ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणां सुताः। निर्ययुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः॥ ०१॥ महाबलपरीवारा धनुष्मन्तो महाबलाः। कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः॥ ०२॥ हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः। तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः॥ ०३॥ तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः। विस्फारयन्तः संहृष्टास्तटित्वन्त इवाम्बुदाः॥ ०४॥ जनन्यस्तु ततस्तेषां विदित्वा किंकरान् हतान्। बभूवुः शोकसंभ्रान्ता: सबान्धवसुहृज्जनाः॥ ०५॥ ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः। अभिपेतुर्हनूमन्तं तोरणे समवस्थितम्॥ ०६॥ सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः। वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः॥ ०७॥ अवकीर्णस्ततस्ताभिर्हनुमाञ्शरवृष्टिभिः। अभवत् संवृताकारः शैलराडिव वृष्टिभिः॥ ०८॥ स शरान् मोघयामास तेषामाशुचरः कपिः। रथवेगं च वीराणां विचरन् विमलेऽम्बरे॥ ०९॥ स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते। धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे॥ १०॥ स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्। चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान्॥ ११॥ तलेनाभ्यहनत् कांश्चित् पद्भ्यां कांश्चित् परंतपः। मुष्टिनाभ्यहनत् कांश्चिन्नखैः कांश्चिद्व्यदारयत्॥ १२॥ प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः। केचित्तस्य निनादेन तत्रैव पतिता भुवि॥ १३॥ ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च। तत्सैन्यमगमत् सर्वं दिशो दश भयार्दितम्॥ १४॥ विनेदुर्विस्वरं नागा विपेतुर्भुवि वाजिनः। भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद्रथैः॥ १५॥ स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि। विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा॥ १६॥ स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः। युयुत्सुरन्यैः पुनरेव राक्षसैः तदेव वीरोऽभिजगाम तोरणम्॥ १७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे अमात्ययुत्रवधो नाम पञ्चचत्वारिंशः सर्गः ॥५-४५॥