दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः। संदिदेश महाबाहुर्भीमवेगान् दुरासदान्॥ १॥ राक्षसान् पञ्चसाहस्रान् समरेष्वनिवर्तिनः। ते शूलैः पट्टिशैः खड्गैः शिलावर्षैर्द्रुमैरपि॥ २॥ शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः। स द्रुमाणां शिलानां च वर्षं प्राणहरं महत्॥ ३॥ प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः। प्रतिगृह्य च तद् वर्षं निमीलित इवर्षभः॥ ४॥ रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम्। ततः क्रोधसमाविष्टः प्रदीप्त इव पावकः॥ ५॥ शरैरवाकिरत् सैन्यं सर्वतः सहदूषणम्। ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः॥ ६॥ शरैरशनिकल्पैस्तं राघवं समवाकिरत्। ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद् धनुः॥ ७॥ चिच्छेद समरे वीरश्चर्तुभिश्चतुरो हयान्। हत्वा चाश्वान् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः॥ ८॥ शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि। स छिन्नधन्वा विरथो हताश्वो हतसारथिः॥ ९॥ जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम्। वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम्॥ १०॥ आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम्। वज्राशनिसमस्पर्शं परगोपुरदारणम्॥ ११॥ त्रासनं सर्वभूतानां काञ्चनाङ्गदभूषणम्। तं महोरगसंकाशं प्रगृह्य परिघं रणे॥ १२॥ दूषणोऽभ्यपतद् रामं क्रूरकर्मा निशाचरः। तस्याभिपतमानस्य दूषणस्य च राघवः॥ १३॥ द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ। भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि॥ १४॥ परिघच्छिन्नहस्तस्य शक्रध्वज इवाग्रतः। स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः॥ १५॥ विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे॥ १६॥ साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन्। एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः॥ १७॥ संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः। महाकपालः स्थूलाक्षः प्रमाथी च महाबलः॥ १८॥ महाकपालो विपुलं शूलमुद्यम्य राक्षसः। स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम्॥ १९॥ दृष्ट्वैवापततस्तूर्णं राघवः सायकैः शितैः। तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव॥ २०॥ महाकपालस्य शिरश्चिच्छेद परमेषुभिः। असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम्॥ २१॥ स पपात हतो भूमौ विटपीव महाद्रुमः। स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः॥ २२॥ दूषणस्यानुगान् पञ्चसाहस्रान् कुपितः क्षणात्। बाणौधैः पञ्चसाहस्रैरनयद् यमसादनम्॥ २३॥ दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान्। व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान्॥ २४॥ अयं विनिहतः संख्ये दूषणः सपदानुगः। महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम्॥ २५॥ शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः। एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे॥ २६॥ श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः। दुर्जयः करवीराक्षः परुषः कालकार्मुकः॥ २७॥ मेघमाली महामाली सर्पास्यो रुधिराशनः। द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः॥ २८॥ राममेवाभ्यधावन्त विसृजन्तः शरोत्तमान्। ततः पावकसंकाशैर्हेमवज्रविभूषितैः॥ २९॥ जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः। ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः॥ ३०॥ निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान्। रक्षसां तु शतं रामः शतेनैकेन किर्णना॥ ३१॥ सहस्रं च सहस्रेण जघान रणमूर्धनि। तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः॥ ३२॥ निपेतुः शोणितादिग्धा धरण्यां रजनीचराः। तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः॥ ३३॥ अस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव। क्षणेन तु महाघोरं वनं निहतराक्षसम्॥ ३४॥ बभूव निरयप्रख्यं मांसशोणितकर्दमम्। चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्॥ ३५॥ हतान्येकेन रामेण मानुषेण पदातिना। तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः॥ ३६॥ राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः। शेषा हता महासत्वा राक्षसा रणमूर्धनि। घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते॥ ३७॥ ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा। रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः॥ ३८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे दूषणादिवधो नाम षड्विंशः सर्गः ॥३-२६॥