home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

द्वाविंशः सर्गः॥५-२२॥

॥मासद्वयावधिकरणम्॥

[ रावणेन तस्याः कृते मासद्वयावधेः प्रदानं सीता- कर्तृकं तस्य भर्त्सनं रावणस्य तां निर्भर्त्स्य राक्षसीनां नियन्त्रणे संस्थाप्य स्त्रीभिः सह स्वभवने गमनम् ]

सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः। प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्॥ ०१॥ यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा। यथा यथा प्रियं वक्ता परिभूतस्तथा तथा॥ ०२॥ संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः। द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः॥ ०३॥ वामः कामो मनुष्याणां यस्मिन् किल निबध्यते। जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते॥ ०४॥ एतस्मात् कारणान्न त्वां घातयामि वरानने। वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम्॥ ०५॥ परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम्। तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः॥ ०६॥ एकमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः। क्रोधसंरम्भसम्युक्तः सीतामुत्तरमब्रवीत्॥ ०७॥ द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः। ततः शयनमारोह मम त्वं वरवर्णिनि॥ ०८॥ द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम्। मम त्वां प्रातराशार्थमालभन्ते महानसे॥ ०९॥ तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम्। देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः॥ १०॥ ओष्ठप्रकारैरपरा वक्त्रैर्नेत्रैस्तथापराः । सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा॥ ११॥ ताभिराश्वासिता सीता रावणं राक्षसाधिपम्। उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम्॥ १२॥ नूनं न ते जनः कश्चिदस्ति निःश्रेयसे स्थितः। निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात्॥ १३॥ मां हि धर्मात्मनः पत्‌नीं शचीमिव शचीपतेः। त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः॥ १४॥ राक्षसाधम रामस्य भार्याममिततेजसः। उक्तवानसि यत् पापं क्व गतस्तस्य मोक्ष्यसे॥ १५॥ यथा दृप्तश्च मातङ्गः शशश्च सहितौ वने। तथा द्विरदवद्रामस्त्वं नीच शशवत् स्मृतः॥ १६॥ स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे। चक्षुषोर्विषयं तस्य न तावदुपगच्छसि॥ १७॥ इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले। क्षितौ न पतिते कस्मान्मामनार्य निरीक्षतः॥ १८॥ तस्य धर्मात्मनः पत्‌नीं स्नुषां दशरथस्य च। कथं व्याहरतो मां ते न जिह्वा व्यवशीर्यते॥ १९॥ असंदेशात्तु रामस्य तपसश्चानुपालनात्। न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा॥ २०॥ नापहर्तुमहं शक्या तस्य रामस्य धीमतः। विधिस्तव वधार्थाय विहितो नात्र संशयः॥ २१॥ शूरेण धनदभ्रात्रा बलैः समुदितेन च। अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम्॥ २२॥ सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः। विवृत्य नयने क्रूरे जानकीमन्ववैक्षत॥ २३॥ नीलजीमूतसंकाशो महाभुजशिरोधरः। सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वाग्रलोचनः॥ २४॥ चलाग्रमुकुटप्रांशुश्चित्रमाल्यानुलेपनः। रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः॥ २५॥ श्रोणिसूत्रेण महता मेचकेन सुसंवृतः। अमृतोत्पादनद्धेन भुजगेनेव मन्दरः॥ २६॥ द्वाभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः। शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः॥ २७॥ तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः। रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः॥ २८॥ स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान्। श्मशानचैत्यप्रतिमो भूषितोऽपि भयङ्करः॥ २९॥ अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः। उवाच रावणः सीतां भुजङ्ग इव निःश्वसन्॥ ३०॥ अनयेनाभिसंपन्नमर्थहीनमनुव्रते। नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा॥ ३१॥ इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः॥ ३२॥ एकाक्षीमेककर्णां च कर्णप्रावरणां तथा। गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम्॥ ३३॥ हस्तिपाद्यश्वपाद्यौ च गोपादीं पादचूलिकाम्। एकाक्षीमेकपादीं च पृथुपादीमपादिकाम्॥ ३४॥ अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम्। अतिमात्रास्यनेत्रां च दीर्घजिह्वमजिह्विकाम्॥ ३५॥ अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्। यथा मद्वशगा सीता क्षिप्रं भवति जानकी॥ ३६॥ तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च। प्रतिलोमानुलोमैश्च सामदानादिभेदनैः॥ ३७॥ आवर्जयत वैदेहीं दण्डस्योद्यमनेन च। इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः॥ ३८॥ काममन्युपरीतात्मा जानकीं पर्यतर्जयत्। उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी॥ ३९॥ परिष्वज्य दशग्रीवमिदं वचनमब्रवीत्। मया क्रीड महाराज सीतया किं तवानया॥ ४०॥ विवर्णया कृपणया मानुष्या राक्षसेश्वर। नूनमस्या महाराज न दिव्यान् भोगसत्तमान्॥ ४१॥ विदधात्यमरश्रेष्ठस्तव बाहुबलार्जितान्। अकामां कामयानस्य शरीरमुपतप्यते॥ ४२॥ इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना। एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली॥ ४३॥ प्रहसन् मेघसंकाशो राक्षसः स न्यवर्तत। प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम्॥ ४४॥ ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम्। देवगन्धर्वकन्याश्च नागकन्याश्च सर्वतः॥ ४५॥ परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम्॥ स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः। विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम्॥ ४६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे मासद्वयावधिकरणं नाम द्वाविंशः सर्गः ॥५-२२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध