home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

अष्टमः सर्गः॥५-८॥

॥पुश्पकानुवर्णनम्॥

[ हनुमता पुनः पुष्पकस्य दर्शनम् ]

स तस्य मध्ये भवनस्य संस्थितं महद्विमानं बहुरत्‌नचित्रितम्। प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः॥ ०१॥ तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा। दिवं गतं वायुपथे प्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत्॥ ०२॥ न तत्र किंचिन्न कृतं प्रयत्‌नतो न तत्र किंचिन्न महार्हर त्‌नवत्। न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्न महाविशेषवत्॥ ०३॥ तपःसमाधानपराक्रमार्जितं मनःसमाधानविचारचारिणम्। अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम्॥ ०४॥ मनः समाधाय तु शीघ्रगामिनं दुरावरं मारुततुल्यगामिनम्। महात्मनां पुण्यकृतां महर्द्धिनां यशस्विनामग्र्यमुदामिवालयम्॥ ०५॥ विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम्। मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा॥ ०६॥ वहन्ति यं कुण्डलशोभितानना महाशना व्योमचरा निशाचराः। निवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः॥ ०७॥ वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम्। स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः॥ ०८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे पुष्पकानुवर्णनं नाम अष्टमः सर्गः ॥५-८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध