home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

पञ्चदशः सर्गः ॥३-१५॥

॥पञ्चवटिपर्णशाला॥

[ पञ्चवट्यां रम्ये प्रदेशे श्रीरामस्याज्ञया लक्ष्मणेन सुन्दरपर्णशालाया निर्माणं तत्र सीतालक्ष्मण- सहितस्य श्रीरामस्य निवासश्च ]

ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् । उवाच भ्रातरं रामः सौमित्रिं दीप्ततेजसम् ॥ १॥ आगताः स्म यथोद्दिष्टं यं देशं मुनिरब्रवीत् । अयं पञ्चवटीदेशः सौम्य पुष्पितपादपः ॥ २॥ सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि । आश्रमः कतरस्मिन्नो देशे भवति सम्मतः ॥ ३॥ रमते यत्र वैदेही त्वमहं चैव लक्ष्मण । तादृशो दृश्यतां देशः संनिकृष्ट जलाशयः ॥ ४॥ वनरामण्यकं यत्र जलरामण्यकं तथा । संनिकृष्टं च यत्र स्यान् समित्पुष्पकुशोदकम् ॥ ५॥ एवमुक्तस्तु रामेण लक्ष्मणः संयताञ्जलिः । सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत् ॥ ६॥ परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते । स्वयं तु रुचिरे देशे क्रियतामिति मां वद ॥ ७॥ सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महात्मनः । विमृशन् रोचयामास देशं सर्वगुणान्वितम् ॥ ८॥ स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि । हस्तौ गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् ॥९॥ अयं देशः समः श्रीमान् पुष्पितैस्तरुभिर्वृतः । इहाश्रमपदं सौम्य यथावत् कर्तुमर्हसि ॥ १०॥ इयमादित्यसंकाशैः पद्मैः सुरभिगन्धिभिः । अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ॥ ११॥ यथाख्यातमगस्त्येन मुनिना भावितात्मना । इयं गोदावरी रम्या पुष्पितैस्तरुभिर् वृता ॥ १२॥ हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता । नातिदूरे न चासन्ने मृगयूथनिपीडिता ॥ १३॥ मयूरनादिता रम्याः प्रांशवो बहुकन्दराः । दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः ॥ १४॥ सौवर्णै राजतैस्ताम्रैर्देशे देशे च धातुभिः । गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः ॥ १५॥ सालैस्तालैस्तमालैश्च खर्जूरपनसाम्र्कैः। नीवारैस्तिनिशैश्चैव पुन्नागैश्चोपशोभिताः ॥ १६॥ चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि । पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः ॥ १७॥ चन्दनैः स्यदनैर्नीपैः पनसैर्लिचैरपि । धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ॥ १८॥ इदं पुण्यमिदंमेध्यमिदं बहुमृगद्विजम् । इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा ॥ १९॥ एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा । अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः ॥ २०॥ पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम् । सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम् ॥ २१॥ शमीशाखाभिरास्तीर्णां धृढपाशावपाशितम् । कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा ॥ २२॥ समीकृततलां रम्यां चकार लघुविक्रमः । निवासं राघवस्यार्थे प्रेक्ष्णीयमनुत्तमम् ॥ २३॥ स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरीं तदा । स्नात्वा पद्मानि चादाय सफलः पुनरागतः ॥ २४॥ ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि । दर्शयामास रामाय तदाश्रमपदं कृतम् ॥ २५॥ स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया । राघवः पर्णशालायां हर्षमाहारयद्भृशम् ॥ २६॥ सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा । अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् ॥ २७॥ प्रीतोऽस्मि ते महत् कर्म त्वया कृतमिदं प्रभो । प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ॥ २८॥ भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥ २९॥ एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनम् । तस्मिन् देशे बहुफले न्यवसत् सुसुखं सुखी ॥३०॥ कञ्चित्कालं स धर्मात्मा सीतया लक्ष्मणेन च। अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः ॥३१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे पञ्चवटीपर्णशाला नाम पञ्चदशः सर्गः ॥३-१५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध