home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

चतुश्चत्वारिंशः सर्गः॥५-४४॥

॥जम्बुमालिवधः॥

[ प्रहस्तपुत्रस्य जम्बुमालिनो वधः ]

संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली। जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः॥ ०१॥ रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः। महान् विवृत्तनयनश्चण्डः समरदुर्जयः॥ ०२॥ धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम्। विस्फारयाणो वेगेन वज्राशनिसमस्वनम्॥ ०३॥ तस्य विस्फारघोषेण धनुषो महता दिशः। प्रदिशश्च नभश्चैव सहसा समपूर्यत॥ ०४॥ रथेन खरयुक्तेन तमागतमुदीक्ष्य सः। हनूमान् वेगसंपन्नो जहर्ष च ननाद च॥ ०५॥ तं तोरणविटङ्कस्थं हनूमन्तं महाकपिम्। जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः॥ ०६॥ अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना। बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम्॥ ०७॥ तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम्। शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना॥ ०८॥ तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम्। यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः॥ ०९॥ चुकोप बाणाभिहतो राक्षसस्य महाकपिः। ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम्॥ १०॥ तरसा तां समुत्पाट्य चिक्षेप बलवद्बली। तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः॥ ११॥ विपन्नं कर्म तद्दृष्ट्वा हनूमांश्चण्डविक्रमः। सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान्॥ १२॥ भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम्। चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः॥ १३॥ सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे। शिरस्येकेन बाणेन दशभिस्तु स्तनान्तरे॥ १४॥ स शरैः पूरिततनुः क्रोधेन महता वृतः। तमेव परिघं गृह्य भ्रामयामास वेगतः॥ १५॥ अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः। परिघं पातयामास जम्बुमालेर्महोरसि॥ १६॥ तस्य चैव शिरो नास्ति न बाहू न च जानुनी। न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः॥ १७॥ स हतस्तरसा तेन जम्बुमाली महाबलः। पपात निहतो भूमौ चूर्णिताङ्गविभूषणः॥ १८॥ जम्बुमालिं च निहतं किंकरांश्च महाबलान्। चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः॥ १९॥ स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले। अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचररेश्वरः॥ २०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे जवबुमालिवधो नाम चतुश्चत्वारिंशः सर्गः ॥५-४४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध