तस्यास्तद्वचनं श्रुत्वा हनूमान् हरियूथपः। दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ॥ ०१॥ अहं रामस्य संदेशाद्देवि दूतस्तवागतः। वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ॥ ०२॥ यो ब्राह्मस्त्रं वेदांश्च वेद वेदविदां वरः। स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ॥ ०३॥ लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः। कृतवाञ्शोकसंतप्तः शिरसा तेऽभिवादनम् ॥ ०४॥ सा तयोः कुशलं देवी निशम्य नरसिंहयोः। प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥ ०५॥ कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा। एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ ०६॥ तया समागमे तस्मिन् प्रीतिरुत्पादिताद्भुता। परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥ ०७॥ तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः। सीतायाः शोकदीनायाः समीपमुपचक्रमे ॥ ०८॥ यथा यथा समीपं स हनुमानुपसर्पति। तथा तथा रावणं सा तं सीता परिशङ्कते ॥ ०९॥ अहो धिग्दुष्कृतमिदं कथितं हि यदस्य मे। रूपान्तरमुपागम्य स एवायं हि रावणः ॥ १०॥ तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता। तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥ ११॥ हनुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम्। अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ॥ १२॥ सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत। तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना ॥ १३॥ अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा। मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ॥ १४॥ उत्पादयसि मे भूयः संतापं तन्न शोभनम्। स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् ॥ १५॥ जनस्थाने मया दृष्टस्त्वं स एवासि रावणः। उपवासकृशां दीनां कामरूप निशाचर ॥ १६॥ संतापयसि मां भूयः संतप्तां तन्न शोभनम्। अथवा नैतदेवं हि यन्मया परिशङ्कितम् ॥ १७ मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्। यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ॥ १८॥ पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे। गुणान् रामस्य कथय प्रियस्य मम वानर ॥ १९॥ चित्तं हरसि मे सौम्य नदीकूलं यथा रयः। अहो स्वप्नस्य सुखता याहमेवं चिराहृता ॥ २०॥ प्रेषितं नाम पश्यामि राघवेण वनौकसम्। स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ॥ २१॥ पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी। नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ॥ २२॥ न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम। किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् ॥ २३॥ उन्मादजो विकारो वा स्यादियं मृगतृष्णिका। अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षण:॥ २४॥ संबुध्ये चाहमात्मानामिमं चापि वनौकसम्। इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ॥ २५॥ रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्। एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ॥ २६॥ न प्रतिव्याजहाराथ वानरं जनकात्मजा। सीतायाश्चिन्तितं बुद्ध्वा हनुमान् मारुतात्मजः ॥ २७ श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत्। आदित्य इव तेजस्वी लोककान्तः शशी यथा ॥ २८॥ राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा। विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ॥ २९॥ सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा। रूपवान् सुभगः श्रीमान् कंदर्प इव मूर्तिमान् ॥ ३०॥ स्थानक्रोध: प्रहर्ता च श्रेष्ठो लोके महारथः। बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ॥ ३१॥ अपकृष्याश्रमपदान्मृगरूपेण राघवम्। शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत् फलम् ॥ ३२॥ नचिराद्रावणं संख्ये यो वधिष्यति वीर्यवान्। रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ॥ ३३॥ तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः। त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् ॥ ३४॥ लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः। अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् ॥ ३५॥ रामस्य च सखा देवि सुग्रीवो नाम वानरः। राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥ ३६॥ नित्यं स्मरति ते रामः ससुग्रीवः सलक्ष्मणः। दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ॥ ३७ नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम्। मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ॥ ३८॥ अहं सुग्रीवसचिवो हनुमान्नाम वानरः। प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ॥ ३९॥ कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः। त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् ॥ ४०॥ नाहमस्मि तथा देवि यथा मामवगच्छसि। विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥ ४१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे रावणशङ्कानिवारणं नाम चतुस्त्रिंश: सर्गः ॥४-३४॥