सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यवचिन्वती। हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम्॥ १॥ प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी। भर्तारमपिचक्रन्द लक्ष्मणं चापि सायुधम्॥ २॥ तावाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ। वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम्॥ ३॥ शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत्। तमेवैनमहं मन्ये मारीचं राक्षसं मृगम्॥ ४॥ चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने। अनेन निहता राम राजानः कामरूपिणा॥ ५॥ अस्य मायाविदो मायामृगरूपमिदं कृतम्। भानुमत् पुरुषव्याघ्र गन्धर्वपुरसंनिभम्॥ ६॥ मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव। जगत्यां जगतीनाथ मायैषा हि न संशयः॥ ७॥ एवं ब्रुवाणं सौमित्रिं प्रतिवार्य शुचिस्मिता। उवाच सीता संहृष्टा चर्मणा हृतचेतना॥ ८॥ आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः। आनयैनं महाबाहो क्रीडार्थं नो भविष्यति॥ ९॥ इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः। मृगाश्चरन्ति सहिताः सृमराश्चमरास्तथा॥ १०॥ ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा। विहरन्ति महाबाहो रूपश्रेष्ठा मनोहराः॥ ११॥ न चान्यः सदृशो राजन् दृष्टपूर्वो मृगः पुरा। तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः॥ १२॥ नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः। द्योतयन् वनमव्यग्रं शोभते शशिसंनिभः॥ १३॥ अहो रूपमहो लक्ष्मीः स्वरसम्पच्च शोभना। मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे॥ १४॥ यदि ग्रहणमभ्येति जीवन् नेव मृगस्तव। आश्चर्यभूतं भवति विस्मयं जनयिष्यति॥ १५॥ समाप्तवनवासानां राज्यस्थानां च नः पुनः। अन्तःपुरविभूषार्थो मृग एष भविष्यति॥ १६॥ भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो। मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति॥ १७॥ जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः। अजिनं नरशार्दूल रुचिरं मे भविष्यति॥ १८॥ निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि। शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम्॥ १९॥ कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम्। वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम॥ २०॥ तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा। तरुणादित्यवर्णेन नक्षत्रपथवर्चसा॥ २१॥ एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम्। बभूव राघवस्यापि मनो विस्मयमागतम्॥ २२॥ लोभितस्तेन रूपेण सीतया च प्रचोदितः। उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः॥ २३॥ पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम्। रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति॥ २४॥ न वने नन्दनोद्देशे न चैत्ररथसंश्रये। कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित् समो मृगः॥ २५॥ प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः। शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः॥ २६॥ पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम्। जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम्॥ २७॥ मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः। कस्य नामानिरूपोऽसौ न मनो लोभयेन्मृगः॥ २८॥ कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयप्रभम्। नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत्॥ २९॥ मांसहेतोरपि मृगान् विहारार्थं च धन्विनः। घ्नन्ति लक्ष्मण राजानो मृगयायां महावने॥ ३०॥ धनानि व्यवसायेन विचीयन्ते महावने। धातवो विविधाश्चापि मणिरत्नसुवर्णिनः॥ ३१॥ तत् सारमखिलं नॄणां धनं निचयवर्धनम्। मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण॥ ३२॥ अर्थी येनार्थकृत्येन संव्रजत्यविचारयन्। तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याश्च लक्ष्मण॥ ३३॥ एतस्य मृगरत्नस्य परार्घ्ये काञ्चनत्वचि। उपवेक्ष्यति वैदेही मया सह सुमध्यमा॥ ३४॥ न कादली न प्रियकी न प्रवेणी न चाविकी। भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः॥ ३५॥ एष चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः। उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ॥ ३६॥ यदि वायं तथा यन्मां भवेद् वदसि लक्ष्मण। मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया॥ ३७॥ एतेन हि नृशंसेन मारीचेनाकृतात्मना। वने विचरता पूर्वं हिंसिता मुनिपुंगवाः॥ ३८॥ उत्थाय बहवो येन मृगयायां जनाधिपाः। निहताः परमेष्वासास्तस्माद् वध्यस्त्वयं मृगः॥ ३९॥ पुरस्तादिह वातापिः परिभूय तपस्विनः। उदरस्थो द्विजान् हन्ति स्वगर्भोऽश्वतरीमिव॥ ४०॥ स कदाचिच्चिराल्लोभादाससाद महामुनिम्। अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह॥ ४१॥ समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम्। उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत्॥ ४२॥ त्वयाविगण्य वातापे परिभूताः स्वतेजसा। जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः॥ ४३॥ तदेतन्न भवेद्रक्षो वातापिरिव लक्ष्मण। मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्॥ ४४॥ भवेद्धतोऽयं वातापिरगस्त्येनेव मां गतः। इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम्॥ ४५॥ अस्यामायत्तमस्माकं यत् कृत्यं रघुनन्दन। अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम्॥ ४६॥ यावद् गच्छामि सौमित्रे मृगमानयितुं द्रुतम्। पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम्॥ ४७॥ त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति। अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया॥ ४८॥ यावत् पृषतमेकेन सायकेन निहन्म्यहम्। हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण॥ ४९॥ प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण। भवाप्रमत्तः प्रतिगृह्य मैथिलीं प्रतिक्षणं सर्वत एव शङ्कितः॥ ५०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे लक्ष्मणशङ्काप्रतिसमाधानम्ं नाम त्रिचत्वारिंशः सर्गः ॥३-४३॥