प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्। ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम्॥ १॥ कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्। यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम्॥ २॥ शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा। मृगैर्बहुभिराकीर्णं पक्षिसङ्घैः समावृतम्॥ ३॥ पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः। विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः॥ ४॥ समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्। आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्॥ ५॥ बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्। पुष्पैरन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया॥ ६॥ फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः। सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्युतम्॥ ७॥ पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः। तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्॥ ८॥ ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्। तद् दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्॥ ९॥ अभ्यगच्छन्महातेजा विज्यं कृत्वा महद् धनुः। दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः॥ १०॥ अभ्यगच्छंस्तदा प्रीता वैदेहीं च यशस्विनीम्। ते तु सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः॥ ११॥ लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम्। मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः॥ १२॥ रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्। ददृशुर्विस्मिताकारा रामस्य वनवासिनः॥ १३॥ वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव। आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः॥ १४॥ अत्रैनं हि महाभागाः सर्वभूतहिते रताः। अतिथिं पर्णशालायां राघवं संन्यवेशयन्॥ १५॥ ततो रामस्य सत्कृत्य विधिना पावकोपमाः। आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः॥ १६॥ मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः। निवेदयित्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन्॥ १७॥ धर्मपालो जनस्यास्य शरण्यस्त्वं महायशाः। पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः॥ १८॥ इन्द्रस्यैह चतुर्भागः प्रजा रक्षति राघव। राजा तस्माद् वरान् भोगान् भुङ्क्ते लोकनमस्कृतः॥ १९॥ ते वयं भवता रक्ष्या भवद्विषयवासिनः। नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः॥ २०॥ न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः। रक्षतव्यास्त्वया शश्वद् गर्भभूतास्तपोधनाः॥ २१॥ एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम्। अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्॥ २२॥ तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः। न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्॥ २३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे महर्षिसङ्गो नाम प्रथमः सर्गः ॥३-१॥