home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

एकोनपञ्चाशः सर्गः ॥३-४९॥

॥सीतापहरणम्॥

[ रावणेन सीताया अपहरणं तस्या विलापो जटायुषो दर्शनं च ]

सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्। हस्ते हस्तं समाहत्य चकार सुमहद् वपुः॥ १॥ स मैथिलीं पुनर्वाक्यं बभाषे वाक्यकोविदः। नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ॥ २॥ उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः। आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः॥ ३॥ अर्कं रुन्द्यां शरैस्तीक्ष्णैर्निर्भिन्द्यां हि महीतलम्। कामरूपेणमुन्मत्ते पश्य मां कामदं पतिम्॥ ४॥ एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे। क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः॥ ५॥ सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः। स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः॥ ६॥ संरक्तनयनः श्रीमांस्तप्तकाञ्चनभूषणः। क्रोधेन महताविष्टो नीलजीमूतसंनिभः॥ ७॥ दशास्यो विंशतिभुजो बभूव क्षणदाचरः। स परिव्राजकच्छद्म महाकायो विहाय तत्॥ ८॥ प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः। संस्क्तनयनः क्रोधाज्जीमूतनिचयप्रभः॥ ९॥ रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्। सीतामसितकेशान्तां भास्करस्य प्रभामिव॥ १०॥ वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत्। त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि॥ ११॥ मामाश्रय वरारोहे तवाहं सदृशः पतिः। मां भजस्व चिराय त्वमहं श्लाघ्यः पतिस्तव॥ १२॥ नैव चाहं क्वचिद् भद्रे करिष्ये तव विप्रियम्। त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम्॥ १३॥ राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम्। कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि॥ १४॥ यः स्त्रियो वचनाद् राज्यं विहाय ससुहृज्जनम्। अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः॥ १५॥ इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः॥ १६॥ जग्राह रावणः सीतां बुधः खे रोहिणीमिव। वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः॥ १७॥ ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना। तं दृष्ट्वा मृतुइसंकाशं तीक्ष्णदंष्ट्रं महाभुजम्॥ १८॥ प्राद्रवन् गिरिसंकाशं भयार्ता वनदेवताः। स च मायामयो दिव्यः खरयुक्तः खरस्वनः॥ १९॥ प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः। ततस्तां परुषैवाक्यैरभितर्ज्य स महास्वनः॥ २०॥ अङ्केनादाय वैदेहीं रथमारोपयत् तदा। सा गृहीता विचुक्रोश रावणेन यशस्विनी॥ २१॥ रामेति सीता दुःखार्ता रामं दूरगतं वने। तामकामां स कामार्तः पन्नगेन्द्रवधूमिव॥ २२॥ विचेष्टमानामादाय उत्पपाताथ रावणः। ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा॥ २३॥ भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक॥ २४॥ ह्रियमाणां न जानीषे रक्षसा माममर्षिणा जीवितं सुखमर्थंश्च धर्महेतोः परित्यजन्॥ २५॥ ह्रियमाणामधर्मेण मां राघव न पश्यसि। ननु नामाविनीतानां विनेतासि परंतप॥ २६॥ कथमेवंविधं पापं न त्वं शाधि हि रावणम्। न तु सद्योऽविनीतस्य दृश्यते कर्मणः फलम्॥ २७॥ कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये। स कर्म कृतवानेतत् कालोपहतचेतनः॥ २८॥ जीवितान्तकरं घोरं रामाद् व्यसनमाप्नुहि। हन्तेदानीं सकामास्तु कैकेयी सह बान्धवैः॥ २९॥ ह्रिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः। आमन्त्रये जनस्थाने कर्णिकारान् सुपुष्पितान्॥ ३०॥ क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः। माल्यवन्तं शिखरिणं वन्दे प्रस्त्रवणं गिरिम्॥ ३१॥ क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः। हंसकारण्डवाकीर्णां वन्दे गोदावरीं नदीम्॥ ३२॥ क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः। दैवतानि च यान्यस्मिन् वने विविधपादपे॥ ३३॥ नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम्। यानि कानिचिदप्यत्र सत्त्वानि विवसन्त्युत॥ ३४॥ सर्वाणि शरणं यामि मृगपक्षिगणानपि। ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम्॥ ३५॥ विवशापहृता सीता रावणेनेति शंसत। विदित्वा मां महाबाहुरमुत्रापि महाबलः॥ ३६॥ आनेष्यति पराक्रम्य वैवस्वतहृतामपि। सा तदा करुणा वाचो विलपन्ती सुदुःखिता॥ ३७॥ वनस्पतिगतं गृध्रं ददर्शायतलोचना। सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता॥ ३८॥ समाक्रन्दद् भयपरा दुःखोपहतया गिरा। जटायो पश्य मामार्य ह्रियमाणामनाथवत्॥ ३९॥ अनेन राक्षसेन्द्रेण करुणं पापकर्मणा। नैष वारयितुं शक्यस्तव क्रूरो निशाचरः॥ ४०॥ सत्ववाञ्जितकाशी च सायुधश्चैव दुर्मतिः। रामाय तु यथातत्त्वं जटायो हरणं मम। लक्ष्मणाय च तत् सर्वमाख्यातव्यमशेषतः॥ ४१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे सीतापहरणं नाम एकोनपञ्चाशः सर्गः ॥३-४९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध