home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

त्रयोदशः सर्गः ॥३-१३॥

॥पञ्चवटीगमनम्॥

[ महर्षिणागस्त्येन श्रीरामं प्रति परितोषं प्रकट्य सीतायाः प्रशंसनं श्रीरामेण पृष्टेन तेन पञ्चवट्या- माश्रमं निर्माय तत्रावस्थातुमाज्ञाप्रदानं श्रीराम- प्रभृतीनां ततः प्रस्थानं च ]

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण। अभिवादयितुं यन्मां संप्राप्तौ स्थः सह सीतया॥ १॥ अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः। व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा॥ २॥ एषा हि सुकुमारी च दुःखैश्च न विमानिता। प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता॥ ३॥ यथैषा रमते राम इह सीता तथा कुरु। दुष्करं कृतवत्येषा वने त्वामभिगच्छती॥ ४॥ एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन। समस्थमनुरज्यन्ति विषमस्थं त्यजन्ति च॥ ५॥ शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा। गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः॥ ६॥ इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता। श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती॥ ७॥ अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह। वैदेह्या चानया राम वत्स्यसि त्वमरिंदम॥ ८॥ एवमुक्तः स मुनिना राघवः संयताञ्जलिः। उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम्॥ ९॥ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः। गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति॥ १०॥ किं तु व्यादिश मे देशं सोदकं बहुकाननम्। यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम्॥ ११॥ ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तद्वचः। ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः॥ १२॥ इतो द्वियोजने तात बहुमूलफलोदकः। देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः॥ १३॥ तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह। रंस्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन्॥ १४॥ कालोऽयं गतभूयिष्ठो यः कालस्तव राघव। समयो यो नरेन्द्रेण कृतो दशरथेन ते॥ १५॥ तीर्णप्रतिज्ञः काकुत्स्थ सुखं राज्ये निवत्यसि। धन्यस्ते जनको राम स राजा रघुनन्दन॥ १६॥ यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः। विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ॥ १७॥ तपसश्च प्रभावेण स्नेहाद् दशरथस्य च। हृदयस्थश्च ते च्छन्दो विज्ञातस्तपसा मया॥ १८॥ इह वासं प्रतिज्ञाय मया सह तपोवने। अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति॥ १९॥ स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते। स देशः श्लाघनीयश्च नातिदूरे च राघव॥ २०॥ गोदावर्याः समीपे च मैथिली तत्र रंस्यते। प्राज्यमूलफलश्चैव नानाद्विजगणायुतः॥ २१॥ विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च। भवानपि सदारश्च शक्तश्च परिरक्षणे॥ २२॥ अपि चात्र वसन् राम तापसान् पालयिष्यसि। एतदालक्ष्यते वीर मधूकानां महावनम्॥ २३॥ उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता। ततः स्थलमुपारुह्य पर्वतस्याविदूरतः॥ २४॥ ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः। अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह॥ २५॥ सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम्। तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ। तदाश्रमात् पञ्चवटीं जग्मतुः सह सीतया॥ २६॥ गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणौ समरेष्वकातरौ। यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे पञ्चवटीगमनं नाम त्रयोदशः सर्गः ॥३-१३॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध