home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

अष्टपञ्चाशः सर्गः॥५-५८॥

॥हनूमद्वृत्तानुकथनम्॥

[ जाम्बवता पृष्टेन हनुमता स्वकीयलङ्कायात्रा- सम्बन्धिसम्पूर्णवृत्तस्य श्रावणम् ]

ततस्तस्त्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः। हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्॥ ०१॥ तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम्। जाम्बवान् कार्यवृत्तान्तमपृच्छदनिलात्मजम्॥ ०२॥ कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते। तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः॥ ०३॥ तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे। संमार्गिता कथं देवी किं च सा प्रत्यभाषत॥ ०४॥ श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम्। यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान्॥ ०५॥ रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः। स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः॥ ०६॥ प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत। प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः॥ ०७॥ उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः। गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत्॥ ०८॥ काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्। स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम्॥ ०९॥ उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम्। कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च॥ १०॥ प्रहतं च मया तस्य लाङ्गूलेन महागिरेः। शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा॥ ११॥ व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः। पुत्रेति मधुरां बाणीं मनः प्रह्लादयन्निव॥ १२॥ पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः। मैनाकमिति विख्यातं निवसन्तं महोदधौ॥ १३॥ पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः। छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः॥ १४॥ श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः। चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः॥ १५॥ अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना। मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे॥ १६॥ रामस्य च मया साह्ये वर्तितव्यमरिन्दम। रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः॥ १७॥ एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः। कार्यमावेद्य तु गिरेरुद्यतं च मनो मम॥ १८॥ तेन चाहमनुज्ञातो मैनाकेन महात्मना। स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता॥ १९॥ शरीरेण महाशैलः शैलेन च महोदधौ। उत्तमं जवमास्थाय शेषं पन्थानमास्थितः॥ २०॥ ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि। ततः पश्याम्यहं देवीं सुरसां नागमातरम्॥ २१॥ समुद्रमध्ये सा देवी वचनं मामभाषत। मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम॥ २२॥ अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे। एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः॥ २३॥ विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयन्। रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्॥ २४॥ लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः। तस्य सीता हृता भार्या रावणेन दुरात्मना॥ २५॥ तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्। कर्तुमर्हसि रामस्य साहाय्यं विषये सति॥ २६॥ अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्। आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते॥ २७॥ एवमुक्ता मया सा तु सुरसा कामरूपिणी। अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम॥ २८॥ एवमुक्तः सुरसया दशयोजनमायतः। ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु॥ २९॥ मत्प्रमाणाधिकं चैव व्यादितं तु मुखं तया। तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः॥ ३०॥ तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः। अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात्॥ ३१॥ अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः। अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्॥ ३२॥ समानय च वैदेहीं राघवेण महात्मना। सुखी भव महाबाहो प्रीतास्मि तव वानर॥ ३३॥ ततोऽहं साधु साध्विति सर्वभूतैः प्रशंसितः। ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा॥ ३४॥ छाया मे निगृहीता च न च पश्यामि किञ्चन। सोऽहं विगतवेगस्तु दिशो दश विलोकयन्॥ ३५॥ न किञ्चित् तत्र पश्यामि येन मेऽपहृता गतिः। ततो मे बुद्धिरुत्पन्ना किं नाम गमने मम॥ ३६॥ ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते। अधोभागेन मे दृष्टिः शोचता पातिता मया॥ ३७॥ ततोऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम्। प्रहस्य च महानाद मुक्तोऽहं भीमया तया॥ ३८॥ अवस्थितमसंभ्रान्तमिदं वाक्यमशोभनम्। क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः॥ ३९॥ भक्षः प्रीणय मे देहं चिरमाहारवर्जितम्। बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः॥ ४०॥ आस्यप्रमाणादधिकं तस्याः कायमपूरयम्। तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे॥ ४१॥ न च मां सा तु बुबुधे मम वा विकृतं कृतम्। ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्॥ ४२॥ तस्या हृदयमादाय प्रपतामि नभःस्थलम्। सा विसृष्टभुजा भीमा पपात लवणाम्भसि॥ ४३॥ मया पर्वतसंकाशा निकृत्तहृदया सती। शृणोमि खगतानां च सिद्धानां चारणैः सह॥ ४४॥ राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता। तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन्॥ ४५॥ गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम्। दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी॥ ४६॥ अस्तं दिनकरे याते रक्षसां निलयं पुरम्। प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः॥ ४७॥ तत्र प्रविशतश्चापि कल्पान्तघनसंनिभा। अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः॥ ४८॥ जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम्। सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम्॥ ४९॥ प्रदोषकाले प्रविशं भीतयाहं तयोदितः। अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते॥ ५०॥ यस्मात्तस्माद्विजेतासि सर्वरक्षांस्यशेषतः। तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम्॥ ५१॥ रावणान्तःपुरगतो न चापश्यं सुमध्यमाम्। ततः सीतामपश्यंस्तु रावणस्य निवेशने॥ ५२॥ शोकसागरमासाद्य न पारमुपलक्षये। शोचता च मया दृष्टं प्राकारेण समावृतम्॥ ५३॥ काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम्। सप्राकारमवप्लुत्य पश्यामि बहुपादपम्॥ ५४॥ अशोकवनिकामध्ये शिंशपापादपो महान्। तमारुह्य च पश्यामि काञ्चनं कदलीवनम्॥ ५५॥ अदूरे शिंशपावृक्षात् पश्यामि वरवर्णिनीम्। श्यामां कमलपत्राक्षीमुपवासकृशाननाम्॥ ५६॥ तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम्। शोकसंतापदीनाङ्गीं सीतां भर्तृहिते स्थिताम्॥ ५७॥ राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम्। मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव॥ ५८॥ सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्महुः। एकवेणीधरा दीना भर्तृचिन्तापरायणा॥ ५९॥ भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे। रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया॥ ६०॥ कथंचिन्मृगशाबाक्षी तूर्णमासादिता मया। तां दृष्ट्वा तादृशीं नारीं रामपत्‌नीं यशस्विनीम्॥ ६१॥ तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः। ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्॥ ६२॥ शृणोम्यधिकगम्भीरं रावणस्य निवेशने। ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरन्॥ ६३॥ अहं तु शिंशपावृक्षे पक्षीव गहने स्थितः। ततो रावणदाराश्च रावणश्च महाबलः॥ ६४॥ तं देशं समनुप्राप्ता यत्र सीताभवत् स्थिता। तद्दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम्॥ ६५॥ संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च। वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः॥ ६६॥ त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम्। तामुवाच दशग्रीवः सीतां परमदुःखिताम्॥ ६७॥ अवाक्शिराः प्रपतितो बहु मन्यस्व भामिनि। यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते॥ ६८॥ द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव। एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः॥ ६९॥ उवाच परमक्रुद्धा सीता वचनमुत्तमम्। राक्षसाधम रामस्य भार्याममिततेजसः॥ ७०॥ इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च। अवाच्यं वदतो जिह्वा कथं न पतिता तव॥ ७१॥ किंस्विद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ। अपहृत्यागतः पाप तेनादृष्टो महात्मना॥ ७२॥ न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे। अजेयः सत्यवादी च रणश्लाघी च राघवः॥ ७३॥ जानक्या परुषं वाक्यमेवमुक्तो दशाननः। जज्वाल सहसा कोपाच्चितास्थ इव पावकः॥ ७४॥ विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम्। मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा॥ ७५॥ स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः। वरा मन्दोदरी नाम तया स प्रतिषेधितः॥ ७६॥ उक्तश्च मधुरां वाणीं तया स मदनार्दितः। सीतया तव किं कार्यं महेन्द्रसमविक्रम॥ ७७॥ देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च। सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि॥ ७८॥ ततस्ताभिः समेताभिर्नारीभिः स महाबलः। प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः॥ ७९॥ याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः। सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः॥ ८०॥ तृणवद्भाषितं तासां गणयामास जानकी। तर्जितं च तदा तासां सीतां प्राप्य निरर्थकम्॥ ८१॥ वृथा गर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः। रावणाय शशंसुस्ताः सीताव्यवसितं महत्॥ ८२॥ ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः। परिक्षिप्य समन्तात्तां निद्रावशमुपागताः॥ ८३॥ तासु चैव प्रसुप्तासु सीता भर्तृहिते रता। विलप्य करुणं दीना प्रशुशोच सुदुःखिता॥ ८४॥ तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत्। आत्मानं खादत क्षिप्रं न सीता विनशिष्यति॥ ८५॥ जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च । स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः॥ ८६॥ रक्षसां च विनाशाय भर्तुरस्या जयाय च। अलमस्मान् परित्रातुं राघवाद्रक्षसीगणम्॥ ८७॥ अभियाचाम वैदेहीमेतद्धि मम रोचते। तस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते॥ ८८॥ सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम्। प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा॥ ८९॥ ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता। अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः॥ ९०॥ तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्। चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः॥ ९१॥ संभाषणार्थे च मया जानक्याश्चिन्तितो विधिः। इक्ष्वाकूणां हि वंशस्तु ततो मम पुरस्कृतः॥ ९२॥ श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम्। प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना॥ ९३॥ कस्त्वं केन कथं चेह प्राप्तो वानरपुंगव। का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि॥ ९४॥ तस्यास्तद्वचनं श्रुत्वा ह्य्मप्यब्रवं वचः। देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः॥ ९५॥ सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः। तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम्॥ ९६॥ भर्त्राहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा। इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्॥ ९७॥ अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि। तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम्॥ ९८॥ रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम्। एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी॥ ९९॥ आह रावणमुत्साद्य राघवो मां नयत्विति। प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम्॥ १००॥ राघवस्य मनोह्लादमभिज्ञानमयाचिषम्। अथ मामब्रवीत् सीता गृह्यतामयमुत्तम:॥ १०१॥ मणिर्येन महाबाहू रामस्त्वां बहु मन्यते। इत्युक्त्वा तु वरारोहा मणिप्रवरमद्भुतम्॥ १०२॥ प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह। ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः॥ १०३॥ प्रदक्षिणं परिक्रामन्निहाभ्युद्गतमानसः। उक्तोऽहं पुनरेवेदं निश्चित्य मनसा तया॥ १०४॥ हनूमन् मम वृत्तान्तं वक्तुमर्हसि राघवे। यथा श्रुत्वैव न चिरात्तावुभौ रामलक्ष्मणौ॥ १०५॥ सुग्रीवसहितौ वीरावुपेयातां तथा कुरु। यद्यन्यथा भवेदेतद् द्वौ मासौ जीवितं मम॥ १०६॥ न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमानाथवत्। तचछ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत॥ १०७॥ उत्तरं च मया दृष्टं कार्यशेषमनन्तरम्। ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः॥ १०८॥ युद्धकाङ्क्षि वनं तच्च विनाशयितुमारभे। तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम्॥ १०९॥ प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः। मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः॥ ११०॥ ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे । राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना॥ १११॥ वानरेण ह्यविज्ञाय तव वीर्यं महाबल। दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः॥ ११२॥ वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत्। तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः॥ ११३॥ राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः। तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम्॥ ११४॥ मया तस्मिन् वनोद्देशे परिघेण निषूदितम्। तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः॥ ११५॥ निहतं च महत् सैन्यं रावणायाचचक्षिरे। ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम्॥ ११६॥ तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः। ललामभूतो लङ्कायाः स च विध्वंसितो मया॥ ११७॥ ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत्। राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः॥ ११८॥ तमहं बलसंपन्नं राक्षसं रणकोविदम्। परिघेणातिघोरेण सूदयामि सहानुगम्॥ ११९॥ तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान्। पदातिबलसंपन्नान् प्रेषयामास रावणः॥ १२०॥ परिघेणैव तान् सर्वान्नयामि यमसादनम्। मन्त्रिपुत्रान् हताञ्श्रुत्वा समरे लघुविक्रमान्॥ १२१॥ पञ्च सेनाग्रगाञ्शूरान् प्रेषयामास रावणः। तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम्॥ १२२ ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम्। बहुभी राक्षसैः सार्धं प्रेषयामास रावणः॥ १२३॥ तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् । सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान्॥ १२४॥ तमासीनं शतगुणं भ्रामयित्वा व्यपेषयम्। तमक्षमागतं भग्नं निशम्य स दशाननः॥ १२५॥ तत इन्द्रजितं नाम द्वितीयं रावणः सुतम्। व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम्॥ १२६॥ तच्चाप्यहं बलं सर्वं तं च राक्षसपुंगवम्। नष्टौजसं रणे कृत्वा परं हर्षमुपागमम्॥ १२७॥ महता हि महाबाहुः प्रत्ययेन महाबलः। प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः॥ १२८॥ सोऽविषह्यं हि मां बुद्ध्वा स्वसैन्यं चावमर्दितम् । ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगतः॥ १२९॥ रज्जूभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः। रावणस्य समीपं च गृहीत्वा मामुपानयन्॥ १३० दृष्ट्वा संभाषितश्चाहं रावणेन दुरात्मना। पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम्॥ १३१॥ तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम्। तस्यास्तु दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो॥ १३२॥ मारुतस्यौरसः पुत्रो वानरो हनुमानहम्। रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम्॥ १३३॥ सोऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः । सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत्॥ १३४॥ धर्मार्थकामसहितं हितं पथ्यमुवाच च। वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे॥ १३५॥ राघवो रणविक्रान्तो मित्रत्वं समुपागतः। तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता॥ १३६॥ तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया। मया च कथितं तस्मै वालिनश्च वधं प्रति॥ १३७॥ तत्र साहय्यहेतोर्मे समयं कर्तुमर्हसि। वालिना हृतराज्येन सुग्रीवेण सह प्रभुः॥ १३८॥ चक्रेऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः । तेन वालिनमुत्पाट्य शरेणैकेन संयुगे॥ १३९॥ वानराणां महाराजः कृतः स प्लवतां प्रभुः। तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह॥ १४०॥ तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः। क्षिप्रमानीयतां सीता दीयतां राघवाय च॥ १४१॥ यावन्न हरयो वीरा विधमन्ति बलं तव। वानराणां प्रभवो हि न केन विदितः पुरा॥ १४२॥ देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः । इति वानरराजस्त्वामाहेत्यभिहितो मया॥ १४३॥ मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव। तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा॥ १४४॥ मत्प्रभावमविज्ञाय रावणेन दुरात्मना। ततो विभीषणो नाम तस्य भ्राता महामतिः॥ १४५॥ तेन राक्षसराजोऽसौ याचितो मम कारणात्। नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः॥ १४६॥ राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया। दूत वध्या न दृष्टा हि राजशास्त्रेषु राक्षस॥ १४७॥ दूतेन वेदितव्यं च यथार्थं हितवादिना। सुमहत्यपराधेऽपि दूतस्यातुलविक्रम॥ १४८॥ विरूपकरणं दृष्टं न वधोऽस्तीह शास्त्रतः । विभीषणेनैवमुक्तो रावणः संदिदेश तान्॥ १४९॥ राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति । ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः॥ १५०॥ वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः। राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः॥ १५१॥ तदादहन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः। बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः॥ १५२॥ न मे पीडा भवेत् काचिद्दिदृक्षोर्नगरीं दिवा। ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम्॥ १५३॥ अघोषयन् राजमार्गे नगरद्वारमागताः। ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः॥ १५४॥ विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः। आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्॥ १५५॥ ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम्। पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्॥ १५६॥ दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः। विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते॥ १५७॥ लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी । दहता च मया लङ्कां दग्धा सीता न संशयः॥ १५८॥ रामस्य हि महत् कार्यं मयेदं वितथीकृतम्। इति शोकसमाविष्टश्चिन्तामहमुपागतः॥ १५९॥ अथाहं वाचमश्रौषं चारणानां शुभाक्षराम्। जानकी न च दग्धेति विस्मयोदन्तभाषिणाम्॥ १६०॥ ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम्। अदग्धा जानकीत्येव निमित्तैश्चोपलक्षिता॥ १६१॥ दीप्यमाने तु लाङ्गूले न मां दहति पावकः। हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः॥ १६२॥ तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः। ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः॥ १६३॥ पुनर्दृष्टा च वैदेही विसृष्टश्च तया पुनः। ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः॥ १६४॥ प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया। ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम्॥ १६५॥ पन्थानमहमाक्रम्य भवतो दृष्टवानिह। राघवस्य प्रभावेण भवतां चैव तेजसा॥ १६६॥ सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम्। एतत् सर्वं मया तत्र यथावदुपपादितम्॥ १६७॥ अत्र यन्न कृतं शेषं तत् सर्वं क्रियतामिति। ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनूमद्वृत्तानुकथनं नाम अष्टपञ्चाशः सर्गः॥५-५८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध