दृष्ट्वाश्रमपदं शून्यं रामो दशरथात्मजः। रहितां पर्णशालां च विध्वस्तान्यासनानि च॥ १॥ अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः। उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ॥ २॥ क्व नु लक्ष्मण वैदेही कं वा देशमितो गता। केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया॥ ३॥ वृक्षेणाच्छाद्य यदि मां सीते हसितुमिच्छसि। अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्॥ ४॥ यैः सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः। एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः॥ ५॥ सीतया रहितोऽहं वै न हि जीवामि लक्ष्मण। मृतं शोकेन महता सीताहरणजेन माम्॥ ६॥ परलोके महाराजो नूनं द्रक्ष्यति मे पिता। कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः॥ ७॥ अपूरयित्वा तं कालं मत्सकाशमिहागतः। कामवृत्तमनार्यं मां मृषावादिनमेव च॥ ८॥ धिक् त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता। विवशं शोकसंतप्तं दीनं भग्नमनोरथम्॥ ९॥ मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम्। क्व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे॥ १०॥ त्वया विरहितश्चाहं त्यक्ष्ये जीवितमात्मनः। इतीव विलपन् रामः सीतादर्शनलालसः॥ ११॥ न ददर्श सुदुःखार्तो राघवो जनकात्मजाम्। अनासादयमानं तं सीतां शोकपरायणम्॥ १२॥ पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम्। लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया॥ १३॥ मा विषादं महाबुद्धे कुरु यत्नं मया सह। इदं गिरिवरं शूर बहुकन्दरशोभितम्॥ १४॥ प्रियकाननसंचारा वनोन्मत्ता च मैथिली। सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम्॥ १५॥ सरितं वापि संतप्ता मीनवञ्जुलसेविताम्। स्नातुकामा निलीना स्याद्धासकामा वने क्वचित्॥ १६॥ वित्रासयितुकामा वा लीना स्यात् कानने क्वचित्। जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ॥ १७॥ तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहे। वनं सर्वं विचिन्वानौ यत्र सा जनकात्मजा॥ १८॥ मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः। एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः॥ १९॥ सह सौमित्रिणा रामो विचेतुमुपचक्रमे। तौ वनानि गिरींश्चैव सरितश्च सरांसि च॥ २०॥ निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ। तस्य शैलस्य सानूनि गुहाश्च शिखराणि च॥ २१॥ निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः। विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत्॥ २२॥ नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम्। ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत्॥ २३॥ विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम्। प्राप्स्यसे त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम्॥ २४॥ यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम्। एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन स राघवः॥ २५॥ उवाच दीनया वाचा दुःखाभिहतचेतनः। वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः॥ २६॥ गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः। न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम्॥ २७॥ एवं स विलपन् रामः सीताहरणकर्षितः। दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत्॥ २८॥ स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः। निषसादातुरो दीनो निःश्वस्याशीतमायतम्॥ २९॥ बहुशः स तु निःश्वस्य रामो राजीवलोचनः। हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः॥ ३०॥ तं ततः सान्त्वयामास लक्ष्मणः प्रियबान्धवः। बहुप्रकारं धर्नज्ञः प्रश्रितः प्रश्रिताञ्जलिः॥ ३१॥ अनादृत्य तु तद् वाक्यं लक्ष्मणोष्ठपुटाच्च्युतम्। अपश्यंस्तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः॥ ३२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे सीतान्वेषणं नाम एकषष्ठितमः सर्गः ॥३-६१॥