तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्। भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसीम्॥ १॥ उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम्। व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता॥ २॥ कः कृष्णसर्पमासीनमाशीविषमनागसम्। तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया॥ ३॥ कः कालपाशमासज्य कण्ठे मोहान्न बुध्यते। यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम्॥ ४॥ बलविक्रमसम्पन्ना कामगा कामरूपिणी। इमामवस्थां नीता त्वं केनान्तकसमागता॥ ५॥ देवगन्धर्वभूतानामृषीणां च महात्मनाम्। कोऽयमेवं विरूपां त्वां महावीर्यस्त्वां ह॥ ६॥ न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम्। अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम्॥ ७॥ अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः। सलिले क्षीरमासक्तं निष्पिबन्निव सारसः॥ ८॥ निहतस्य मया संख्ये शरसंकृत्तमर्मणः। सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति॥ ९॥ कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः। प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे॥ १०॥ तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः। मयापकृष्टं कृपणं शक्तास्त्रातुमिहाहवे॥ ११॥ उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि। येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता॥ १२॥ इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः। ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत्॥ १३॥ तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ। पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ॥ १४॥ फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ। पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ॥ १५॥ गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ। देवौ वा मानिषौ वा तौ न तर्कयितुमुत्सहे॥ १६॥ तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा॥ १७॥ ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम्। इमामवस्थां नीताहं यथानाथासती तथा॥ १८॥ तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम्। सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि॥ १९॥ एष मे प्रथमः कामः कृतस्तात त्वया भवेत्। तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे॥ २०॥ इति तस्यां ब्रुवाणायां चतुर्दश महाबलान्। व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्॥ २१॥ मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ। प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह॥ २२॥ तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ। इयं च रुधिरं तेषां भगिनी मम पास्यति॥ २३॥ मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः। शीघ्रं सम्पाद्यतां गत्वा तौ प्रमथ्य स्वतेजसा॥ २४॥ युष्माभिर्निहतौ दृष्ट्वा तावुभौ भ्रातरौ रणे। इयं प्रहृष्टा मुदिता रुधिरं युधि पास्यति॥ २५॥ इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश। तत्र जग्मुस्तया सार्धं घना वातेरिता यथा॥ २६॥ ततस्यु ते तं समुदग्रतेजसं तथापि तीक्ष्णप्रदरा निशाचराः। दुरासदं धर्षयितुं न चाशकन् वनद्विपा दीप्तमिवाग्निमुत्थितम्॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे खरक्रोधो नाम एकोनविंशः सर्गः ॥३-१९॥