एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविदां वरः। मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमाश्रमम्॥ १॥ कन्दरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः। अहं विन्ध्यं समारुह्य भवतः प्रतिपालये॥ २॥ अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम्। देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः॥ ३॥ महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे। मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम्॥ ४॥ उत्थितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये। बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु॥ ५॥ सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः। बु द्ध्यता च मया वीर्यं रावणस्य दुरात्मनः॥ ६॥ पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम्। तस्या विलपितं श्रुत्वा तौ च सीताविनाकृतौ॥ ७॥ न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम्। तस्य त्वेवं ब्रुवाणस्य संहतेर्वानरैः सह॥ ८॥ उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम्। स दृष्ट्वा स्वां तनुं पक्षैरुद‍्गतैररुणच्छदैः॥ ९॥ प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत्। ऋषेर्निशाकरस्यैव प्रभावादमितात्मनः॥ १०॥ आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुपस्थितौ। यौवने वर्तमानस्य ममासीद् यः पराक्रमः॥ ११॥ तमेवाद्यानुगच्छामि बलं पौरुषमेव च। सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ॥ १२॥ पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः। इत्युक्त्वा तान् हरीन् सर्वान् सम्पातिः पतगोत्तमः॥ १३॥ उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम्। तस्य तद् वचनं श्रुत्वा प्रतिसंहृष्टमानसाः। बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः॥ १४॥ अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः। अभिजिदभिमुखां दिशं ययु- र्जनकसुतापरिमार्गणोन्मुखाः॥ १५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे संपातिपक्षप्ररोहो नाम त्रिषष्ठितमः सर्गः ॥४-६३॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध