उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले। हरयो गृध्रराजश्च तं देशमुपचक्रमे॥ १॥ सम्पातिर्नाम नाम्ना तु चिरजीवी विहङ्गमः। भ्राता जटायुषः श्रीमान् प्रख्यातबलपौरुषः॥ २॥ कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः। उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत्॥ ३॥ विधिः किल नरं लोके विधानेनानुवर्तते। यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः॥ ४॥ परम्पराणां भक्षिष्ये वानराणां मृतं मृतम्। उवाचेदं वचः पक्षी तान् निरीक्ष्य प्लवङ्गमान्॥ ५॥ तस्य तद् वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः। अङ्गदः परमायस्तो हनुमन्तमथाब्रवीत्॥ ६॥ पश्य सीतापदेशेन साक्षाद् वैवस्वतो यमः। इमं देशमनुप्राप्तो वानराणां विपत्तये॥ ७॥ रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम्। हरीणामियमज्ञाता विपत्तिः सहसागता॥ ८॥ वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा। गृध्रराजेन यत् तत्र श्रुतं वस्तदशेषतः॥ ९॥ तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि। प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम्॥ १०॥ अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः। तन तस्योपकारार्थं त्यजतात्मानमात्मना॥ ११॥ प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा। राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः॥ १२॥ कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम्। स सुखी गृध्रराजस्तु रावणेन हतो रणे। मुक्तश्च सुग्रीवभयाद् गतश्च परमां गतिम्॥ १३॥ जटायुषो विनाशेन राज्ञो दशरथस्य च। हरणेन च वैदेह्याः संशयं हरयो गताः॥ १४॥ रामलक्ष्मणयोर्वास अरण्ये सह सीतया। राघवस्य च बाणेन वालिनश्च तथा वधः॥ १५॥ रामकोपादशेषाणां रक्षसानां तथा वधः। कैकेय्या वरदानेन इदं च विकृतं कृतम्॥ १६॥ तदसुखमनुकीर्तितं वचो भुवि पतितांश्च समीक्ष्य वानरान्। भृशचकितमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराट्॥ १७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे संपातिप्रश्नो नाम षट्पञ्चाशः सर्गः ॥४-५६॥