home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

द्वात्रिंशः सर्गः ॥३-३२॥

॥शूर्पणखोद्यमः॥

[ शूर्पणखाया लङ्कायां रावणस्य पार्श्वे गमनम् ]

ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश। हतान्येकेन रामेण रक्षसां भीमकर्मणाम्॥ १॥ दूषणं च खरं चैव हतं त्रिशिरसा सह। दृष्ट्वा पुनर्महानादं ननाद जलदो यथा॥ २॥ सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम्। जगाम परमोद्विग्ना लङ्कां रावणपालिताम्॥ ३॥ सा ददर्श विमानाग्रे रावणं दीप्ततेजसम्। उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम्॥ ४॥ आसीनं सूर्यसंकाशे काञ्चने परमासने। रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम्॥ ५॥ देवगन्धर्वभूतानामृषीणां च महात्मनाम्। अजेयं समरे शूरं व्यात्ताननमिवान्तकम्॥ ६॥ देवासुरविमर्देषु वज्राशनिकृतव्रणम्। ऐरावतविषाणाग्रैरु द्धृष्टकिणवक्षसम्॥ ७॥ विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम्। विशालवक्षसं वीरं राजलक्षणशोभितम्॥ ८॥ स्निग्धवैदूर्यसंकाशं तप्तकाञ्चनकुण्डलम्। सुभुजं शुक्लदशनं महास्यं पर्वतोपमम्॥ ९॥ विष्णुचक्रनिपातैश्च शतशो देवसंयुगे। अन्यैः शस्त्रप्रहारैश्च महायुद्धेषु ताडितम्॥ १०॥ अहताङ्गं समस्तैश्च देवप्रहरणैस्तदा। अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम्॥ ११॥ क्षेप्तारं पर्वतेन्द्राणां सुराणां च प्रमर्दनम्। उच्छेत्तारं च धर्माणां परदाराभिमर्शनम्॥ १२॥ सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा। पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम्॥ १३॥ तक्षकस्य प्रियां भार्यां पराजित्य जहार यः। कैलासपर्वतं गत्वा विजित्य नरवाहनम्॥ १४॥ विमानं पुष्पकं तस्य कामगं वै जहार यः। वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम्॥ १५॥ विनाशयति यः क्रोधाद् देवोद्यानानि वीर्यवान्। चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परंतपौ॥ १६॥ निवारयति बाहुभ्यां यः शैलशिखरोपमः। दशवर्षसहस्राणि तपस्तप्त्वा महावने॥ १७॥ पुरा स्वयंभुवे धीरः शिरांस्युपजहार यः। देवदानवगन्धर्वपिशाचपतगोरगैः॥ १८॥ अभयं यस्य संग्रामे मृत्युतो मानुषादृते। मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः॥ १९॥ हविर्धानेषु यः सोममुपहन्ति महाबलः। आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम्॥ २०॥ कर्कशं निरनुक्रोशं प्रजानामहिते रतम्। रावणं सर्वभूतानां सर्वलोकभयावहम्॥ २१॥ राक्षसी भ्रातरं शूरं सा ददर्श महाबलम्। तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम्॥ २२॥ आसने सूपविष्टं च कालकालमिवोद्यतम्। राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम्॥ २३॥ रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम्। अभिगम्याब्रवीद्वाक्यं राक्षसी भयविह्वला॥ २४॥ तमब्रवीद् दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्च्छिता। सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता॥ २५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे शूर्पणखोद्यमो नाम द्वात्रिंशः सर्गः ॥३-३२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध