अथ पञ्चवटीं गच्चन्नन्तरा रघुनन्दनः । आससाद महाकायं गृध्रं भीमपराक्रमम् ॥ १॥ तं दृष्ट्वा तौ महाभागौ वटस्थं राम लक्ष्मणौ । मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति ॥ २॥ स तौ मधुरया वाचा सौम्यया प्रीणयन्निव । उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः ॥ ३॥ स तं पितृसखं बुद्ध्वा पूजयामास राघवः । स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च ॥ ४॥ रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम्। आचचक्षे द्विजस्तस्मै कुलमात्मानमेव च॥ ५॥ पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् । तान् मे निगदतः सर्वानादितः शृणु राघव ॥ ६॥ कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरः। शेषश्च संश्रयश्चैव बहुपुत्रः प्रतापवान् ॥ ७॥ स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः । पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा ॥ ८॥ दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव । कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः ॥ ९॥ प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम् । षष्टिर्दुहितरो राम यशस्विन्यो महायशः ॥ १०॥ कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः । अदितिं च दितिं चैव दनूमप्यथ कालकाम् ॥ ११॥ ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि । तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् ॥ १२॥ पुत्रांस्त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान् । अदितिस्तन्मना राम दितिश्च दनुरेव च ॥ १३॥ कालका च महाबाहो शेषास्त्वमनसोऽभवन् । अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिन्दम ॥ १४॥ आदित्या वसवो रुद्रा ह्यश्विनौ च परंतप । दितिस्त्वजनयत् पुत्रान् दैत्यांस्तात यशस्विनः ॥ १५॥ तेषामियं वसुमती पुरासीत् सवनार्णवा । दनुस्त्वजनयत् पुत्रमश्वग्रीवमरिन्दम ॥ १६॥ नरकं कालकं चैव कालकापि व्यजायत । क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् ॥ १७॥ ताम्रापि सुषुवे कन्याः पञ्चौता लोकविश्रुताः । उलूकाञ्जनयत् क्रौञ्ची भासी भासान् व्यजायत ॥ १८॥ श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः । धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः ॥ १९॥ चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी । शुकी नतां विजज्ञे तु नताया विनता सुता ॥ २०॥ दश क्रोधवशा राम विजज्ञे ह्यात्मसंभवाः । मृगीं च मृगमंदां च हरीं भद्रमदामपि ॥ २१॥ मातङ्गीमपि शार्दूलीं श्वेतां च सुरभीं तथा । सर्वलक्षणसंपन्नां सुरसां कद्रुकामपि ॥ २२॥ अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम । ऋक्षाश्च मृगमन्दायाः सृमराश्चमरास्तथा ॥ २३॥ हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः । तस्यास्त्त्विरावतीं नाम जज्ञे भद्रमदा सुताम्॥ २४॥ तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः। मातङ्गस्त्वथ मातङ्ग्या अपत्यं मनुजर्षभ॥ २५॥ गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चजनयत् सुतान्। दिशागजांश्च काकुत्स्थ श्वेता श्वेताप्यजनयत् सुतम् ॥ २६॥ ततो दुहितरौ राम सुरभिर्द्वे व्यजायत । रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् ॥ २७॥ रोहिण्यजनयद्गा वै गन्धर्वी वाजिनः सुतान् । सुरसाजनयनन्नागान् राम कद्रूस्तु पन्नगान् ॥ २८॥ मनुर्मनुष्याञ्जनयद्राम पुत्रान् यशस्विनः। ब्राह्मणान् क्षत्रियान् वैश्याञ्छूद्रांश्च मनुजर्षभ ॥ २९॥ सर्वान् पुण्यफलान् वृक्षाननलापि व्यजायत । विनता च शुकी पौत्री कद्रूश्च सुरसास्वसा ॥ ३०॥ कद्रूर्नागं सहस्रास्यं विजज्ञे धरणीधरन् । द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च ॥ ३१॥ तस्माज्जातोऽहमरुणात् संपातिस्तु ममाग्रजः । जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम ॥ ३२॥ सोऽहं वाससहायस्ते भविष्यामि यदिच्छसि । इदं दुर्गं हि कान्तारं मृगराक्षससेवितम्। सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥ ३३॥ जटायुषं तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतोऽभवत् । पितुहिं शुश्राव सखित्वमात्मवान् जटायुषा संकथितं पुनः पुनः ॥ ३४॥ स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा । जगाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षञ्शलभानिवानलः ॥ ३५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे जटायुस्सङ्गमो नाम चतुर्दशः सर्गः ॥३-१४॥