खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः। राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत्॥ १॥ मां नियोजय विक्रान्तं संनिवर्तस्व साहसात्। पश्य रामं महाबाहुं संयुगे विनिपातितम्॥ २॥ प्रतिजानामि ते सत्यमायुधं चाहमालभे। यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्॥ ३॥ अहं वास्य रणे मृत्युरेष वा समरे मम। विनिवृवत्य रणोत्साहन्मुहूर्तं प्राश्निको भव॥ ४॥ प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि। मयि वा निहते रामं संयुगायोपयास्यसि॥ ५॥ खरस्त्रिशिरसा तेन मृत्युलोभात् प्रसादितः। गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ॥ ६॥ त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता। अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः॥ ७॥ शरधारासमूहान् स महामेघ इवोत्सृजन्। व्यसृजत् सदृशं नादं जलार्द्रस्य तु दुन्दुभेः॥ ८॥ आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः। धनुषा प्रतिजग्राह विधून्वन् सायकान् शितान्॥ ९॥ स सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान्। बभूवातिव बलिनोः सिंहकुञ्जरयोरिव॥ १०॥ ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः। अमर्षी कुपितो रामः संरब्धामिदमब्रवीत्॥ ११॥ अहो विक्रमशूरस्य राक्षसस्येदृशं बलम्। पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः॥ १२॥ ममापि प्रतिगृह्णीष्व शरांश्चापगुणाच्युतान्। एवमुक्त्वा तु सुसंरब्धः शरानाशीविषोपमान्॥ १३॥ त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश। चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः॥ १४॥ न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः। अष्टभिः सायकैः सूतं रथोपस्थान्न्यपातयत्॥ १५॥ रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम्। ततो हतरथात् तस्मादुत्पतन्तं निशाचरम्॥ १६॥ बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः। सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः॥ १७॥ शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः। स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः॥ १८॥ न्यपतत् पतितैः पूर्वं स्वशिरोभिर्निशाचरः। हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः॥ १९॥ द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव। तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम्। राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा॥ २०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे त्रिशिरोवधो नाम सप्तविंशः सर्गः ॥३-२७॥