home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

एकत्रिंशः सर्गः ॥३-३१॥

॥रावणरवृत्तोपलम्भः॥

[ अकम्पनसम्मत्या रावणस्य सीतापहरणाय गमनं मारीचस्य वचसा तस्य पुनर्लङ्कायामेव परावर्तनम् ]

त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः। प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत्॥ १॥ जनस्थानस्थिता राजन् राक्षसा बहवो हताः। खरश्च निहतः संख्ये कथंचिदहमागतः॥ २॥ एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः। अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा॥ ३॥ केन रम्यं जनस्थानं हतं मम परासुना। को हि सर्वेषु लोकेषु गतिं नाधिगमिष्यति॥ ४॥ न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम्। प्राप्तुं वैश्रवणेनापि न यमेन च विष्णुना॥ ५॥ कालस्य चाप्यहं कालो दहेयमपि पावकम्। मृत्युं मरणधर्मेण संयोजयितुमुत्सहे॥ ६॥ दहेयमपि संक्रुद्धस्तेजसादित्यपावकौ। वातस्य तरसा वेगं निहन्तुमहमुत्सहे॥ ७॥ तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः। भयात् संदिग्धया वाचा रावणं याचतेऽभयम्॥ ८॥ दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः। स विस्रब्धोऽब्रवीद् वाक्यमसंदिग्धमकम्पनः॥ ९॥ पुत्रो दशरथस्यास्ते सिंहसंहननो युवा। रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः॥ १०॥ वीरः पृथुयशाः श्रीमानतुल्यबलविक्रमः। हतं तेन जनस्थानं खरश्च सहदूषणः॥ ११॥ अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः। नागेन्द्र इव निःश्वस्य वचनं चेदब्रवीत्॥ १२॥ स सुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह। उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन॥ १३॥ रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः। आचचक्षे बलं तस्य विक्रमं च महात्मनः॥ १४॥ रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम्। दिव्यास्त्रगुणसम्पन्नः परंदरसमो युधि॥ १५॥ तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः। कनीयाँल्लक्ष्मणो न् आम भ्राता शशिनिभाननः॥ १६॥ स तेन सह संयुक्तः पावकेनानिलो यथा। श्रीमान् राजवरस्तेन जनस्थानं निपातितम्॥ १७॥ नैव देवा महात्मानो नात्र कार्या विचारणा। शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्त्रिणः॥ १८॥ सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान्। येन येन च गच्छन्ति राक्षसा भयकर्शिताः॥ १९॥ तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम्। इत्थं विनाशितं तेन जनस्थानं तवानघ॥ २०॥ अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत्। जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम्॥ २१॥ अथैवमुक्ते वचने प्रोवाचेदमकम्पनः। शृणु राजन् यथावृत्तं रामस्य बलपौरुषम्॥ २२॥ असाध्यः कुपितो रामो विक्रमेण महायशाः। आपगायाः सुपूर्णाया वेगं परिहरेच्छरैः॥ २३॥ सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत्। असौ रामस्तु मज्जन्तीं श्रीमानभ्युद्धरेन्महीम्॥ २४॥ भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद् विभुः। वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः॥ २५॥ संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः। शक्तः स पुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः॥ २६॥ न हि रामो दशग्रीव शक्यो जेतुं रणे युधि। रक्षसां वापि लोकेन स्वर्गः पापजनैरिव॥ २७॥ न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि। अयं तस्य वधोपायस्तं ममैकमनाः शृणु॥ २८॥ भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा। श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता॥ २९॥ नैव देवी न गन्धर्वी नाप्सरा नापिदानवी। तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत्॥ ३०॥ तस्यापहर भार्यां त्वं तं प्रमथ्य तु महावने। स तया रहितः कामी रामो हास्यति जीवितम्॥ ३१॥ अरोचयत तद्वाक्यं रावणो राक्षसाधिपः। चिन्तयित्वा महाबाहुरकम्पनमुवाच ह॥ ३२॥ बाढं कल्यं गमिष्यामि ह्येकः सारथिना सह। आनयिष्यामि वैदेहीमिमां हृष्टो महापुरीम्॥ ३३॥ अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः। रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन्॥ ३४॥ स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान्। संचार्यमाणः शुशुभे जलदे चन्द्रमा इव॥ ३५॥ स मारिचाश्रमं प्राप्य ताटकेयमुपागमत्। मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः॥ ३६॥ तं स्वयं पूजयित्वा तु आसनेनोदकेन च। अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्॥ ३७॥ कच्चित् सकुशलं राजँल्लोकानां राक्षसेश्वर। आशङ्के नाधिजाने त्वं यतस्तूर्णमुपागतः॥ ३८॥ एवमुक्तो महातेजा मारीचेन स रावणः। ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः॥ ३९॥ आरक्षो मे हतस्तात रामेणाक्लिष्टकारिणा। जनस्थानमवध्यं तत् सर्वं युधि निपातितम्॥ ४०॥ तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे। राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत्॥ ४१॥ आख्याता केन वा सीता मित्ररूपेण शत्रुणा। त्वया राक्षसशार्दूल को न नन्दति नन्दितः॥ ४२॥ सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे। रक्षोलोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति॥ ४३॥ प्रोत्साहयति कश्च त्वां स च शत्रुरसंशयः। आशीविषमुखाद् दंष्ट्रामुद्धर्तुं चेच्छति त्वया॥ ४४॥ कर्मणा तेन केनासि कापथं प्रतिपादितः। सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि॥ ४५॥ विशुद्धवंशाभिजनाग्रहस्त- तेजोमदः संस्थितदोर्विषाणः। उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती॥ ४६॥ असौ रणान्तःस्थितिसन्धिवालो विदग्धरक्षोमृगहा नृसिंहः। सुप्तस्त्वया बोधयितुं न युक्यः शराङ्गपूर्णो निशितासिदंष्ट्रः॥ ४७॥ चापापहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे। न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम्॥ ४८॥ प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ। त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु॥ ४९॥ एवमुक्तो दशग्रीवो मारीचेन स रावणः। न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम्॥ ५०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे रावणख्रवृत्तान्तोपलम्भो नाम एकत्रिंशः सर्गः ॥३-३१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध