home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

तृतीयः सर्गः ॥३-३॥

॥विराधप्रहारः॥

[ विराधश्रीरामसंवादः श्रीरामेण सलक्ष्मणेन विराधस्योपरि प्रहरणं विराधस्य तौ द्वावपि भ्रातरौ गृहीत्वा वनान्तरे गमनम् ]

अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम्। आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः॥ १॥ तमुवाच ततो रामो राक्षसं ज्वलिताननम्। पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः॥ २॥ क्षत्त्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ। त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान्॥ ३॥ तमुवाच विराधस्तु रामं सत्यपराक्रमम्। हन्त वक्ष्यामि ते राजन् निबोध मम राघव॥ ४॥ पुत्रः किल जवस्याहं मम माता शतह्रदा। विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः॥ ५॥ तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा। शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च॥ ६॥ उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम्। त्वरमाणौ पलायेथां न वां जीवितमाददे॥ ७॥ तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः। राक्षसं विकृताकारं विराधं पापचेतसम्॥ ८॥ क्षुद्र धिक् त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम्। रणे संप्राप्स्यसे तिष्ठ न मे जीवन् विमिष्यसि॥ ९॥ ततः सज्यं धनुः कृत्वा रामः सुनिशितान् शरान्। सुशीघ्रमभिसन्धाय राक्षसं निजघान ह॥ १०॥ धनुषा ज्यागुणवता सप्त बाणान् मुमोच ह। रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान्॥ ११॥ ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः। निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः॥ १२॥ स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः। अभ्यद्रवत् सुसंक्रुद्धस्तदा रामं सलक्ष्मणम्॥ १३॥ स विनद्य महानादं शूलं शक्रध्वजोपमम्। प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः॥ १४॥ अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः। विराधे राक्षसे तस्मिन् कालान्तकयमोपमे॥ १५॥ स प्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः। जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः॥ १६॥ स्पर्शात् तु वरदानेन प्राणान् संरुध्य राक्षसः। विराधः शूलमुद्यम्य राघवावभ्यधावत॥ १७॥ तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम्। द्वाभ्यां चिच्छेद बाणाभ्यां रामः शस्त्रभृतां वरः॥ १८॥ तद् रामविशिखश्छिन्नं शूलं तस्य कराद् भुवि। पपाताशनिना छिन्नं मेरोरिव शिलातलम्॥ १९॥ तौ खड्गौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौ शुभौ। तूर्णमापततस्तस्य तदा प्राहरतां बलात्॥ २०॥ स वध्यमानः सुभृशं बाहुभ्यां परिरभ्य तौ। अप्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत॥ २१॥ तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत्। वहत्वयमलं तावत् पथानेन तु राक्षसः॥ २२॥ यथा चेच्छति सौमित्रे तथा वहतु राक्षसः। अयमेव हि नः पन्था येन याति निशाचरः॥ २३॥ स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः। बालाविव स्कन्धगतौ चकारातिबलोद्धतः॥ २४॥ तावारोप्य ततः स्कन्धं राघवौ रजनीचरः। विराधो विनदन् घोरं जगामाभिमुखो वनम्॥ २५॥ वनं महामेघनिभं प्रविष्टः द्रुमैर्महद्भिर्विविधैरुपेतम्। नानाविधैः पक्षिशतैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम्॥ २६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे विराधप्रहारो नाम तृतीयः सर्गः ॥३-३॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध