home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

एकविंशः सर्गः ॥३-२१॥

॥खरसुन्धुक्षणम्॥

[ शूर्पणखया खरपार्श्वमुपगम्य राक्षसवधवृत्तान्तं निवेद्य श्रीरामतो भयं प्रदर्श्य खरस्य युद्धार्थं प्रोत्साहनम् ]

स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः। उवाच व्यक्तया वाचा तामनर्थार्थमागताम्॥ १॥ मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः। त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः॥ २॥ भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः। ध्नन्तोऽपि न निहन्यन्ता न न कुर्युर्वचो मम॥ ३॥ किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः। हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षितौ॥ ४॥ अनाथवद् विलपसि नाथे तु मयि संस्थिते। उत्तिष्ठोत्तिष्ठ मा मैषीर्वैक्लब्यं त्यज्यतामिह॥ ५॥ इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता। विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत्॥ ६॥ अस्मीदानीमहं प्राप्ता हृतश्रवणनासिका। शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता॥ ७॥ प्रेषिताश्च त्वया वीरा राक्षसास्ते चतुर्दश। निहन्तुं राघवं क्रोधान्मत्प्रियार्थं सलक्ष्मणम्॥ ८॥ ते तु रामेण सामर्षाः शूलपट्टिशपाणयः। समरे निहताः सर्वे सायकैर्मर्मभेदिभिः॥ ९॥ तान् दृष्ट्वा पतितान् भूमौ क्षणेनैव महाबलान्। रामस्य च महत् कर्म महांस्त्रासोऽभवन्मम॥ १०॥ अहमस्मि समुद्विग्ना विषण्णा च निशाचर। शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी॥ ११॥ विषादनक्राध्युषिते परित्रासोर्मिमालिनि। किं मां न त्रायसे मग्नां विपुले शोकसागरे॥ १२॥ एते च निहता भूमौ रामेण निशितैः शरैः। येऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः॥ १३॥ मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च। रामेण यदि ते शक्तिस्ते वास्ति निशाचर॥ १४॥ दण्डकारण्यनिलयं जहि राक्षसकण्टकम्। यदि रामं ममित्रघ्नं न त्वमद्य वधिष्यसि॥ १५॥ तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा। बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे॥ १६॥ स्थातुं प्रतिमुखे शक्तः सबलोऽपि महारणे। शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः॥ १७॥ मानुषौ तौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ। रामेण यदि ते शक्तिस्तेजो वस्ति निशाचर॥ १८॥ दण्डकारण्यनिलयं जहि तं कुलपांसन। निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह॥ १९॥ अपयाहि जनस्थानात् त्वरितः सहबान्धवः। रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि॥ २०॥ स हि तेजःसमायुक्तो रामो दशरथात्मजः। भ्राता चास्य महावीर्यो येन चास्मि विरूपिता॥ २१॥ एवं विलप्य बहुशो राक्षसी प्रदरोदरी॥ २१॥ कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे खरसन्धुक्ष्णं नाम एकविंशः सर्गः ॥३-२१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध