सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः। राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ ०१॥ स प्रणम्य च सुग्रीवं राघवौ च महाबलौ। वानरैः सहितः शूरैर्दिवमेवोत्पपात ह ॥ ०२॥ स यथैवागतः पूर्वं तथैव त्वरितं गतः। निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ॥ ०३॥ स प्रविष्टो मधुवनं ददर्श हरियूथपान्। विमदानुत्थितान् सर्वान् मेहमानान् मधुदकम् ॥ ०४॥ स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम्। उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ॥ ०५॥ सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः। अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ॥ ०६॥ युवराजस्त्वमिशश्च वनस्यास्य महाबल। मौर्ख्यात् पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति ॥ ०७॥ यथैव हि पिता तेऽभूत् पूर्वं हरिगणेश्वरः। तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम ॥ ०८॥ आख्यातं हि मया गत्वा पितृव्यस्य तवानघ। इहोपयानं सर्वेषामेतेषां वनचारिणाम् ॥ ०९॥ स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः। प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ॥ १०॥ प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः। शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ॥ ११॥ श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमङ्गदः। अब्रवीत् तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः ॥ १२॥ शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः। तत् क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः ॥ १३॥ पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः। किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ॥ १४॥ सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः। तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥ १५॥ नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि। अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ॥ १६॥ ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमव्ययम्। प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥ १७॥ एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभः। ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥ १८॥ तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्। संनतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥ १९॥ सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः। स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥ २०॥ त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात् पदम्। क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥ २१॥ एवं तु वदतां तेषामङ्गदः प्रत्यभाषत। बाढं गच्छाम इत्युक्त्वा उत्पपात महीतलात् ॥ २२॥ उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः। कृत्वाकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः ॥ २३॥ तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः। विनदन्तो महानादं घना वातेरिता यथा ॥ २४॥ अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः। उवाच शोकोपहतं रामं कमललोचनम् ॥ २५॥ समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः। नागन्तुमिह शक्यं तैरतीते समये हि नः ॥ २६॥ न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते। युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः ॥ २७॥ यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः। भवेत् स दीनवदनो भ्रान्तविप्लुतमानसः ॥ २८॥ पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम्। न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ॥ २९॥ कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत। दृष्टा देवी न सन्देहो न चान्येन हनूमता ॥ ३०॥ न ह्यन्यः कर्मणो हेतुः साधनेऽस्य हनूमतः। हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम ॥ ३१॥ व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम्। जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः ॥ ३२॥ हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा। मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ॥ ३३॥ ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे। हनूमत्कर्मदृप्तानां नर्दतां काननौकसाम् ॥ ३४॥ किष्किन्धामुपयातानां सिद्धिं कथयतामिव। ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ॥ ३५॥ आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः। आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः ॥ ३६॥ अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्। तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः ॥ ३७॥ निपेतुर्हरिराजस्य समीपे राघवस्य च । हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः ॥ ३८॥ नियतामक्षतां देवीं राघवाय न्यवेदयत्। निश्चितार्थस्ततस्तस्मिन् सुग्रीवः पवनात्मजे ॥ ३९॥ लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत। प्रीत्या च रममाणोऽथ राघवः परवीरहा ॥ ४०॥ बहुमानेन महता हनुमन्तमवैक्षत। ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनुमदाद्यागमनं नाम चतुःषष्टितमः सर्गः ॥५-६४॥