सीतामपश्यन् धर्मात्मा शोकोपहतचेतनः। विललाप महाबाहू रामः कमललोचनः॥ १॥ पश्यन्निव च तां सीतामपश्यन् मदनार्दितः। उवाच राघवो वाक्यं विलापाश्रयदुर्वचम्॥ २॥ त्वमशोकस्य शाखाभिः पुष्पप्रियतरा प्रिये। आवृणोषि शरीरं ते मम शोकविवर्धनी॥ ३॥ कदलीकाण्डसदृशौ कदल्या संवृतावुभौ। ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम्॥ ४॥ कर्णिकारवनं भद्रे हसन्ती देवि सेवसे। अलं ते परिहासेन मम बाधावहेन वै॥ ५॥ परिहासेन किं सीते परिश्रान्तस्य मे प्रिये। अयं स परिहासोऽपि साधु देवि न रोचते॥ ६॥ विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते। अवगच्छामि ते शीलं परिहासप्रियं प्रिये॥ ७॥ आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव। सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा॥ ८॥ न हि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण। एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण॥ ९॥ शंसन्तीव हि वैदेहीं भक्षितां रजनीचरैः। हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि॥ १०॥ हा सकामाद्य कैकेयी देवि सापि भविष्यति। सीतया सह निर्यातो विना सीतामुपागतः॥ ११॥ कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं पुनः। निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति॥ १२॥ कातरत्वं प्रकाशं हि सीतापनयनेन मे। निवृत्तवनवासश्च जनकं मिथिलाधिपम्॥ १३॥ कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम्। विदेहराजो नूनं मां दृष्ट्वा विरहितं तया॥ १४॥ सुतास्नेहेन संतप्तो मोहस्य वशमेष्यति। अथवा न गमिष्यामि पुरीं भरतपालिताम्॥ १५॥ स्वर्गोऽपि हि तया हीनः शून्य एव मतो मम। मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम्॥ १६॥ न त्वहं तां विना सीतां जीवेयं हि कथंचन। गाढमाश्लिष्य भरतो वाच्यो मद्वचनात् त्वया॥ १७॥ अनुज्ञातोऽसि रामेण पालयेति वसुंधराम्। अम्बा च मम कैकेयी सुमित्रा च त्वया विभो॥ १८॥ कौसल्या च यथान्यायमभिवाद्या ममाज्ञया। रक्षणीया प्रयत्नेन भवता सूक्तकारिणा॥ १९॥ सीतायाश्च विनाशोऽयं मम चामित्रकर्शन। विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत्॥ २०॥ इति विलपति राघवे सुदीने वनमुपगम्य तया विना सुकेश्या। भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव॥ २१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे राघवविलापो नाम षष्ठितमः सर्गः ॥३-६२॥