home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

विंशः सर्गः ॥३-२०॥

॥चतुर्दरक्षोवधः॥

[ श्रीरामकर्तृकः खरप्रहितानां राक्षसानां वधः ]

ततः शूर्पणखा घोरा राघवाश्रममागता। राक्षसामाचचक्षे तौ भ्रातरौ सह सीतया॥ १॥ ते रामं पर्णशालायामुपविष्टं महाबलम्। ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च॥ २॥ तान्दृष्ट्वा राघवः श्रीमानागतांस्तां च राक्षसीम्। अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्॥ ३॥ मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः। इमानस्या वधिष्यामि पदवीमागतानिह॥ ४॥ वाक्यमेतत् ततः श्रुत्वा रामस्य विदितात्मनः। तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत्॥ ५॥ राघवोऽपि महच्चापं चामीकरविभूषितम्। चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्॥ ६॥ पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ। प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्॥ ७॥ फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ। वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ॥ ८॥ युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे। ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः॥ ९॥ तिष्ठतैवात्र संतुष्टा नोपवर्तितुमर्हथ। यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः॥ १०॥ तस्य तद् वचनं श्रुत्वा राक्षसास्ते चतुर्दश। ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाः शूलपाणयः॥ ११॥ संरक्तनयना घोरा रामं संरक्तलोचनम्। परुषा मधुराभाषं हृष्टा दृष्टपराक्रमम्॥ १२॥ क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः। त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि॥ १३॥ का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि। अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे॥ १४॥ एहि बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः। प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम्॥ १५॥ इत्येवमुक्त्वा संक्रुद्धा राक्षसास्ते चतुर्दश। उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः॥ १६॥ चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम्। तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश॥ १७॥ तावद्भिरेव चिच्छेद शरैः काञ्चनभूषिणैः। ततः पश्चान्महातेजा नाराचान् सूर्यसंनिभान्॥ १८॥ जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान्। गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान्॥ १९॥ मुमोच राघवो बाणान् वज्रानिव शतक्रतुः। रुक्मपुङ्खाश्च विशिखा दीप्ता हेमविभूषिताः॥ २०॥ ते भित्त्वा रक्षसां वेगाद् वक्षांसि रुधिरप्लुताः। विनिष्पेतुस्तदा भूमौ वल्मीकादिव पन्नगाः॥ २१॥ ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः। निपेतुः शोणितार्दाङ्गा विकृता विगतासवः॥ २२॥ तान् दृष्ट्वा पतितान् भूमौ राक्षसी क्रोधमूर्छिता। परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान्॥ २३॥ सा नदन्ती महानादं जवाच्छूर्पणखा पुनः। उपगम्य खरं सा तु किञ्चित् संशुष्कशोणिता॥ २४॥ पपात पुनरेवार्ता सनिर्यासेव वल्लकी। भ्रातुः समीपे शोकार्ता ससर्ज निनदं मुहुः । सस्वरं मुमुचे बाष्पं विषण्णवदना तदा॥ २५॥ निपातितान् दृश्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः। वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा॥ २६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे चतुर्दशरक्षोवधो नाम विंशः सर्गः ॥३-२०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध