सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता। सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ॥ ०१॥ सा राक्षसीमध्यगता च भीरु र्वाग्भिर्भृशं रावणतर्जिता च। कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ॥ ०२॥ सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः। यत्राहमेवं परिभर्त्स्यमाना जीवामि किंचित् क्षणमप्यपुण्या ॥ ०३॥ सुखाद्विहीनं बहुदुःखपूर्णं इदं तु नूनं हृदयं स्थिरं मे। विदीर्यते यन्न सहस्रधाद्य वज्राहतं शृङ्गमिवाचलस्य ॥ ०४॥ नैवास्ति दोषो मम नूनमत्र वध्याहमस्याप्रियदर्शनस्य। भावं न चास्याहमनुप्रदातुं अलं द्विजो मन्त्रमिवाद्विजाय ॥ ०५॥ नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः। तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः ॥ ०६॥ दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ। बद्धस्य वध्यस्य तथा निशान्ते राजोपरोधादिव तस्करस्य ॥ ०७॥ हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या। एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता ॥ ०८॥ तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ। नूनं विशस्तौ मम कारणात्तौ सिंहर्षभौ द्वाविव वैद्युतेन ॥ ०९॥ नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम्। यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ॥ १०॥ हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्त्र। हा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम् ॥ ११॥ अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे। पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम् ॥ १२॥ मोघो हि धर्मश्चरितो मयायं तथैकपत्नीत्वमिदं निरर्थम्। या त्वां न पश्यामि कृशा विवर्णा हीना त्वया संगमने निराशा ॥ १३॥ पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च। स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः त्वं रंस्यसे वीतभयः कृतार्थः ॥ १४॥ अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा। मोघं चरित्वाथ तपोव्रतं च त्यक्ष्यामि धिग्जीवितमल्पभाग्या ॥ १५॥ सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि। विषस्य दाता न हि मेऽस्ति कश्चिच्छ- स्त्रस्य वा वेश्मनि राक्षसस्य ॥ १६॥ इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती। प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद ॥ १७॥ शोकाभितप्ता बहुधा विचिन्त्य सीताथ वेण्युद्ग्रथनं गृहीत्वा। उद्बध्य वेण्युद्ग्रथनेन शीघ्रं अहं गमिष्यामि यमस्य मूलम् ॥ १८॥ उपस्थिता सा मृदुसर्वगात्री शाखां गृहीत्वाथ नगस्य तस्य। तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाङ्ग्याः ॥ १९॥ शोकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके। प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि ॥ २०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे उद्बन्धनव्यव्सायो नाम अष्टाविंशः सर्गः ॥५-२८॥