हत्वा तु तं भीमबलं विराधं राक्षसं वने। ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान्॥ १॥ अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम्। कष्टं वनमिदं दुर्गं न च स्म वनगोचराः॥ २॥ अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम्। आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह॥ ३॥ तस्य देवप्रभावस्य तपसा भावितात्मनः। समीपे शरभङ्गस्य ददर्श महदद्भुतम्॥ ४॥ विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम्। अवरुह्य रथोत्सङ्गात्सकाशे विबुधानुगम्॥ ५॥ असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम्। सप्रभाभरणं देवं विरजोऽम्बरधारिणम्॥ ६॥ तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः। हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्॥ ७॥ ददर्शादूरतस्तस्य तरुणादित्यसंनिभम्। पाण्डराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम्॥ ८॥ अपश्यद् विमलं छत्रं चित्रमाल्योपशोभितम्। चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने॥ ९॥ गृहीते वरनारीभ्यां धूयमाने च मूर्धनि। गन्धर्वामरसिद्धाश्च बहवः परमर्षयः॥ १०॥ अन्तरिक्षगतं देवं वाग्भिरग्र्याभिरीडिरे। सह सम्भाषमाणे तु शरभङ्गेन वासवे॥ ११॥ दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत्। रामोऽथ रथमुद्दिश्य लक्ष्मणाय प्रदर्शयन्॥ १२॥ अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण। प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम्॥ १३॥ ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः। अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम्॥ १४॥ इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो रथम्। शतं शतं कुण्डलिनो युवानः खड्गपाणयः॥ १५॥ विस्तीर्णविपुलोरस्काः परिघायतबाहवः। शोणांशुवसनाः सर्वे व्याघ्रा इव दुरासदाः॥ १६॥ उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः। रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम्॥ १७॥ एतद्धि किल देवानां वयो भवति नित्यदा। यथेमे पुरुषव्याघ्र दृश्यन्ते प्रियदर्शनाः॥ १८॥ इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण। यावज्जानाम्यहं व्यक्तं क एष द्युतिमान् रथे॥ १९॥ तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति। अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति॥ २०॥ ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः। शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत्॥ २१॥ इहोपयात्यसौ रामो यावन्मां नाभिभाषते। निष्ठां नयत तावत् तु ततो मां द्रष्टुमर्हति॥ २२॥ जितवन्तं कृतार्थं हि तदाहमचिरादिमम्। कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम्॥ २३॥ निष्पादयित्वा तत् कर्म ततो मां द्रष्टुमर्हति। अथ वज्री तमामन्त्र्य मानयित्वा च तापसम्॥ २४॥ रथेन हरियुक्तेन ययौ दिवमरिन्दमः। प्रयाते तु सहस्राक्षे राघवः सपरिच्छदे॥ २५॥ अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्। तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः॥ २६॥ निषेदुः समनुज्ञाता लब्धवासा निमन्त्रिताः। ततः शक्रोपयानं तु पर्यपृच्छत् स राघवः॥ २७॥ शरभङ्गश्च तत् सर्वं राघवाय न्यवेदयत्। मामेष वरदो राम ब्रह्मलोकं निनीषति॥ २८॥ जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः। अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः॥ २९॥ ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम्। त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना॥ ३०॥ समागम्य गमिष्यामि त्रिदिवं देवसेवितम्। अक्षया नरशार्दूल मया लोका जिताः शुभाः॥ ३१॥ ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान्। एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः॥ ३२॥ ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत्। अहमेवाहरिष्यामि सर्वलोकान् महामुने॥ ३३॥ आवासं त्वहमिच्छामि प्रदिष्टमिह कानने। राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै॥ ३४॥ शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद् वचः। इह राम महातेजाः सुतीक्ष्णो नाम धार्मिकः॥ ३५॥ वसत्यरण्ये धर्मात्मा स ते वासं विधास्यति। सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम्॥ ३६॥ रमणीये वनोद्देशे स ते वासं विधास्यति। इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज॥ ३७॥ नदीं पुष्पोडुपवहां तत्र तत्र गमिष्यसि। एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम्॥ ३८॥ यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः। ततोऽग्निं सुसमाधाय हुत्वा चाज्येन मन्त्रवत् ॥ ३९॥ शरभङ्गो महातेजाः प्रविवेश हुताशनम्। तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः॥ ४०॥ जीर्णां त्वचं तथास्थीनि यच्च मांसं सशोणितम्॥ रमस्तु विस्मितो भ्रात्रा भार्यया च सहात्मवान्॥ ४१॥ स च पावकसंकाशः कुमारः समपद्यत। उत्थायाग्निचयात् तस्माच्छरभङ्गो व्यरोचत॥ ४२॥ स लोकानाहिताग्नीनामृषीणां भावितात्मनाम्। देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत॥ ४३॥ स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह। पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह॥ ४४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे शरभङ्गब्रह्मलोकप्रस्थानं नाम पञ्चमः सर्गः ॥३-५॥