home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

द्विचत्वारिंशः सर्गः ॥३-४२॥

॥स्वर्णमृगप्रेक्षणम्॥

[ सौवर्णमृगरूपं धारयित्वा मारीचस्य श्रीरामाश्रमे गमनं सीताकर्तृकं तस्य दर्शनं च ]

एवमुक्त्वा तु वचनं मारीचो रावणं ततः। गच्छावेत्यब्रवीद् दीनो भयाद् रात्रिञ्चरप्रभोः॥ १॥ दृष्टः सोऽहं पुनस्तेन शरचापासिधारिणा। मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे॥ २॥ न हि रामं पराक्रम्य जीवन् प्रतिनिवर्तते। वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते॥ ३॥ किं नु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि। एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर॥ ४॥ प्रहृष्टस्त्वभक्तेन वचनेन स रावणः। परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्॥ ५॥ एतच्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम्। इदानीमसि मारीचः पूर्वमन्यो निशाचरः॥ ६॥ आरुह्यतामयं शीघ्रं रथो रत्नविभूषितः। मया सह तथा युक्तः पिशाचवदनैः खरैः॥ ७॥ प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि। तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम्॥ ८॥ ततो रावणमारीचौ विमानमिव तं रथम्। आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात्॥ ९॥ तथैव तत्र पश्यन्तौ पत्तनानि वनानि च। गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च॥ १०॥ समेत्य दण्डकारण्यं राघवस्याश्रमं ततः। ददर्श सहमारीचो रावणो राक्षसाधिपः॥ ११॥ अवतीर्य रथात् तस्मात् ततः काञ्चनभूषणात्। हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्॥ १२॥ एतद् रामाश्रमपदं दृश्यते कदलीवृतम्। क्रियतां तत् सखे शीघ्रं यदर्थं वयमागताः॥ १३॥ स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा। मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह॥ १४॥ स तु रूपं समास्थाय महदद्भुतदर्शनम्। मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः॥ १५॥ रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः। किञ्चिदभ्युन्नतग्रीव इन्द्रनीलदलाधरः॥ १६॥ कुन्देन्दुवज्रसंकाशमुदरं चास्य भास्वरम्। मधूकनिभपार्श्वश्च पद्मकिञ्जल्कसंनिभः॥ १७॥ वैडूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः। इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः॥ १८॥ मनोहरः स्निग्धवर्णो रत्नैर्नानाविधैर्वृतः। क्षणेन राक्षसो जातो मृगः परमशोभनः॥ १९॥ वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत्। मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः॥ २०॥ प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्। विचरन् गच्छते तस्माच्छाद्वलानि समन्ततः॥ २१॥ रूप्यैर्बिन्दुशतैश्चित्रो भूत्वा च प्रियदर्शनः। विटपीनां किसलयान् भड्क्त्वादन् विचचार ह॥ २२॥ कदलीगृहकं गत्वा कर्णिकारानितस्ततः। समाश्रयन् मन्दगतिं सीतासंदर्शनं तथा॥ २३॥ राजीवचित्रपृष्ठः स विरराज महामृगः। रामाश्रमपदाभ्याशे विचचार यथासुखम्॥ २४॥ पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः। गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते॥ २५॥ विक्रीडंश्च क्वचिद् भूमौ पुनरेव निषीदति। आश्रमद्वारमागम्य मृगयूथानि गच्छति॥ २६॥ मृगयूथैरनुगतः पुनरेव निवर्तते। सीतादर्शनमाकाङ्क्षन् राक्षसो मृगतां गतः॥ २७॥ परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्। समुद्वीक्ष्य च तं सर्वे मृगा ह्यन्ये वनेचराः॥ २८॥ उपगम्य समाघ्राय विद्रवन्ति दिशो दश। राक्षसः सोऽपि तान् वन्यान् मृगान् मृगवधे रतः॥ २९॥ प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन्। तस्मिन् नेव ततः काले वैदेही शुभलोचना॥ ३०॥ कुसुमापचयव्यग्रा पादपानभ्यवर्तत। कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा॥ ३१॥ कुसुमान्यवचिन्वन्ती चचार रुचिरानना। अनर्हारण्यवासस्य सा तं रत्नमयं मृगम्॥ ३२॥ मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना। सा तं रुचिरदन्तोष्ठं रूप्यधातुतनूरुहम्॥ ३३॥ विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत। स च तां रामदयितां पश्यन् मायामयो मृगः॥ ३४॥ विचचार पुनश्चित्रं दीपयन्निव तद् वनम्। अदृष्टपूर्वं तं दृष्ट्वा नानारत्नमयं मृगम्। विस्मयं परमं सीता जगाम जनकात्मजा॥ ३५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे स्वर्णमृगप्रेक्षणं नाम द्विचत्वारिंशः सर्गः ॥३-४२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध