ततः शूर्पणखा दीना रावणं लोकरावणम्। अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत्॥ १॥ प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः। समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे॥ २॥ सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्। लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः॥ ३॥ स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः। स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति॥ ४॥ अयुक्तचारं दुर्दर्शम् अस्वाधीनं नराधिपम्। वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः॥ ५॥ ये न रक्षन्ति विषयमस्वाधीना नराधिपाः। ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा॥ ६॥ आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः। अयुक्तचारश्चपलः कथं राजा भविष्यसि॥ ७॥ त्वं तु बालस्वभावश्च बुद्धिहीनश्च राक्षस। ज्ञातव्यं तु न जानीषे कथं राजा भविष्यसि॥ ८॥ येषां चाराश्च कोशश्च नयश्च जयतां वर। अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः॥ ९॥ यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान् नराधिपाः। चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः॥ १०॥ अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम्। स्वजनं तु जनस्थाने हतं यो नावबुध्यसे॥ ११॥ चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम्। हतान्येकेन रामेण खरश्च सहदूषणः॥ १२॥ ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः। धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा॥ १३॥ त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण। विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे॥ १४॥ तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम्। व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम्॥ १५॥ अतिमानिनमग्राह्यमात्मसम्भावितं नरम्। क्रोधनं व्यसने हन्ति स्वजनोऽपि महीपतिम्॥ १६॥ नानुतिष्ठति कार्याणि भयेषु न बिभेति च। क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भवेदिह॥ १७॥ शुष्कैः काष्ठैर्भवेत् कार्यं लोष्ठैरपि च पांसुभिः। न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः॥ १८॥ उपभुक्तं यथा वासः स्रजो वा मृदिता यथा। एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः॥ १९॥ अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः। कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम्॥ २०॥ नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषा। व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः॥ २१॥ त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः। यस्य तेऽविदितश्चारै रक्षसां सुमहान् वधः॥ २२॥ परावमन्ता विषयेषु सङ्गतो न देशकालप्रविभागतत्त्ववित्। अयुक्तबुद्धिर्गुणदोषनिश्चये विपन्नराज्यो न चिराद् विपत्स्यसे॥ २३॥ इति स्वदोषान् परिकीर्तितांस्तथा समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः। धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं स रावणः॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे रावणनिन्दा नाम त्रयस्त्रिंशः सर्गः ॥३-३३॥