home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

चत्वारिंशः सर्गः॥५-४०॥

॥हनूमत्प्रेषणम्॥

[ श्रीरामस्य कृते सीतया पुनः संदेशस्य दानं तामाश्वास्य हनुमत उत्तरदिशायां प्रस्थानम् ]

श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः। उवाचात्महितं वाक्यं सीता सुरसुतोपमा॥ ०१ त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर। अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा॥ ०२॥ यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः। संस्पृशेयं सकामाहं तथा कुरु दयां मयि॥ ०३॥ अभिज्ञानं च रामस्य दद्या हरिगणोत्तम। क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम्॥ ०४॥ मनः शिलायास्तिकलो गण्डपार्श्वे निवेशितः। त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि॥ ०५॥ स वीर्यवान् कथं सीतां हृतां समनुमन्यसे। वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः॥ ०६॥ एष चूडामणिर्दिव्यो मया सुपरिरक्षितः। एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ॥ ०७॥ एष निर्यातितः श्रीमान् मया ते वारिसंभवः। अतः परं न शक्ष्यामि जीवितुं शोकलालसा॥ ०८॥ असह्यानि च दुःखानि वाचश्च हृदयच्छिदः। राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम्॥ ०९॥ धारयिष्यामि मासं तु जीवितं शत्रुसूदन। मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज॥ १०॥ घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि। त्वां च श्रुत्वा विषज्जन्तं न जीवेयमहं क्षणम्॥ ११ वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम्। अथाब्रवीन्महातेजा हनुमान् मारुतात्मजः॥ १२॥ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे। रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते॥ १३॥ कथंचिद्भवती दृष्टा न कालः परिशोचितुम्। इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि॥ १४॥ तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ। त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः॥ १५॥ हत्वा तु समरे क्रूरं रावणं सहबान्धवम्। राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः॥ १६॥ यत्तु रामो विजानीयाद्भिज्ञानमनिन्दिते। प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि॥ १७॥ साब्रवीद्दत्तमेवेति मयाभिज्ञानमुत्तमम्। एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम्॥ १८॥ श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति। स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः॥ १९॥ प्रणम्य शिरसा देवीं गमनायोपचक्रमे। तमुत्पातकृतोत्साहमवेक्ष्य हरिपुंगवम्॥ २०॥ वर्धमानं महावेगमुवाच जनकात्मजा। अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा॥ २१ हनूमन् सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ। सुग्रीवं च सहामात्यं सर्वान् ब्रूया ह्यनामयम्॥ २२॥ यथा च स महाबाहुर्मां तारयति राघवः। अस्माद् दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि॥ २३॥ इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च। ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर॥ २४॥ स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः। अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम॥ २५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनूमत्प्रेषणं नाम चत्वारिंशः सर्गः ॥५-४०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध