home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

सप्तषष्टितमः सर्गः॥५-६७॥

॥सीताभाषितानुवचनम्॥

[ हनुमता श्रीरामं प्रति सीतासंदेशस्य श्रावणम् ]

एवमुक्तस्तु हनुमान् राघवेण महात्मना। सीताया भाषितं सर्वं न्यवेदयत राघवे ॥ ०१॥ इदमुक्तवती देवी जानकी पुरुषर्षभ। पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ॥ ०२॥ सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता। वायसः सहसोत्पत्य विददार स्तनान्तरे ॥ ०३॥ पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज। पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ॥ ०४॥ पुनः पुनरुपागम्य विरराद भृशं किल। ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ॥ ०५॥ वायसेन च तेनैवं सततं बाध्यमानया । बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ॥ ०६॥ तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे। आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ॥ ०७॥ नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम्। कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ ०८॥ निरीक्षमाणः सहसा वायसं समवैक्षथाः । नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ॥ ०९॥ सुतः किल स शक्रस्य वायसः पततां वरः। धरान्तरचरः शीघ्रं पवनस्य गतौ समः ॥ १०॥ ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः। वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर ॥ ११॥ स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण ह्ययोजयः। स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ॥ १२॥ क्षिप्तवांस्त्वं प्रदीप्तं दर्भं तं वायसं प्रति। ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह ॥ १३॥ स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः। त्रील्ँलोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति ॥ १४॥ पुनरेवागतस्त्रस्तस्त्वत्सकाशमरिन्दम। स तं निपतितं भूमौ शरण्यः शरणागतम् ॥ १५॥ वधार्हमपि काकुत्स्थ कृपया पर्यपालयः । मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ॥ १६॥ भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् । राम त्वां स नमस्कृत्य राज्ञे दशरथाय च ॥ १७॥ विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम्। एवमस्त्रविदां श्रेष्ठः सत्त्ववान् शीलवानपि ॥ १८॥ किमर्थमस्त्रं रक्षःसु न योजयसि राघवः। न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ॥ १९॥ न च सर्वे रणे शक्ता रामं प्रति समासितुम्। तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः ॥ २०॥ क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः । भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः ॥ २१॥ स किमर्थं नरवरो न मां रक्षति राघवः। शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ॥ २२॥ सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः। ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ॥ २३॥ समर्थौवपि तौ यन्मां नावेक्षेते परन्तपौ। वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् ॥ २४॥ पुनरप्यहमार्यां तामिदं वचनमब्रुवम्। त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ॥ २५॥ रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते। कथञ्चिद्भवती दृष्टा न कालः परिशोचितुम् ॥ २६॥ इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि। तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ ॥ २७॥ त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः। हत्वा च समरे रौद्रं रावणं सहबान्धवम् ॥ २८॥ राघवस्त्वां वरारोहे स्वां पुरीं नयिता ध्रुवम्। यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ॥ २९॥ प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि। साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ॥ ३०॥ मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल। प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह ॥ ३१॥ शिरसा तां प्रणम्यार्यामहमागमने त्वरे। गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ॥ ३२॥ विवर्धमानं च हि मामुवाच जनकात्मजा। अश्रुपूर्णमुखी दीना बाष्पसंदिग्धभाषिणी ॥ ३३॥ ममोत्पतनसंभ्रान्ता शोकवेगसमाहता। हनुमन् सिंहसंकाशौ तावुभौ रामलक्ष्मणौ ॥ ३४॥ सुग्रीवं च सहामात्यं सर्वान् ब्रूया ह्यनामयम्। मामुवाच ततः सीता सभाग्योऽसि महाकपे ॥ ३५॥ यद्द्रक्ष्यसि महाबाहुं रामं कमललोचनम्। लक्ष्मणं च महाबाहुं देवरं मे यशस्विनम् ॥ ३६॥ सीतयाप्येवमुक्तोऽहमब्रवं मैथिलीं तथा। पृष्ठमारोह मे देवि क्षिप्रं जनकनन्दिनि ॥ ३७॥ यावत्ते दर्शयाम्यद्य ससुग्रीवं सलक्ष्मणम्। राघवं च महाभागे भर्तारमसितेक्षणे ॥ ३८॥ साब्रवीन्मां ततो देवी नैष धर्मो महाकपे । यत्ते पृष्टं सिषेवेऽहं स्ववशा हरिपुङ्गव ॥ ३९॥ पुरा च यदहं वीर स्पृष्टा गात्रेषु रक्षसा। तत्राहं किं करिष्यामि कालेनोपनिपीडिता ॥ ४०॥ गच्छ त्वं कपिशार्दूल यत्र तौ नृपतैः सुतौ । इत्येवं सा समाभाष्य भूयः सन्देष्टुमास्थिता ॥ ४१॥ यथा च स महाबाहुर्मां तारयति राघवः। अस्माद् दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥ ४२॥ इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च। ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ॥ ४३॥ एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम्। एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ॥ ४४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे सीताभाषितानुवचनं नाम सप्तषष्टितमः सर्गः ॥५-६७॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध