ततो मूर्ध्ना निपतितं वानरं वानरर्षभः। दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥ ०१॥ उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम। अभयं ते भयं वीर सर्वमेवाभिधीयताम् ॥ ०२॥ स तु विश्वासितस्तेन सुग्रीवेण महात्मना। उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥ ०३॥ नैवर्क्षरजसा राजन्न त्वया नापि वालिना। वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः ॥ ०४॥ एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः। मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च ॥ ०५॥ शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे। निवार्यमाणास्ते सर्वे भ्रुकुटिं दर्शयन्ति हि ॥ ०६॥ इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः। वारयन्तो वनात्तस्मात् क्रुद्धैर्वानरपुङ्गवैः ॥ ०७॥ ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभ। संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ॥ ०८॥ पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः। प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ॥ ०९॥ एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि। कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ॥ १०॥ एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम्। अपृच्छत् तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥ ११॥ किमयं वानरो राजन् वनपः प्रत्युपस्थितः। कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥ १२॥ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना। लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ १३॥ आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः ॥ १४॥ विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः । नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ॥ १५॥ आगतैश्च प्रमथितं यथा मधुवनं हि तैः। धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ॥ १६॥ वनं यदभिपन्नं तैः साधितं कर्म वानरैः। दृष्टा देवी न सन्देहो न चान्येन हनूमता ॥ १७॥ न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः। कार्यसिद्धिर्मतिश्चैव तस्मिन् वानरपुङ्गवे ॥ १८॥ व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम्। जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः ॥ १९॥ हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा। अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ॥ २०॥ वारयन्तश्च सहितास्तथा जानुभिराहताः। एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ॥ २१॥ नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः। दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ॥ २२॥ अभिगम्य यथा सर्वे पिबन्ति मधु वानराः। न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ॥ २३॥ वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः। ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः ॥ २४॥ श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् । प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ॥ २५॥ श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च । वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ॥ २६॥ प्रीतोऽस्मि सोऽहं यद् भुक्तं वनं तैः कृतकर्मभिः। मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ॥ २७॥ इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान् मृगराजदर्पान्। द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ॥ २८॥ प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा। अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा। बाह्वोरासन्नां सोऽतिमात्रं ननन्द ॥ २९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे सुग्रीवहर्षो नाम त्रिषष्टितमः सर्गः ॥५-६३॥