home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

अष्टाविंशः सर्गः ॥३-२८॥

॥खररामसंप्रह्यरः॥

[ खरेण सह श्रीरामस्य घोरं युद्धम् ]

निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह। खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम्॥ १॥ स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः। हतमेकेन रामेण त्रिशिरोदूषणवपि॥ २॥ तद‍्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः। आससाद खरो रामं नमुचिर्वासवं यथा॥ ३॥ विकृष्य बलवच्चापं नाराचान् रक्तभोजनान्। खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव॥ ४॥ ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन्। चचार समरे मार्गान् शरै रथगतः खरः॥ ५॥ स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः। पूरयामास तं दृष्ट्वा रामोऽपि सुमहद् धनुः॥ ६॥ स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः। नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः॥ ७॥ तद् बभूव शितैर्बाणैः खररामविसर्जितैः। पर्याकाशमनाकाशं सर्वतः शरसंकुलम्॥ ८॥ शरजालावृतः सूर्यो न तदा स्म प्रकाशते। अन्योन्यवधसंरम्भादुभयोः सम्प्रयुध्यतोः॥ ९॥ ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। आजघान खरो रामं तोत्रैरिव महाद्विपम्॥ १०॥ तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्। ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम्॥ ११॥ हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम्। परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा॥ १२॥ तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्। दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा॥ १३॥ ततः सूर्यनिकाशेन रथेन महता खरः। आससादा रणे रामं पतङ्ग इव पावकम्॥ १४॥ ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः। खरश्चिच्छेद रामस्य दर्शयन् पाणिलाघवम्॥ १५॥ स पुनस्त्वपरान् सप्त शरानादाय वर्मणि। निजघान खरः क्रुद्धः शक्राशनिसमप्रभान्॥ १६॥ ततस्तत् प्रत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः। पपात कवचं भूमौ रामस्यादित्यवर्चसः॥ १७॥ ततः शरसहस्रेण राममप्रतिमौजसम्। अर्दयित्वा महानादं ननाद समरे खरः॥ १८॥ स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः। रराज समरे रामो विधूमोऽग्निरिव ज्वलन्॥ १९॥ ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः। चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः॥ २०॥ सुमहद् वैष्णवं यत् तदतिसृष्टं महर्षिणा। वरं तद् धनुरुद्यम्य खरं समभिधावत॥ २१॥ ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः। बिभेद रामः संक्रुद्धः खरस्य समरे ध्वजम्॥ २२॥ स दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः। जगाम धरणीं सूर्यो देवतानामिवाज्ञया॥ २३॥ तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः। विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः॥ २४॥ स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः। विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्॥ २५॥ स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे। मुमोच परमेष्वासः षट् शरानभिलक्षितान्॥ २६॥ शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्दयत् । त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह॥ २७॥ ततः पश्चान्महातेजा नाराचान् भास्करोपमान्। जिघांसू राक्षसं क्रुद्धस्त्रयोदश समाददे॥ २८॥ ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान्। षष्ठेन तु शिरः संख्ये खरस्य रथसारथेः॥ २९॥ त्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः। द्वादशेन तु बाणेन खरस्य सशरं धनुः॥ ३०॥ छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव। त्रयोदशेनेन्द्रसमो बिभेद समरे खरम्॥ ३१॥ प्रभग्नधन्वा विरथो हताश्वो हतसारथिः। गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा॥ ३२॥ तत् कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च। अपूजयन् प्राञ्जलयः प्रहृष्टा- स्तदा विमानाग्रगताः समेताः॥ ३३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे खररामसंप्रहारो नाम अष्टाविंशः सर्गः ॥३-२८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध