home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

पञ्चत्रिंशः सर्गः॥३-३५॥

॥विश्वासोत्पादनम्॥

[ सीतया पृष्टेन हनुमता श्रीरामस्य शारीरिकलक्षणानां गुणानां च वर्णनं नरवानरमैत्रीप्रसङ्गं श्रावयित्वा सीताया मनसि स्वकीयविश्वासस्योत्पादनं च ]

तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात्। उवाच वचनं सौम्यमिदं मधुरया गिरा॥ ०१॥ क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्। वानराणां नराणां च कथमासीत् समागमः॥ ०२॥ यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर। तानि भूयः समाचक्ष्व न मां शोकः समाविशेत्॥ ०३॥ कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम्। कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे॥ ०४॥ एवमुक्तस्तु वैदेह्या हनूमान् पवनात्मज:। ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे॥ ०५॥ जानती बत दिष्ट्या मां वैदेहि परिपृच्छसि। भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च॥ ०६॥ यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै। लक्षितानि विशालाक्षि वदतः शृणु तानि मे॥ ०७॥ रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः। रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे॥ ०८॥ तेजसादित्यसंकाशः क्षमया पृथिवीसमः। बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः॥ ०९॥ रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता। रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः॥ १०॥ रामो भामिनि लोकेऽस्मिंश्चातुर्वर्ण्यस्य रक्षिता। मर्यादानां च लोकस्य कर्ता कारयिता च सः॥ ११॥ अर्चिष्मानर्चितो नित्यं ब्रह्मचर्यव्रते स्थितः। साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्॥ १२॥ राजविद्याविनीतश्च ब्राह्मणानामुपासिता। श्रुतवाञ्शीलसंपन्नो विनीतश्च परंतपः॥ १३॥ यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः। धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः॥ १४॥ विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः। गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः॥ १५॥ दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान्। समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः॥ १६॥ त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः। त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः॥ १७ त्रिवलीमांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान्। चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः॥ १८॥ चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्गतिः। महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान्॥ १९॥ दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान्। षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः॥ २०॥ सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः। देशकालविभागज्ञः सर्वलोकप्रियंवदः॥ २१॥ भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः। अनुरागेण रूपेण गुणैश्चैव तथाविधः॥ २२॥ तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ। विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसंगतौ ॥ २३॥ त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम्। ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ॥ २४॥ ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले। भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ॥ २५॥ वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम्। परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम् ॥ २६॥ ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ। ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ॥ २७ स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः। अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ॥ २८॥ ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः। तयोः समीपं मामेव प्रेषयामास सत्वरम् ॥ २९॥ तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू। रूपलक्षणसंपन्नौ कृताञ्जलिरुपस्थितः ॥ ३०॥ तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ। पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ ॥ ३१॥ निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने। तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ॥ ३२॥ तत्र तौ प्रीतिसंपन्नौ हरिश्वरनरेश्वरौ। परस्परकृताश्वासौ कथया पूर्ववृत्तया ॥ ३३॥ तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः। स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ॥ ३४॥ ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः। लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ॥ ३५॥ स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः। तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान् ॥ ३६॥ ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया। यान्याभरणजालानि पातितानि महीतले ॥ ३७ तानि सर्वाणि रामाय आनीय हरियूथपाः। संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ॥ ३८॥ तानि रामाय दत्तानि मयैवोपहृतानि च। स्वनवन्त्यवकीर्णानि तस्मिन् विगतचेतसि ॥ ३९॥ तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव। तेन देवप्रकाशेन देवेन परिदेवितम् ॥ ४०॥ पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः। प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ॥ ४१॥ शयितं च चिरं तेन दुःखार्तेन महात्मना। मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः ॥ ४२॥ तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः। राघवः सहसौमित्रिः सुग्रीवे संन्यवेशयत् ॥ ४३॥ स तवादर्शनादार्ये राघवः परितप्यते। महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥ ४४॥ त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम्। तापयन्ति महात्मानमग्न्यगारमिवाग्न्यः ॥ ४५॥ तवादर्शनशोकेन राघवः परिचाल्यते। महता भूमिकम्पेन महानिव शिलोच्चयः ॥ ४६॥ काानानि सुरम्याणि नदीः प्रस्रवणानि च। चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे ॥ ४७ स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः। समित्रबान्धवं हत्वा रावणं जनकात्मजे ॥ ४८॥ सहितौ रामसुग्रीवावुभावकुरुतां तदा। समयं वालिनं हन्तुं तव चान्वेषणं प्रति ॥ ४९॥ ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः। किष्किन्धां समुपागम्य वाली युधि निपातितः ॥ ५०॥ ततो निहत्य तरसा रामो वालिनमाहवे। सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम् ॥ ५१॥ रामसुग्रीवयोरैक्यं देव्येवं समजायत। हनूमन्तं च मां विद्धि तयोर्दूतमिहागतम् ॥ ५२॥ स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान्। त्वदर्थं प्रेषयामास दिशो दश महाबलान् ॥ ५३॥ आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा। अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥ ५४॥ ततस्तु मार्गमाणास्ते सुग्रीववचनानुगाः। चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ ५५॥ अङ्ग्दो नाम लक्ष्मीवान् वालिसूनुर्महाबलः। प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः ॥ ५६॥ तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे। भृशं शोकपरीतानामहोरात्रगणा गताः ॥ ५७॥ ते वयं कार्यनैराश्यात् कालस्यातिक्रमेण च। भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ॥ ५८॥ विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च। अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः ॥ ५९॥ ततस्तस्य गिरेर्मूर्ध्नि वयं प्रायमुपास्महे। दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुंगवान् ॥ ६०॥ भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः। तव नाशं च वैदेहि वालिनश्च तथा वधम् ॥ ६१॥ प्रायोपवेशमस्माकं मरणं च जटायुषः। तेषां नः स्वामिसंदेशान्निराशानां मुमूर्षताम् ॥ ६२॥ कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान्। गृध्रराजस्य सोदर्यः संपातिर्नाम गृध्रराट् ॥ ६३॥ श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत्। यवीयान् केन मे भ्राता हतः क्व च निपातितः ॥ ६४॥ एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः। अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम् ॥ ६५॥ रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम्। जटायुषो वधं श्रुत्वा दुःखितः सोऽरुणात्मजः ॥ ६६॥ त्वामाह स वरारोहे वसन्तीं रावणालये। तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम् ॥ ६७॥ अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम्। विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् ॥ ६८॥ त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः। अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः ॥ ६९॥ चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः। अथाहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः ॥ ७०॥ व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः। लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ॥ ७१॥ रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता। एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ॥ ७२॥ अभिभाषस्व मां देवि दूतो दाशरथेरहम्। तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ॥ ७३॥ सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम्। कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ॥ ७४॥ गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः। तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ॥ ७५॥ अहमेकस्तु संप्राप्तः सुग्रीववचनादिह। मयेयमसहायेन चरता कामरूपिणा ॥ ७६॥ दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा। दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ॥ ७७॥ अपनेष्यामि संतापं तवाधिगमशंसनात्। दिष्ट्या हि न मम न व्यर्थं देवि सागरलङ्घनम् ॥ ७८॥ प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः। राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ॥ ७९॥ समित्रबान्धवं हत्वा रावणं राक्षसाधिपम्। माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ॥ ८०॥ ततो गच्छति गोकर्णं पर्वतं केसरी हरिः। स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ॥ ८१॥ तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत्। तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ॥ ८२॥ हनूमानिति विख्यातो लोके स्वेनैव कर्मणा| विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ॥ ८३॥ अचिराद्राघवो देवि त्वामितो नयितानधे। एवं विश्वासिता सीता हेतुभिः शोककर्शिता ॥ ८४॥ उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति। अतुलं च गता हर्षं प्रहर्षेण च जानकी ॥ ८५॥ नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्। चारु तद्वचनं तस्यास्ताम्रशुक्लायतेक्षणम् ॥ ८६॥ अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्। हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ॥ ८७॥ अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम्। एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि ॥ ८८॥ किं करोमि कथं वा ते रोचते प्रतियाम्यहम्॥ हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात्। ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ॥ ८९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे विश्वाशोत्पादनं नाम पञ्चत्रिंशः सर्गः ॥५-३५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध