रामः संप्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम्। सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत्॥ १॥ ममायं नूनमर्थेषु यतमानो विहङ्गमः। राक्षसेन हतः संख्ये प्राणांस्त्यजति दुस्त्यजान्॥ २॥ अतिखिन्नः शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते। तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते॥ ३॥ जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः। सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः॥ ४॥ किंनिमित्तोऽहरत् सीतां रावणस्तस्य किं मया। अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया॥ ५॥ कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम्। सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम॥ ६॥ कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः। क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः॥ ७॥ तमुद्वीक्ष्य स धर्मात्मा विलपन्तमनाथवत्। वाचा विक्लवया रामं जटायुरिदमब्रवीत्॥ ८॥ हृता सा राक्षसेन्द्रेण रावणेन दुरात्मना। मायामास्थाय विपुलां वातदुर्दिनसंकुलाम्॥ ९॥ परिश्रान्तस्य मे तात पक्षौ छित्त्वा स राक्षसः। सीतामादाय वैदेहीं प्रयातो दक्षिणां दिशम्॥ १०॥ उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव। पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान्॥ ११॥ येन याति मुहूर्तेन सीतामादाय रावणः। विप्रनष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते॥ १२॥ विन्दो नाम मुहूर्तोऽसौ न च काकुत्स्थ नाबुधत् । त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः॥ १३॥ झषवद् बडिशं गृह्य क्षिप्रमेव विनश्यति। न च त्वया व्यथा कार्या जनकस्य सुतां प्रति॥ १४॥ वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे। असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः॥ १५॥ आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम्। पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च॥ १६॥ इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः। ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः॥ १७॥ त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम्। स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा॥ १८॥ विक्षिप्य च शरीरं स्वं पपात धरणीतले तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्॥ १९॥ रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत्। बहूनि रक्षसां वासे वर्षाणि वसता सुखम्॥ २०॥ अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा। अनेकवार्षिको यस्तु चिरकालसमुत्थितः॥ २१॥ सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः। पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे॥ २२॥ सीतामभ्यवपन्नो वै रावणेन बलीयसा। गृध्रराज्यं परित्यज्य पितृपैतामहं महत्॥ २३॥ मम हेतोरयं प्राणान् मुमोच पतगेश्वरः। सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः॥ २४॥ शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि। सीताहरणजं दुःखं न मे सौम्य तथागतम्॥ २५॥ यथा विनाशे गृध्रस्य मत्कृते च परंतप। राजा दशरथः श्रीमान् यथा मम महायशाः॥ २६॥ पूजनीयश्च मान्यश्च तथायं पतगेश्वरः। सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्॥ २७॥ गृध्रराजं दिधक्षामि मत्कृते निधनं गतम्। नाथं पतगलोकस्य चितिमारोपयाम्यहम्॥ २८॥ इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा। या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः॥ २९॥ अपरावर्तिनां या च या च भूमिप्रदायिनाम्। मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्॥ ३०॥ गृध्रराज महासत्त्व संस्कृतश्च मया व्रज। एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम्॥ ३१॥ ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः। रामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान्॥ ३२॥ स्थूलान् हत्वा महारोहीननु तस्तार तं द्विजम्। रोहिमांसानि चोत्कृत्य पेशीकृत्वा महायशाः॥ ३३॥ शकुनाय ददौ रामो रम्ये हरितशाद्वले। यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः॥ ३४॥ तत् स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह। ततो गोदावरीं गत्वा नदीं नरवरात्मजौ॥ ३५॥ उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ। शास्त्रदृष्टेन विधिना जलं गृध्राय राघवौ। स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा॥ ३६॥ स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः। महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम्॥ ३७॥ कृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः। प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ॥ ३८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे जटायुस्संकारो नाम अष्टषष्ठितमः सर्गः ॥३-६८॥