home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

सप्तचत्वारिंशः सर्गः ॥४-४७॥

॥कपिसेनाप्रत्यागमनम्॥

[ पूर्वादिषु तिसृषु दिक्षु प्रविष्टानां वानराणां सनैराश्यं निवर्तनम् ]

दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः। व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा॥ १॥ सरांसि सरितः कक्षानाकाशं नगराणि च। नदीदुर्गांस्तथा शैलान्विचिन्वन्ति समन्ततः॥ २॥ सुग्रीवेण समादिष्ताः सर्वे वानरयूथपाः। तत्र देशान् विचिन्वन्ति सशैलवनकाननान्॥ ३॥ विचित्य दिवसं सर्वे सीताधिगमने धृताः। समायान्ति स्म मेदिन्यां निशाकालेषु वानराः॥ ४॥ सर्वर्तुकांश्च देशेषु वानराः सफलन् द्रुमान्। आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते॥ ५॥ तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः। कपिराजेन संगम्य निराशाः कपियूथपाः॥ ६॥ विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह। अदृष्ट्वा विनतः सीतामाजगाम महाबलः॥ ७॥ उत्तरां च दिशं सर्वा विविच्य स महाकपिः। आगतः सह सैन्येन वीरः शतवलिस्तदा॥ ८॥ सुषेणः पश्चिमामाशां विचित्य सह वानरैः। समेत्य मासे संपूर्णे तु सुग्रीवमुपचक्रमे॥ ९॥ तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च। आसीनं सह रामेण सुग्रीवमिदमब्रुवन्॥ १०॥ विचिताः पर्वताः सर्वे वनानि नगराणि च। निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये॥ ११॥ गुहाश्च विचिताः सर्वास्त्वया याः परिकीर्तिताः। विचिताश्च महागुल्मा लताविततसंतताः॥ १२॥ गहनेषु च देशेषु दुर्गेषु विषमेषु च। सत्त्वान्यतिप्रमाणानि विचितानि महन्ति च॥ १३॥ उदारसत्त्वाभिजनो महात्मा स मैथिलीं द्रश्यति वानरेन्द्र। दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान्॥ १४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे कपिसेनाप्रत्यागमनं नाम सप्तचत्वारिंशः सर्गः ॥४-४७॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध